2023-02-20 11:47:14 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
४१
तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजोव्यत्वेन प्राव
ल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वेऽवगते तन्मात्रप्रकाशनमनर्थक मित्य
पूर्वसाधनपूषप्रकाशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुम-
न्त्रण समाख्यानुगृहीतालिङ्गात् पूषयागापूर्वसम्वन्धिदेवता प्रकाशनार्थोऽयमि
त्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयः तथाऽपि तस्य लिङ्गेन
बाधितत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्यात्
सैव सामान्यसम्बन्धे प्रमाणं सम्भवति, दुर्बलस्यापि प्रवलाश्रितस्य
प्राबल्यात् ।
pas
अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतेराच मनरूप प्रबल पदार्थाश्रित-
त्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतकमत्यागेन वेदकरणानन्तरं क्षुते आचम-
नमेव कार्यमित्युक्तम् ।
तस्य प्रकरणस्य । वाक्यलिङ्गश्रुतिकल्पनेन । बलाबलाधिकरणे उत्तरोत्तर प्रमाणानां
पूर्वपूर्वप्रमाणकल्पनेनैव विनियोजकत्वस्योकत्वादिति भावः । तन्मात्रप्रकाशनं पूर्व-
साघनत्वमन्तरा पूषस्वरूपमात्रप्रकाशनम् । श्रपूर्वसाधनपूपप्रकाशनार्थत्वमिति ।
पूर्वरूपत्वेनैतदन्तरा तदुलत्तौ प्रमाणाभावेन तदर्थत्व नर्थ क्याभावादिति
aa
भावः । तस्य प्रकरणस्य ।
अत एव दुर्बलस्यापि प्रवलाश्रितस्य प्राबल्यादेव । दुर्बलाया इति । श्रुतेः प्रत्य-
क्षत्वेन स्वतः प्रामाण्यात् स्मृतेः पौरुषेयत्वेन स्वतः प्रामाण्यायोगेन मूलभूतश्रुतिकल्प-
नेनैव प्रामाण्यस्य वक्तव्यत्वात् श्रुत्यपेक्षया स्मृतेर्बल्यमिति भावः । स्मृतेरिति ।
'क्षुतजृम्भणादिनिमित्ते आचान्तेन कर्म कर्तव्यम्' इति स्मृतेरित्यर्थः। श्रोतक्र-
मेति । 'वेदं कृत्वा वेदिं करोती'ति श्रुतिविहितवेदिकरण निष्ठवेद करणानन्तर्यरूपक्रमे-
त्यर्थः । अयमन्त्र विषयः- दर्शपूर्णमासप्रकरणे श्रुतेन 'वेदं कृत्वा मंदिकरोतो ति
वाक्येन वेदकरणानन्तर्ये वेदिकरणे विधीयते । श्रथ चस्मरन्ति 'क्षतजम्मणादिनिमिचे
श्राचान्तेन कर्म कर्तव्यम्' इति । वेदो नाम शयानवत्सभुग्नजान्बाद्या कृतिविशिष्टो
दर्भमुष्टिविशेषः । सम्मार्जनखननोद्धननादिभिः संस्कारविशेषः संस्कृता भूमिः वेदिः ।
तद्यदि वेदकरणानन्तरं क्षुयात् तदा प्राप्तमाचमनं बाधित्वा क्रमानुग्रहार्थे वेदिकरण -
मेवानुष्ठेयम्, उत क्रमं बाधित्वा मनमिति संशयः । तत्र क्रमस्य प्रबलश्रुतिबोधि-
तत्वेन प्राबल्यात् स्मार्तमाचमनं बाधित्वा वेदिकरणमेवानुष्ठेयमिति पूर्वः पक्षः । यद्यपि
स्मृत्यपेक्षया श्रुतिः प्रवला तथापि श्रुतियोधितस्य क्रमस्यानुष्ठेय
पदार्थंगतत्वेन पदा-
र्थगुणत्वात् दौर्बल्यम्; स्मृतेः दुर्बलत्वेऽपि तद्बोधितस्याचमनस्य स्वतः पदार्थत्वेन
प्रावल्यम् । न ह्यहिनकुलवत् स्वरूपेण श्रुतिस्मृत्योर्विरोधः, विरुद्धप्रमेयप्रतिपादक
तयैव सः । तद्यदि प्रमेयपर्यालोचनापुरस्सरं तद्गतो विरोध आलोच्यते, तदैव तद्गतप्राच
व्यमप्यवगतं भवतीति प्रथमोपस्थितस्वात् प्रमाणबलाबलापेक्षया प्रमेयबलाचलस्यैव
ज्यायस्त्वेन क्रमं बाधित्वापि प्रबलस्याचमनस्यैवानुष्ठानमिति राद्धान्तः । इत्युक्तमिति ।
६ मी० न्या०