This page has been fully proofread once and needs a second look.

सारविवेचनी व्याख्यासंवलितः
 
४३
 
तत्सिद्धं प्रमाणान्तरसिद्धसामान्यसम्बन्धस्य पदार्थस्य विनियोज
 
16
 
,
 
कं
लिङ्गमिति ।
 
तत्र मन्त्रविनियोजकं
लिङ्गं मुख्य एवार्थे विनियोजकं, न गौणे । मुख्या-

र्थस्य प्रथममुपस्थितत्वेन तत्रैव ([^) विनियोगवु] विनियोगबुद्धौ पर्यवसन्नायां पुनर्गौणेऽर्थे

विनियोगकल्पनायां गौरवप्रसङ्गात् । अत एव "बर्हिर्देवसदनं दामोमी"ति मन्त्रः

सामर्थ्यात्कुशलवनाङ्गम् तेषां मुख्यत्वात्, नोलपराजिलवनाङ्गमित्युक्तम् ।

 
( लिङ्गस्य वाक्यादितः प्राबल्य निरूपणम् )
 

 
निरूपणम् ]
 
तत्सितुं
लिङ्गमिति । histo

तत्र मन्त्र विनियोजकं
 
15
 

 
तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्विनियोजकत्वम्,

किं तु लिङ्गं श्रुतिं च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोग-

कल्पना सम्भवतीति सामर्थ्यस्यापि कल्प्यस्त्वेनोपजीव्यत्वात् । अतस्तैर्याव
-
त्
सामर्थ्र्यं कल्पयित्वा श्रुतिः कल्प्यते तावदेवं क्लृप्तेन सामर्थ्येन श्रुतिः कल्प-

यित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव 'स्योनं ते सदमं
 
नं
 
[commentary]
 
मन्त्रप्रतिपाद्यपूषदेवतादिविशिष्टे । प्राप्तिरिति । मन्त्राणामिति शेषः । अङ्गत्वेन सम्ब-

न्ध इत्यर्थः ।
 
-
 

 
एवं सामान्यसम्बन्धबोधक प्रमाणान्तरसापेक्षं लिङ्गमुपवर्ण्यानन्तरं लिङ्गस्य 'मुख्येऽर्थे

विनियोजकत्वं वक्तुमारभते--तत्रेति । लिङ्गद्वयमध्य इत्यर्थः । मन्त्रविनियोजक-

मिति । अर्थगतस्य लिङ्गस्य विशेषविचारासहत्वादिति भावः । शक्त्वाया प्रतिपादितोऽर्थो

मुख्यः । गौण्यादिना प्रतिपादितो गौणः । गौणार्थे विनियोजकत्वाभावे हेतुमाह --
--
मुख्यार्थस्येति । गौरवप्रसङ्गादिति । अयमाशयः -- --सर्वत्र प्रकरणपठितमन्त्रगता
<fix>-</fix>
काङ्क्षान्यथानुपपत्या विनियोगः कल्प्यते । तद्यत्र गौणेऽर्थे विनियोगः कल्पयितुमारभ्यते

तत्र मुख्यार्थप्रतिसन्धानमन्तरा गौणार्थस्य बुद्धानारोहात् प्रथमं मुख्यार्थप्रतिपत्त्यावश्य-

तायां प्रथमोपस्थिते मुख्यार्थ एव मन्त्रस्य विनियोगोपपत्तौ तावतैव मन्त्राकाङ्क्षायाश्शा-

न्तस्वेन कल्पनामूलच्छेदात् पुनरपि गौणेऽर्थे विनियोगकल्पनेऽनाकाङ्क्षितविधानरूपं गौरवं

प्रसज्येतेति । न च गौणार्थस्थापि स्मर्तव्यतया स्मारकापेक्षा सद्भावात् तदनुरोधेन

तत्रापि विनियोगः कल्प्यतामिति वाच्यम् । गौणार्थस्य ध्यानाद्युपायान्तरेणापि स्मृति-

सम्भवेन नियमेन मन्त्रानपेक्षणात् । तेषां कुशानाम् उलपः शुष्कं बर्हिः, उशीर तृणं वा ।

इत्युक्तमिति । तृतीय द्वितीयप्रथमे लिङ्गाधिकरण इति शेषः ।
 
"
 

 
( लिङ्गस्य वाक्यादितः प्राबल्यनिरूपणम् )
 

 
एवं लिङ्गं निरूप्य तद्गतं वाक्यादिभ्यः प्राबल्यं निरूपयति--तदिदमिति । तत्र

हेतुमाह -- --तेषां होहीति । न साक्षादिति । एतच्चास्माभिः पूर्वमेव निरूपितम् । नच

साक्षात् श्रुतिकल्पनमपि सम्भवतीत्याह--न चेति । तस्य लिङ्गस्य । स्योनं त इति ।

दर्शपूर्णमासप्रकरणे श्रुतोऽयं मन्त्रः । हे पुरोडाश स्योनं सुखकरं ते तव स्थानं करोमि ।
 

 
[^
.] विनियोजकतायां