This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
४१
 
तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजोजीव्यत्वेन प्रा
ब-
ल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वेऽवगते तन्मात्रप्रकाशनमनर्थक मित्य
-
पूर्वसाधनपूषप्रकाशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुम-

न्त्रण समाख्यानुगृहीताल्लिङ्गात् पूषयागापूर्वसम्वन्धिदेवता प्रकाशनार्थोऽयमि

त्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयः तथाऽपि तस्य लिङ्गेन

बाधितत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्यात्

सैव सामान्यसम्बन्धे प्रमाणं सम्भवति, दुर्बलस्यापि प्रलाश्रितस्य

प्राबल्यात् ।
 
pas
 

 
अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतेराच मनरूप प्रबल पदार्थाश्रित-

त्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतक्रमत्यागेन वेदकरणानन्तरं क्षुते आचम-

नमेव कार्यमित्युक्तम् ।
 

 
[commentary]
 
तस्य प्रकरणस्य । वाक्यलिङ्गश्रुतिकल्पनेन । बलाबलाधिकरणे उत्तरोत्तर प्रमाणानां

पूर्वपूर्वप्रमाणकल्पनेनैव विनियोजकत्वस्योकत्वादिति भावः । तन्मात्रप्रकाशनं पूर्व-

सानत्वमन्तरा पूषस्वरूपमात्रप्रकाशनम् । श्रपूर्वसाधनपूप्रकाशनार्थत्वमिति ।

पूर्वरूपत्वेनैतदन्तरा तदुत्पत्तौ प्रमाणाभावेन तदर्थत्व नर्थ क्याभावादिति
aa
 

भावः । तस्य प्रकरणस्य ।
 

 
अत एव दुर्बलस्यापि प्रलाश्रितस्य प्राबल्यादेव । दुर्बलाया इति । श्रुतेः प्रत्य-

क्षत्वेन स्वतः प्रामाण्यात् स्मृतेः पौरुषेयत्वेन स्वतः प्रामाण्यायोगेन मूलभूतश्रुतिकल्प-

नेनैव प्रामाण्यस्य वक्तव्यत्वात् श्रुत्यपेक्षया स्मृतेर्दौर्बल्यमिति भावः । स्मृतेरिति ।

'क्षुतजृम्भणादिनिमित्ते आचान्तेन कर्म कर्तव्यम्' इति स्मृतेरित्यर्थः। श्रोरौतक्र-

मेति । 'वेदं कृत्वा वेदिं करोती'ति श्रुतिविहितवेदिकरण निष्ठवेद करणानन्तर्यरूपक्रमे-

त्यर्थः । अयमन्त्र विषयः- -दर्शपूर्णमासप्रकरणे श्रुतेन 'वेदं कृत्वा मंदिवेदिं करोतो ति
ती'ति
वाक्येन वेदकरणानन्तर्येयं वेदिकरणे विधीयते । श्रथ च स्मरन्ति 'क्षतजषुतजृम्णादिनिमिचे
श्रा
त्ते
चान्तेन कर्म कर्तव्यम्' इति । वेदो नाम शयानवत्सभुग्नजान्बावाद्या कृतिविशिष्टो

दर्भमुष्टिविशेषः । सम्मार्जनखननोद्धननादिभिः संस्कारविशेषः संस्कृता भूमिः वेदिः ।

तद्यदि वेदकरणानन्तरं <flag>क्षु</flag>यात् तदा प्राप्तमाचमनं बाधित्वा क्रमानुग्रहार्थे वेदिकरण -

मेवानुष्ठेयम्, उत क्रमं बाधित्वा आचमनमिति संशयः । तत्र क्रमस्य प्रबलश्रुतिबोधि-

तत्वेन प्राबल्यात् स्मार्तमाचमनं बाधित्वा वेदिकरणमेवानुष्ठेयमिति पूर्वः पक्षः । यद्यपि

स्मृत्यपेक्षया श्रुतिः प्रला तथापि श्रुतियोबोधितस्य क्रमस्यानुष्ठेय

पदार्थंगतत्वेन पदा-

र्थगुणत्वात् दौर्बल्यम्; स्मृतेः दुर्बलत्वेऽपि तद्बोधितस्याचमनस्य स्वतः पदार्थत्वेन

प्राल्यम् । न ह्यहिनकुलवत् स्वरूपेण श्रुतिस्मृत्योर्विरोधः, विरुद्धप्रमेयप्रतिपादक
-
तयैव सः । तद्यदि प्रमेयपर्यालोचनापुरस्सरं तद्गतो विरोध आलोच्यते, तदैव तद्गतप्रा
व्

ल्
यमप्यवगतं भवतीति प्रथमोपस्थितस्वात् प्रमाणबलाबलापेक्षया प्रमेयबलालस्यैव

ज्यायस्त्वेन क्रमं बाधित्वापि प्रबलस्याचमनस्यैवानुष्ठानमिति राद्धान्तः । इत्युक्तमिति ।
६ मी० न्या०