2023-02-20 11:47:14 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनी व्याख्यासंवलितः
३६
यदन्तरेण यत्सम्भवति तस्य तदर्थत्वं तदपेक्षम्, यथा- उक्तस्य मन्त्रस्य
लवनाङ्गत्वम्; लवनं हि मन्त्रं विनाप्युपायान्तरेण स्मृत्वा कर्तुं शक्यम्, अतो
न मन्त्रो लवनस्वरूपार्थस्सम्भवति, किन्त्वपूर्वसाधनीभूतलवनप्रकाशनार्थः ।
तत्त्वं च न सामर्थ्यमात्रादवगम्यते, लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽव-
श्यं प्रकरणादि सामान्य सम्बन्धबोधकं स्वीकार्यम् । दर्श पूर्णमासप्रकरणे हि मन्त्र-
स्य पाठादेवमवगम्यते - अनेन मन्त्रेण दर्शपूर्णमासापूर्वसम्बन्धि किञ्चित् प्र.
काश्यते इति । अन्यथा प्रकरणपाठवैयर्थ्यप्रसङ्गात् । कि तदपुर्वसम्बन्धि प्रका
श्यमित्यपेक्षायां सामर्थ्याद्वर्हिर्लंघनमित्यवगम्यते । तद्धि वहिस्संस्कारद्वारा-
पूर्वसंबन्धीति मन्त्रस्थ सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्मात्
'बहिर्देवसदनं दामी' त्यस्य प्रकरणादर्श पूर्णमाससम्बन्धितयावगतस्य साम-
र्थ्याल्लवनाङ्गत्वमिति सिद्धम् ।
-
पूषानुमन्त्रणमन्त्राणां तु यागानुमन्त्रण समाख्यया यागसामान्यसम्बन्धे
नगते सामर्थ्यात्पूषयागसम्बन्धोऽवगम्यते ।
ननु तेषां यावत्समाख्यया पूषयागेन सामान्य संबन्धोऽवगम्यते, तावत्
प्रकरणाद्दर्श पूर्णमासाभ्यामेव सामान्य सम्बन्धोऽवगतः, समाख्यातस्तस्य बली-
यस्त्वात् । अत एव पौरोडाशिकमिति समाख्याते ब्राह्मणे श्रास्तानामपि
सम्भवाच्चेति भावः ।
द्वितीयमुदाहरति — यदन्तरेणेति । तदपेक्षं प्रमाणान्तरसापेक्षम् । तदेवोपपादय-
ति - लवनं होति । उपायान्तरेण ध्यानेन, सन्निहित पुरुषवचनेन वेत्यर्थः । स्मृत्वा
कर्तुमिति । एतेन स्मरणपूर्वक मेवानुष्ठानमिति सूचितम् । उक्तं ह्यापस्तबेन - "आच-
तुर्थात् कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीति" इति । तत्वञ्च अपू-
साधनत्वं च । सामर्थ्य मात्रात् लिङ्गमात्रात् । दामीत्यस्य लुनामीत्येतावन्मात्रार्थ-
त्वात् पूर्व साधनस्वकस्य ततोऽप्रतीतेरित्यर्थः । प्रकरणादीत्यादिपदेन स्थानसमाख्ये गृह्मे-
ते । यद्यप्यत्र लवनमन्त्रे प्रकरणमेव सामान्य सम्बन्धबोधकं प्रमाणं, तथापि स्थानसमा -
ख्ययोरपि क्वचित् सामान्य सम्बन्धबोधकत्वं सम्भवतीत्येतत् स्फोरयितुमादिपदम् । एवं
सामान्यतः सम्बन्धेऽवगते अनन्तरं विशेष जिज्ञासायां लिङ्गं प्रवर्तते, तेन च बर्हिर्लवना-
र्थत्वं बोध्यत इति सामान्यसम्बन्धबोधकप्रमाणान्तर सहकृतस्यैव लिङ्गस्य विनियोजक-
त्वमित्याह - किं तदित्यादिना । प्रकरणादिति । सामान्यसम्बन्धबोधकादिति शेषः ।
एवं प्रकरणरूपसामान्यसम्बन्धबोधकप्रमाणसापेक्षं लिङ्गं निरूप्येदानीं समाख्यारूप-
सामान्यसम्बन्धबोधक प्रमाणविशिष्टं लिङ्गं निरूपयति- पूषेति । पूष्णोऽहं देवय-
ज्यया पुष्टिमान् पशुमान् भूयासम् इत्यादीनां शाखान्तराम्नातानामित्यर्थः । अत्र
यद्यपि एक एव मन्त्रः पूषदेवताकः पठितः, तथापि देवतान्तरयुक्तानां मन्त्रान्तराणां
प्रकृतासम्बद्धानां सत्वात् तानादाय बहुवचनमिति न दोषः । अत्र 'पूषाद्यनुमन्त्रणम-
न्त्राणा' मिति काचित्कः पाठः समीचीनः ।
-
यागानुमन्त्रणसमाख्ययेति । यागमनु त्यागानन्तरं उच्चार्य माणत्वात् यागा-
नुमन्त्रणम्, तन्नाम्नेत्यर्थः । तस्य प्रकरणस्य । पौराडाशिकमिति पौरोडाशिकं