2023-02-20 11:47:14 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः
[[वाक्य -
करोमि घृतस्य धारया सुशेवं कल्पयामि (१) इत्यस्य सदनाङ्गत्वं लिङ्गात्, न
तु वाक्यात् पुरोडाशप्रतिष्ठापना (२)ङ्गत्वम् तस्य दौर्बल्यादिति ॥
(वाक्यनिरूपणम् )
,
TAPA
त डीसीकी
B
समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादिवाचकद्विती-
याद्यभावे वस्तुतः शेषशेषिणोस्सहोच्चारणम् । यथा 'यस्य पर्णमयी जु-
हूर्भवति न (स, पापर श्लोकए शृणोति' इति । अत्र हि न द्वितीयादिविभक्तिः
श्रूयते, केवलं पर्णताजुहोस्समभिव्याहारमात्रम् । तस्मादेव च पर्णताया
जुहङ्गत्वम् । न चानर्थक्यम्, जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थः-
पणतया श्रवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेत् - इति । एवं च
पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्व भवति नान्यथेति गम्यते इति
-
घृतस्य धारया सुशेवं सुखसेवनीयं तत् कल्पयामि, तस्मिन् सदने उपविश हे व्रो.
होणां मेध सारभूत शोभनमनास्सन् अमृते मरणरहिते स्थाने प्रतिष्ठितो भवेति मन्त्रार्थः।
सदनाङ्गत्वमिति । सदनकरणाङ्गत्वमित्यर्थः अयमभिसन्धिः - पूर्वार्ध सदनं
प्रकाशयति । उत्तरार्धे तु सादनम् । तद्यदि तस्मिन्निति उत्तरार्धस्थतच्छब्दस्य पूर्वार्धसा-
पेक्षत्वात् एकवाक्यत्वं परिकल्प्यते तदा उभयोरेकवाक्यत्वात् उभयोरप्यर्धयोस्सदने, सादने,
उभयत्र वा विनियोगः स्यात्, तद्बाधित्वा लिङ्गेन पूर्वार्धस्य सदनकरणाङ्गत्वमेवेति ।
पुरोडाशप्रतिष्ठापनाङ्गत्वमिति । हृदमुपलक्षणं उभयाङ्गत्वस्यापि ॥
( वाक्यनिरूपणम् )
वाक्यं निरूपयति — समभोति । श्रुत्यादावपि समभिव्याहारसत्वात् तत्रातिप्रस-
शवारणार्थं समभिव्याहार पदार्थमाह - समभिव्याहारो नामेति । साध्यत्वादित्या-
दिपदेन प्रथमेन साधनत्वादेः द्वितीयेन च तृतीयादेः परिग्रहः । शेषशेषिणोः अङ्गा-
ङ्गिनोः । तद्वाचकप्रदयोरिति यावत् । एवं च यत्र शेषशेषिणोस्सहोच्चारणमात्रेणाङ्गाङ्गि-
भावोऽवगम्यते तत्र वाक्यीयो विनियोगः । यत्र द्वितीया दिकमप्यस्ति तत्र सत्यपि समभि.
व्याहारे 'प्रधानेन व्यपदेशा भवन्ती'ति न्यायेन श्रौतो विनियोग इति ध्येयम् । पर्णमयी
पलाशवृक्षनिर्मिता । पलाशवृक्षस्य च पर्णशब्दवाच्यत्वं-'तृतीयस्यामितो दिवि सोम
श्रासीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत् पर्योऽभवत् । तत् पर्णस्य
पर्णत्वम्' इत्यर्थवादतोऽवगन्तव्यम् । तस्मादेव वाक्थादेव । पर्णताया जुह्वर्थत्वे जुहूस्वरूप-
स्य पर्णतां विनापि येन केनापि वृक्षेण सम्पादयितुं शक्यत्वादानर्थक्यं शङ्कते-नचेति ।
अपूर्वलक्षणादिति । अपूर्वसाघनत्वलक्षणादित्यर्थः । केवलमपूर्वसाघनत्वे लक्षिते प्रवा
दीनामप्यपूर्वसाधनत्वाविशेषात् तत्रापि पर्खता प्राप्नुयात् तद्व्यावृत्यर्थ निष्कृष्टार्थमाह-
पतयेति । अत्तं व्यवदानेन संस्कृतं यद्धविः, तद्धारणद्वारेत्यर्थः । पूर्वसाधनत्वे
लक्षिते वैयर्थ्यं परिहृतमित्याह - एवञ्चेति । विशेषण प्रयोजनं कथयति- अवत्तेति ।
>
-
१. स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्ययामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीयां
मेध सुमनस्यमानः ॥ इति समग्रो मन्त्रः । २. सादनाङ्गत्वम्