This page has not been fully proofread.

४०
 
मोमांसान्यायप्रकाशः
 
[ लिङ्ग-
प्रयाजानां प्रकरणात्
 
सान्नाथ्योपांशुयाजाङ्गत्वमपीत्युक्तम् ।
 
किं च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्य संवन्धोऽवगम्यते,
किं तु यागमात्रेण; प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषसंवन्धोऽवगम्यते ।
अतः प्रकरणाज्झटिति तत्सम्बन्धस्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम्,
पूषेतिशब्दस्य पुष्णातीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् ।
 
मैवम् । पूषानुमन्त्रणमन्त्रे
हिश्रयमाण एवमवगम्यते-पूषाभिधान
समर्थत्वा-
दयं मन्त्रस्तत्प्रकाशनार्थ:- इति, लवनमन्त्र इव लवनप्रकाशनार्थः । न तत्र प्रकर-
णाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्त दर्शपूर्णमासार्थत्वे
काण्डमिति याज्ञिकैर्व्यवहृते वेदभागे इत्यर्थः । तैत्तिरीयसंहितायां द्वितीयकाण्डे पञ्चम-
षष्ठौ प्रपाठकौ पौरोडाशिकं, काण्डमिति व्यवहियेते । तत्र षष्ठे प्रपाठके प्रयाजा आम्ना
ताः । तेषां न समाख्यया पुरोडाशयागरूपाग्नेयाग्नीषोमीयमात्रार्थत्वम् । किन्तु समा-
ख्यापेक्षया प्रकरणस्य प्राबल्यात्तदनुरोधेन यागषट्काङ्गत्वमिति ।
 
माशयः-
सन्ति दर्शपूर्णमासयोः षट् यागाः-आग्नेयद्वयं, अग्नीषोमीयः,
उपांशुयाजः, सान्नाय्यं चेति । श्राग्नेयद्वयमग्नीषोमीययागश्च पुरोडाशयागाः, पौरो-
डाशिकसमाख्याते ब्राह्मणे विहितानां धर्माणां पुरोडाशयागाङ्गत्वं समाख्यया ।
तत्रैव पठिताः प्रयाजानूयाजादयः । अतस्तदन्तर्गतानां तेषां तया तन्मात्राङ्गत्वप्राप्तौ
तत् बाधित्वा प्रकरणात् षड्यागात्वमिति । उक्तमिति । बलाबलाधिकरणे वार्तिक-
कौरै रिति शेषः ।
 

 
·
 
एतावता समाख्यया बोधितस्यापि प्रकरणेन बाघ इत्यभिधाय इदानीं समाख्यया
पूषयागसम्बन्धोऽपि न बोधयितुं शक्यत इत्याह - किञ्चेति । यागमात्रेणेति । यागा-
नुमन्त्रणसमाख्या तावत् सामान्यतो यागसम्बन्धमेव बोधयेत्, न यागविशेष सम्बधम्;
विशेषबोधकपदाभावादिति भावः । विशेषेति । प्रकरणस्य यागविशेषसम्बद्धत्वादिति
भावः । तत्सम्बन्धस्यैव यागविशेषरूपदर्शपूर्णमाससम्बन्धस्यैव । ननु सर्वमिदं तदो-
पपद्येत, यदि स्यात् पूषदेवताकं कर्म दर्शपूर्णमासप्रकरणे, तदेव तु नास्ति, अतः कथं
प्रकरणे निवेश इत्यत आह—पूत । पोषकत्वस्य सर्वत्र विद्यमानत्वेन योगरूढयज्ञी-
करणे गौण्या वृत्या अग्न्याद्यभिधायित्वाङ्गीकरणे वा क्लेशं स्फोरयति- कथञ्चिदि-
ति । उत्कर्षांपेक्षया तत्कल्पनमपि नातीव दोषमावहतीत्याशयः ।
 
श्रील
 
एवं पूर्वपक्षयित्वा भवेदेवं यदि समाख्यया परं विनियोगः, न चेह तथा; किन्तु
प्रथमतो मन्त्रश्रवणे तस्य पूषदेवता प्रकाशकत्वेन तत्सम्बन्धित्वेऽवतेतावन्मात्रप्रकाशने
प्रयोजनाभावात् पूषादेः लोकेऽपि सत्वेन व्यभिचाराच्चानर्थक्यप्रसक्तौ पूर्वसम्बन्धित्वे
बोधनीये तद्ग्राहकप्रमाणान्तरगवेषणायां समाख्ययाऽपूर्वसम्बन्धित्वमात्रसमर्पणं क्रियत
इति समाख्याया लिङ्गोपष्टब्धत्वेन न प्रकरणबाध्यत्वं सम्भवतीति सिद्धान्तमाह-मैव
मिति । लवनमन्त्रः बहिर्लवनमन्त्रः । तत्र स्वार्थप्रकाशने। तेषां प्रकरणस्थानसमा
ख्यानाम् । किन्तु प्रकरणमेव स्वस्य विनियोजकत्वसिद्धयर्थं लिङ्गादिकमपेक्षत इत्याह-
प्रकरणाविति । दर्शपूर्णमासार्थत्व इति । पूषाद्यनुमन्त्रण मन्त्राणामिति शेषः ।
 
-
 
AG