This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
न पर्णताया वैयर्थ्यम् । श्रवत्तहविर्द्धारणद्वारेति चावश्यं वक्तव्यम्, अन्यथा
नु

स्रु
वादिष्वपि पर्णतापत्तेः ।
 

 
सा चेयं पर्णताऽनारभ्याधीता न सर्वक्रतुषु गच्छति, वितिकृ<error>तिकृ</error><fix>कृति</fix>षु चोदके-

नापि प्राप्तिसम्भवेन द्विरुक्तत्वापत्तेः, किन्तु प्रकृतिषु । तदुक्तम्-
-
 
-
 
'प्रकृतौ वाऽद्विरुक्तत्वात्' इति ।
 

 
ऋत्र विकृतिर्थ

 
अत्र विकृतिर्य
तोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विव
-
क्षितम् गृहमेघीये पर्णताया अप्राप्तिप्रसङ्गात्, न हि गृहमेधीये पर्णताया अप्राप्तिप्रसङ्गात्, न हि गृहमेधीयात्काचन

विकृतिरङ्गानि गृह्णाति, मानाभावात् ; किंतु चोदका ([^) छ] द्यत्र नाङ्गप्राप्तिस्तत्कर्म

प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ । तत्र हि न चोदकादङ्गप्राप्तिः ।

प्रकरणपठितैरेवाङ्गैर्नैराकाङ्क्ष्यात् । गृहमेधोयादिष्वपि न चोदकादङ्गप्राप्तिः ।

क्लृप्तोपकारैरेवाज्यभागादिभिर्नैराकाङ्क्ष्यात् । अतो यत्र चोदका ([^)] प्रवृत्तिस्त
-
 
[commentary]
 
अन्यथावत्तहविर्धारणद्वारेत्यनिवेशने । सुस्रुवस्यावदानसम्पादकत्वेन ध्रुवादेः चतुर्ग-
गृ-
हीताद्याज्यधारकत्वेन च तेषामवत्तहविर्धारणाभावात् न तत्रातिप्रसक्तिरिति भावः । पर्ण-

तापत्ते रिति । स्रुवे खादिरत्वस्य उपभृति ऋाश्वत्थत्वस्य ध्रुवायां वैकङ्कत तायाश्च विहितत्वेन

तत्र पर्णताया विअपि विधाने विकल्पाद्यापत्तेरिति भावः ॥
 
a
 

 

 

 
प्रसङ्गात् पर्णतागतं विशेषं वकुक्तुमारभते--सा चेति । अनारभ्येति । यंञ्
चित्
यागविशेषमनुपक्रम्येत्यर्थः । सर्वक्रतुष्विति । प्रकृतिविकृत्युभयसाधारण्येनेत्यर्थः । विकृ
-
तिष्वपि गमने दोषमाह - --विकृतिष्विति । चोदकेन प्रतिदेशेन । द्विरुक्तत्वापत्ते.
-
रिति । विकृतेरङ्गाकाङ्क्षायां स्वसन्निधौ स्वापेक्षितनिखिलाङ्गोपदेशाभावेन प्रकृतितो

धर्मातिदेशस्यावश्यकतया तत एव पर्णताया अपि प्राप्तिसम्भवेन पुनरपि तत्र विधाने द्वि
-
र्
विधानमापद्येतेत्यर्थः । अस्मिन्नर्थे तार्तीयं सूत्रं प्रमाणयति - --प्रकृतौ वेति । वाशब्दः

पूर्वपक्षव्यावर्तकः । प्रकृतावेवानारभ्यावीधीतं पर्णतादिकं गच्छति, अन्यथा विकृतावपि

गमने द्विरुक्तत्वापत्तेरित्यर्थः । अद्विरुक्तत्वादिति छेदे प्रकृतिमात्रगमने अद्विरुक्तत्व
-
लाभादित्यर्थः । श्रन्त्राष्टमिक द्वितीयाधिकरणसिद्धं प्रकृतित्वं नाङ्गीकर्तुमुचितमित्याह -अत्रे-

ति। अङ्गीकरणे दोषमाह - --गृह मेधोधीय इति । चातुर्मास्येषु तृतीये साकमेघे पर्वण
धे पर्वणि
"मरुद्भ्यो गृह मेधिभ्यस्सर्वासां दुग्धे सायमोदन' मिति विहितेष्टिः गृहमेधोधीयेष्टिः ।

अप्राप्तिप्रसङ्गादिति । जुह्वङ्गत्वेनेति शेषः । कस्तर्हि प्रकृतिपदार्थः १ त ग्रा? अत आ--चोदका-

दिति । तिदेशादित्यर्थः । लक्ष्ये लक्षणं सङ्गमयति-तत्र हो-तत्र हीति । नैराकाङ्क्षया-
ष्या-
दिति । भावनायाः कथंभावाकाङ्क्षायां प्रयाजादीनाञ्चोपकार्याकाङ्क्षायां परस्परं सम्बन्धे

तेनैवाकाङ्क्षायाश्शान्तत्वादित्यर्थः । अस्मिन् लक्षणेऽव्याप्त्यभावमुपपादयति
-

--
गृहमेधी
-
यादिष्विति । अत्रादिपदेनोपसदवभृथादयो गृह्यन्ते । नैराकाङ्क्ष्यादिति । गृहमेधीय-

भावनाया अाअङ्गाकाङ्क्षायां यावत् प्राकृतानि क्लृप्तोपकारकाण्यज्ञाङ्गान्यतिदिश्यन्ते ततः पूर्व-

मेव क्ऌप्तोपकारस्याऽऽज्यभागादेविंर्विधानात् तावतैव भावनाकाङ्क्षायाश्शान्तेरितराज्ञाङ्गानाम-

र्थादेव निवृत्तिरिति भावः । आज्यभागादिभिरित्यादिपदेन "अग्नये स्विष्टकृते सम-

 
[^
. श्र] अङ्गाप्राप्तिः [^.] चोदकान्नाङ्गप्रवृत्तिः ।