2023-02-20 11:46:23 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ लिङ्ग-
तावत्प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वात्तेषां कल्पकत्वशक्तिर्विहन्यत इति
श्रुतेः प्रावल्यम् ।
अत एव "ऐन्या गार्हपत्यमुपतिष्ठत" इत्यत्र यावलिङ्गान्द्रया इन्द्रोप-
स्थाना(१)ङ्गत्वं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गार्हपत्योपस्थाना (२)ङ्गत्वं
क्रियत इति (३) ऐन्द्री गार्हपत्योपस्थानाङ्ग (४)म् ।
(लिङ्गनिरूपणम्)
सामर्थ्यं लिङ्गम् । यदाहुः--
'सामथ्र्यं सर्वभावानां लिङ्गमित्यभिधीयते' इति ।
तेनाङ्गत्वं, यथा – (५) बहिर्देवसदनं दामि' इत्यस्य लवनाङ्गत्वम् । स
हि लवनं प्रकाशयितुं समर्थः । तच लिङ्गं द्विविधम् - सामान्यसम्बन्धबोधक-
प्रमाणान्तरानपेक्षं तद्पेक्षं च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वं
तदनपेक्षं केवललिङ्गादेव । यथा - अर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न ह्यर्थ-
ज्ञानमन्त रेशानुष्ठानं सम्भवति ।
तदाकाबूदायाश्शान्तत्वेन कल्पनामूलच्छेदात् न तेषां प्रवृत्तिरिति श्रुतेः प्राबल्यमिति ।
अत एव लिङ्गापेक्षया श्रुतेः प्राबल्यादेव । ऐन्द्रया गार्हपत्यमुपतिष्ठत इति ।
(६) 'कदा चन स्तरीरसी' त्यनया इन्द्रप्रकाशिकया ऋचा गार्हपत्यसंज्ञकं अग्निमुपति-
ष्ठेतेत्यर्थः । उपस्थानं मन्त्रकरणकाभिधानम् । अङ्गत्वं कल्प्यत इति । अनया 'इन्द्रसुप.
तिष्ठेत इत्यङ्गत्व बोषकश्रुतिः कल्प्यत इत्यर्थः । मन्त्रस्य प्रकरणपाठं इन्द्र प्रकाशनरूपसामर्थ्य
च पर्यालोच्य यावता - अनेन मन्त्रेणेन्द्रोपस्थानं भावयेत् - इति श्रुतिः कल्प्यते, ततः
पूर्वमेव प्रत्यक्षया क्लृप्तया गार्हपत्यमिति द्वितीया श्रुत्या गार्हपत्याङ्गस्वमवगतमिति मन्त्रा-
काङ्क्षायास्तावतैव शान्तत्वेन निवृत्तव्यापारं लिङ्गं न पुनः प्रवर्तत इति गार्हपत्योपस्था-
नाङ्गत्वमेव मन्त्रस्य, नेन्द्रोपस्थानाङ्गत्वमिति भावः । क्रियत इति बोध्यत इत्यर्थः ।
(लिङ्गनिरूपणम् )
-
लिङ्गं निरूपयति - सामर्थ्य मिति । शक्तिरित्यर्थः । तत्र वृद्धसम्मतिमाह - साम-
यमिति । सर्वभावानां सर्वपदार्थानाम् । एवं लिङ्गद्वयसाधारण्येन लक्षणमुक्त्वा श
●दगतस्य लिङ्गस्यैव विशेषविचारसम्भवात् तदर्थे तस्यैव विनियोजकत्वमुपपादयति-
तेनेति । लिङ्गद्वयान्तर्गतेन शब्दगतेन लिनेनेत्यर्थः । बर्हिरिति । देवोपसदनयोग्यं बर्हिः
खण्डयामीत्यर्थ: । अस्य लवनाङ्गत्वमिति । बहिले बनप्रकाशनरूपमन्त्रसामर्थ्यकल्पि
तया - अनेन मन्त्रेण बहिर्लवनं सम्पादयेत् इति श्रुत्या अङ्गत्वं बोध्यत इत्यर्थः । तञ्चेति ।
यदुभयात्मकं तदित्यर्थः । सामान्येति । यत प्रमाणं सामान्यतो यागादिसम्बन्धमानं
बोधयति न विशेषं, तत् सामान्यसम्बन्धबोधकप्रमाणमित्युच्यते । श्राद्यमुदाहरति-तत्र
यदिति । अर्थज्ञानस्येति । वैदिकवाक्यार्थज्ञानस्येत्यर्थः । न हीति । विधिवाक्यार्थ-
ज्ञानमन्तरा कर्मस्वरूपस्यैवाज्ञानात् मन्त्रार्थज्ञानमन्तरा अनुष्ठेयार्थविषयकनियतस्मरणा.
१. २. नार्थ
३. द्रया.
४. ङ्गत्वं. ५. बहिर्देवसदनमारभे' इति तैत्तिरीयो मन्त्रः ॥
६ कदा चन स्तरीरसि नेन्द्र सञ्चसि दाशुषे । उपोपेन्तु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते ।