This page has not been fully proofread.

धर्मो रक्षति रक्षितः ४४-

 
समर्पणपत्रम् ।
 
कालेऽधुनाऽतिलघिमानमुपेयुषीयं
यान् प्राप्य पूरुषवरान् पितरं सुतेव ।
तं तं प्रकारमुपलभ्य निलिम्पवाणी
संमोदते निजपदप्रतिलिप्सयाऽद्य ॥ १ ॥
 
यैरन्यमानवमनोवचसोरगम्यो
 
विद्यालयो विबुधमण्डलमण्डितोऽयम् ।
विश्वाधिकः पुरवरे वृषकेतनस्य
निर्मापितो निजमहत्तरवैभवेन ॥ २ ॥
 
तेभ्यः परामकृतकां महनीयशक्तिं
 
विद्यास्वजस्रमनुरक्तिमिहाऽऽवहद्भ्यः ।
सप्रश्रयं मदनमोहन मालवीय-
विद्वद्वरेभ्य इमकां कृतिमर्पयामि ॥ ३ ॥
 
अ. चिन्नस्वामिशास्त्री,