2023-02-20 11:47:15 by ambuda-bot
This page has not been fully proofread.
[ वाक्य-
त्रानारभ्याघोतानां सन्निवेशः ।
साप्तदश्यं त्वनारभ्याथोतमपि न प्रकृतौ गच्छति, प्रकृतेः पाञ्चदश्यावरो-
धात् । किं तु विकृतिषु गच्छति । तत्रापि न सर्वासु गच्छति, चोदक प्राप्तपा-
ऋचदश्यवाथप्रसङ्गात्; किन्तु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति ।
मीमांसान्यायप्रकाशः
SPECTIONN
यथाहुः - -
एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् ।
विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति ।
न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादि-
DET
वद्यति' 'इडामुपहयते' इति वाक्य विहितस्विष्टकृदिडे गृह्येते ।
एवमनारभ्यविहितस्य प्रकृतिगामित्वं निरूप्ये तदपवादं वक्तुमारभते - साप्तदश्य-
निवति । 'सप्तदश सामिधेनी र नुब्रया दित्यनारभ्यवाक्यविहितं सामिधेन्यज्ञभूतं साप्तद-
श्यमित्यर्थः। अग्निसमिन्धनार्थाः "प्रवो वाजा अभिद्यवः" इत्याद्या ऋचस्सामिधेन्यः ।
पाञ्चदश्यावरोधादिति। तस्य प्रकरण एव पठितत्वेन शीघ्रोपस्थितत्वात् तस्यैव प्रथमं
सम्बन्धे तेनैव नैराकाङ्क्षयात् न पुनः साप्तदश्यं गृह्णातीति भावः । बाधप्रसङ्गादिति ।
साप्तदश्यस्य सामिधेनी विषयेऽतिदेश सापेक्षत्वेन तत्प्रापितपाञ्चदश्यबाघे उपजीव्यविरोधा-
पत्तेरिति भावः । अत्रेदमवधेयम्-न विकृतौ पाञ्चदश्यविरोधस्सम्भवति । प्रातिदेशि-
कस्य तस्यौपदेशिकेन साप्तदश्येन शरवत् बाघोपपत्तेः । नचानारभ्याधीतत्वेन साप्त-
दश्यस्य दौर्बल्यम् । तस्य निरवकाशत्वेन प्राबल्यात् । नाप्युपजीव्यविरोधः, सामिघेन्यंश
एवातिदेशोपजीवनात् । अन्यथा श्रौदुम्बरत्वादेः यूपविषये तदुपजीवनेन यूपपृष्ठभावेन
खादिरत्वस्याप्यतिदेशे श्रौदुम्बरत्वस्य तद्बाघकत्वस्याप्यनापत्तेः । अत एव मित्रविन्दादि-
प्रकरणस्थस्य वाक्यस्योपसंहारकत्वं सङ्गच्छते । सामान्यतः प्राप्तस्य विशेषविषये सङ्कोचनं
ह्यपसंहारः । यदि सर्वत्र विकृतिषु न साप्तदश्यं प्राप्नोति, किन्तु प्रथमत एव पाञ्चदश्य-
रहितास्वेव, तर्हि सामान्यतः प्राप्तेरेवाभावात् कथं तस्योपसंहारकत्वं भवेत् । अत एत-
द्वाक्याभावे सर्वत्रैव विकृतिषु प्राप्नुयात् । तत्तूपसंह्रियतेऽनेन वाक्येन इत्येवाभ्युपगन्त.
व्यम् । एतदभिप्रायेणैव माध्यकारोऽपि 'तत् प्रकृती विशेषविहितेन पाञ्चदश्येन बाधितं
सर्वविकृतीरनुप्राप्तम्' इत्यादि वदति । यद्यपि वार्तिकमेतद्विरुद्धमिव भाति, तथापि तद्-
प्यस्मिन्नेवार्थे सुधीभिर्योजनीयमिति । मित्रविन्दादीत्यादिपदेन पशुवैमृधाध्वरकल्पा
दयो गृह्यन्ते ।
एवञ्चेति । प्रकृतौ यत्र च विकृतौ साप्तदश्यं न पुनः थ्रूयते तत्रैव पाञ्चादमयं
निशित इति कारिकार्थः । एकेन बाक्येनाभिमतसिद्धौ किमर्थं वाक्यद्वयमिति
शङ्कते—न चेति । उपसंहारादिति । साप्तदश्यस्य सामिनीस्वरूपार्थवान.
र्थक्यात् क्रतुसम्बन्धो वक्तव्य:; अनारभ्यवाक्ये च न क्रतुस्सन्निहितः, किन्तु सामिघेन्या
अव्यभिचारितक्रतुसम्बन्धात् तद्वारा कथश्चित् क्रतो रुपस्थितिस्सम्पादनीया, ततश्च यावदना.
रभ्यवाक्यं सामिघेनीद्वारा क्रतुसम्बन्धं बोधयितुं प्रवर्तते ततः पूर्वमेव प्राकरणिकेन वा-