This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[[वाक्य -
 
करोमि घृतस्य धारया सुशेवं कल्पयामि ([^)] इत्यस्य सदनाङ्गत्वं लिङ्गात्, न

तु वाक्यात् पुरोडाशप्रतिष्ठापना ([^)]ङ्गत्वम् तस्य दौर्बल्यादिति ॥

 
(वाक्यनिरूपणम् )
 
,
 
TAPA
 
त डीसीकी
 
B
 

 
समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादिवाचकद्विती-

याद्यभावे वस्तुतः शेषशेषिणोस्सहोच्चारणम् । यथा 'यस्य पर्णमयी जु-

हूर्भवति न (स, पाप श्लोक शृणोति' इति । अत्र हि न द्वितीयादिविभक्तिः

श्रूयते, केवलं पर्णताजुहोह्वोस्समभिव्याहारमात्रम् । तस्मादेव च पर्णताया

जुह्वङ्गत्वम् । न चानर्थक्यम्, जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थः-
पणतया श्र
-
पर्णतया अ
वत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेत् - --इति । एवं च

पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्वं भवति नान्यथेति गम्यते इति
 
-
 

 
[commentary]
 
घृतस्य धारया सुशेवं सुखसेवनीयं तत् कल्पयामि, तस्मिन् सदने उपविश हे व्रो.
हो
री-
ही
णां मेध सारभूत शोभनमनास्सन् अमृते मरणरहिते स्थाने प्रतिष्ठितो भवेति मन्त्रार्थः।

सदनाङ्गत्वमिति । सदनकरणाङ्गत्वमित्यर्थः अयमभिसन्धिः - --पूर्वार्धं सदनं

प्रकाशयति । उत्तरार्धे तु सादनम् । तद्यदि तस्मिन्निति उत्तरार्धस्थतच्छब्दस्य पूर्वार्धसा-

पेक्षत्वात् एकवाक्यत्वं परिकल्प्यते तदा उभयोरेकवाक्यत्वात् उभयोरप्यर्धयोस्सदने, सादने,

उभयत्र वा विनियोगः स्यात्, तद्बाधित्वा लिङ्गेन पूर्वार्धस्य सदनकरणाङ्गत्वमेवेति ।

पुरोडाशप्रतिष्ठापनाङ्गत्वमिति । हृदमुपलक्षणं उभयाङ्गत्वस्यापि ॥
 

 
( वाक्यनिरूपणम् )
 

 
वाक्यं निरूपयति — समभो--समभीति । श्रुत्यादावपि समभिव्याहारसत्वात् तत्रातिप्रस-

ङ्ग
वारणार्थं समभिव्याहार पदार्थमाह - --समभिव्याहारो नामेति । साध्यत्वादित्या-

दिपदेन प्रथमेन साधनत्वादेः द्वितीयेन च तृतीयादेः परिग्रहः । शेषशेषिणोः अङ्गा-

ङ्गिनोः । तद्वाचकप्रदयोरिति यावत् । एवं च यत्र शेषशेषिणोस्सहोच्चारणमात्रेणाङ्गाङ्गि-

भावोऽवगम्यते तत्र वाक्यीयो विनियोगः । यत्र द्वितीया दिकमप्यस्ति तत्र सत्यपि समभि.
-
व्याहारे 'प्रधानेन व्यपदेशा भवन्ती'ति न्यायेन श्रौतो विनियोग इति ध्येयम् । पर्णमयी

पलाशवृक्षनिर्मिता । पलाशवृक्षस्य च पर्णशब्दवाच्यत्वं--'तृतीयस्यामितो दिवि सोम
श्रा

सीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत् पर्योणोऽभवत् । तत् पर्णस्य

पर्णत्वम्' इत्यर्थवादतोऽवगन्तव्यम् । तस्मादेव वाक्थायादेव । पर्णताया जुह्वर्थत्वे जुहूस्वरूप-

स्य पर्णतां विनापि येन केनापि वृक्षेण सम्पादयितुं शक्यत्वादानर्थक्यं शङ्कते--नचेति ।

अपूर्वलक्षणादिति । अपूर्वसानत्वलक्षणादित्यर्थः । केवलमपूर्वसानत्वे लक्षिते प्रवा
ध्रुवा-
दीनामप्यपूर्वसाधनत्वाविशेषात् तत्रापि पर्ता प्राप्नुयात् तद्व्यावृत्यर्थं निष्कृष्टार्थमाह-
-
पर्ण
तयेति । अत्तं व्यवदानेन संस्कृतं यद्धविः, तद्धारणद्वारेत्यर्थः । पूर्वसाधनत्वे

लक्षिते वैयर्थ्यं परिहृतमित्याह - --एवञ्चेति । विशेषण प्रयोजनं कथयति- -अवत्तेति ।
 
>
 
-
 

 
[^
.] स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्ययामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीयां
णां मेध सुमनस्यमानः ॥ इति समग्रो मन्त्रः । [^.] सादनाङ्गत्वम्