This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
न पर्णताया वैयर्थ्यम् । श्रवत्तहविर्द्धारणद्वारेति चावश्यं वक्तव्यम्, अन्यथा
नुवादिष्वपि पर्णतापत्तेः ।
 
सा चेयं पर्णताऽनारभ्याधीता न सर्वऋतुषु गच्छति, वितिकृषु चोदके-
नापि प्राप्तिसम्भवेन द्विरुक्तत्वापत्तेः, किन्तु प्रकृतिषु । तदुक्तम्-
-
 
'प्रकृतौ वाऽद्विरुक्तत्वात्' इति ।
 

 
ऋत्र विकृतिर्थतोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विव
क्षितम् गृहमेघीये पर्णताया अप्राप्तिप्रसङ्गात्, न हि गृहमेधीयात्काचन
विकृतिरङ्गानि गृह्णाति, मानाभावात् ; किंतु चोदका (१) छत्र नाङ्गप्राप्तिस्तत्कर्म
प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ । तत्र हि न चोदकादङ्गप्राप्तिः ।
प्रकरणपठितैरेवाराकाङ्क्षयात् । गृहमेधोयादिष्वपि न चोदकादङ्गप्राप्तिः ।
क्लृप्तोपकारैरवाज्यभागादिभिर्नराकाङ्क्षयात् । अतो यत्र चोदका (२) प्रवृत्तिस्त
अन्यथावत्तहविर्धारणद्वारेत्यनिवेशने । सुवस्यावदानसम्पादकत्वेन ध्रुवादेः चतुर्ग-
हीताद्याज्यधारकत्वेन च तेषामवत्तहविर्धारणाभावात् न तत्रातिप्रसक्तिरिति भावः । पर्ण-
तापते रिति । स्रुवे खादिरत्वस्य उपभृति ऋाश्वत्थत्वस्य ध्रुवायां वैकङ्कत तायाश्च विहितत्वेन
तत्र पर्णताया विविधाने विकल्पाद्यापत्तेरिति भावः ॥
 
a
 

 

 
प्रसङ्गात् पर्णतागतं विशेषं वकुमारभते – सा चेति । भ्येति । यंञ्च
यागविशेषमनुपक्रम्येत्यर्थः । सर्वक्रतुष्विति । प्रकृतिविकृत्युभयसाधारण्येनेत्यर्थः । विकृ
तिष्वपि गमने दोषमाह - विकृतिष्विति । चोदकेन प्रतिदेशेन । द्विरुक्तत्वापत्ते.
रिति । विकृतेरङ्गाकाङ्क्षायां स्वसन्निधौ स्वापेक्षितनिखिलाङ्गोपदेशाभावेन प्रकृतितो
धर्मातिदेशस्यावश्यकतया तत एव पर्णताया अपि प्राप्तिसम्भवेन पुनरपि तत्र विधाने द्वि
विधानमापद्येतेत्यर्थः । अस्मिन्नर्थे तातयं सूत्रं प्रमाणयति - प्रकृतौ वेति । वाशब्दः
पूर्वपक्षव्यावर्तकः । प्रकृतावेवानारभ्यावीतं पर्णतादिकं गच्छति, अन्यथा विकृतावपि
गमने द्विरुक्तत्वापत्तेरित्यर्थः । अद्विरुक्तत्वादिति छेदे प्रकृतिमात्रगमने अद्विरुक्तत्व
लाभादित्यर्थः । श्रन्त्राष्टमिक द्वितीयाधिकरणसिद्धं प्रकृतित्वं नाङ्गीकर्तुमुचितमित्याह -अत्रे-
ति। अङ्गीकरणे दोषमाह - गृह मेधोय इति । चातुर्मास्येषु तृतीये साकमेघे पर्वण
"मरुद्भ्यो गृह मेधिभ्यस्सर्वासां दुग्धे सायमोदन' मिति विहितेष्टिः गृहमेधोयेष्टिः ।
अप्राप्तिप्रसङ्गादिति । जुत्वेनेति शेषः । कस्तर्हि प्रकृतिपदार्थः १ त ग्राह-चोदका-
दिति । ऋतिदेशादित्यर्थः । लक्ष्ये लक्षणं सङ्गमयति-तत्र होति । नैराकाङ्क्षया-
दिति । भावनायाः कथंभावाकाङ्क्षायां प्रयाजादीनाञ्चोपकार्याकाङ्क्षायां परस्परं सम्बन्धे
तेनैवाकाङ्क्षायाश्शान्तत्वादित्यर्थः । अस्मिन् लक्षणेऽव्याप्त्यभावमुपपादयति
- गृहमेधी
यादिष्विति । अत्रादिपदेनोपसदवभृथादयो गृह्यन्ते । नैराकाङ्क्षयादिति । गृहमेधीय-
भावनाया अाकाङ्क्षायां यावत् प्राकृतानि क्लृप्तोपकारकाण्यज्ञान्यतिदिश्यन्ते ततः पूर्व-
मेव क्ऌप्तोपकारस्याऽऽज्यभागादेविंधानात् तावतैव भावनाकाङ्क्षायाश्शान्तेरितराज्ञानाम-
र्थादेव निवृत्तिरिति भावः । आज्यभागादिभिरित्यादिपदेन "अग्नये स्विष्टकृते सम-
१. श्रङ्गाप्राप्तिः २. चोदकान्नाङ्गप्रवृत्तिः ।