This page has been fully proofread once and needs a second look.

४०
 
मोमांसान्यायप्रकाशः
 
[ लिङ्ग-
प्रयाजानां प्रकरणात्
 
सान्नाथ्य्योपांशुयाजाङ्गत्वमपीत्युक्तम् ।
 

 
किं च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्य संन्धोऽवगम्यते,

किं तु यागमात्रेण; प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषसंन्धोऽवगम्यते ।

अतः प्रकरणाज्झटिति तत्सम्बन्धस्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम्,

पूषेतिशब्दस्य पुष्णातीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् ।
 

 
मैवम् । पूषानुमन्त्रणमन्त्रे
हि श्रूयमाण एवमवगम्यते--पूषाभिधान
समर्थत्वा-

दयं मन्त्रस्तत्प्रकाशनार्थ:- थः--इति, लवनमन्त्र इव लवनप्रकाशनार्थः । न तत्र प्रकर-

णाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे

 
[commentary]
 
काण्डमिति याज्ञिकैर्व्यवहृते वेदभागे इत्यर्थः । तैत्तिरीयसंहितायां द्वितीयकाण्डे पञ्चम-

षष्ठौ प्रपाठकौ पौरोडाशिकं, काण्डमिति व्यवहिह्रियेते । तत्र षष्ठे प्रपाठके प्रयाजा आम्ना
-
ताः । तेषां न समाख्यया पुरोडाशयागरूपाग्नेयाग्नीषोमीयमात्रार्थत्वम् । किन्तु समा-

ख्यापेक्षया प्रकरणस्य प्राबल्यात्तदनुरोधेन यागषट्काङ्गत्वमिति ।
 

 
अय
माशयः-
-सन्ति दर्शपूर्णमासयोः षट् यागाः--आग्नेयद्वयं, अग्नीषोमीयः,

उपांशुयाजः, सान्नाय्यं चेति । श्राग्नेयद्वयमग्नीषोमीययागश्च पुरोडाशयागाः, पौरो-

डाशिकसमाख्याते ब्राह्मणे विहितानां धर्माणां पुरोडाशयागाङ्गत्वं समाख्यया ।

तत्रैव पठिताः प्रयाजानूयाजादयः । अतस्तदन्तर्गतानां तेषां तया तन्मात्राङ्गत्वप्राप्तौ

तत् बाधित्वा प्रकरणात् षड्यागात्वमिति । उक्तमिति । बलाबलाधिकरणे वार्तिक-
कौ

का
रै रिति शेषः ।
 

 
·
 

 
एतावता समाख्यया बोधितस्यापि प्रकरणेन बा इत्यभिधाय इदानीं समाख्यया

पूषयागसम्बन्धोऽपि न बोधयितुं शक्यत इत्याह - --किञ्चेति । यागमात्रेणेति । यागा-

नुमन्त्रणसमाख्या तावत् सामान्यतो यागसम्बन्धमेव बोधयेत्, न यागविशेष सम्बधम्;

विशेषबोधकपदाभावादिति भावः । विशेषेति । प्रकरणस्य यागविशेषसम्बद्धत्वादिति

भावः । तत्सम्बन्धस्यैव यागविशेषरूपदर्शपूर्णमाससम्बन्धस्यैव । ननु सर्वमिदं तदो-

पपद्येत, यदि स्यात् पूषदेवताकं कर्म दर्शपूर्णमासप्रकरणे, तदेव तु नास्ति, अतः कथं

प्रकरणे निवेश इत्यत आह—पूत--पूषेति । पोषकत्वस्य सर्वत्र विद्यमानत्वेन योगरूढयज्ञी-
ढ्यङ्गी-
करणे गौण्या वृत्त्या अग्न्याद्यभिधायित्वाङ्गीकरणे वा क्लेशं स्फोरयति- -कथञ्चिदि-

ति । उत्कर्षांषापेक्षया तत्कल्पनमपि नातीव दोषमावहतीत्याशयः ।
 
श्रील
 

 
एवं पूर्वपक्षयित्वा भवेदेवं यदि समाख्यया परं विनियोगः, न चेह तथा; किन्तु

प्रथमतो मन्त्रश्रवणे तस्य पूषदेवता प्रकाशकत्वेन तत्सम्बन्धित्वेऽवते तावन्मात्रप्रकाशने

प्रयोजनाभावात् पूषादेः लोकेऽपि सत्वेन व्यभिचाराच्चानर्थक्यप्रसक्तौ पूर्वसम्बन्धित्वे

बोधनीये तद्ग्राहकप्रमाणान्तरगवेषणायां समाख्ययाऽपूर्वसम्बन्धित्वमात्रसमर्पणं क्रियत

इति समाख्याया लिङ्गोपष्टब्धत्वेन न प्रकरणबाध्यत्वं सम्भवतीति सिद्धान्तमाह--मैव
-
मिति । लवनमन्त्रः बर्हिर्लवनमन्त्रः । तत्र स्वार्थप्रकाशने। तेषां प्रकरणस्थानसमा

ख्यानाम् । किन्तु प्रकरणमेव स्वस्य विनियोजकत्वसिद्ध्यर्थं लिङ्गादिकमपेक्षत इत्याह-
-
प्रकरणात्त्विति । दर्शपूर्णमासार्थत्व इति । पूषाद्यनुमन्त्रण मन्त्राणामिति शेषः ।
 
-
 
AG