This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सार विवेचनी व्याख्या संवलितः
 
३७
 
यत्तूक्तम्- कर्तुरनभिधाने देवदत्तेन पचतोतीति तृतीयाप्रसङ्गः-
-इति, तन्न,
;
तृतीया हि कर्तुः प्रतिपत्त्यर्थं तद्गतसङ्ख्या प्रतिपत्त्यर्थं वा । तत्र कर्ता तु भाव-

नाक्षेपादेव लभ्यत इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आाख्याते नैव

प्रतीयत इति न तत्राप्यपेक्षा । यथाहुः -
 
--
 
सङ्ख्यायां कारके वा धोधीर्विभक्त्या हि प्रवर्त्त्यते ।
 

उभयं चात्र तत्सिद्धं भावनाति ङ्विभक्तितः ॥ इति ।

 
यत्र तु नाख्यातेन तद्गता सङ्ख्योच्यते तत्र भवत्येव तृतीया, यथा--देव-

दत्तेन श्रोदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किञ्चिद्दूषणमित्यलम-

तिविस्तरेण । प्रकृतमनुसरामः । तत्सिद्ध स्त्रिविधः श्रुतिविनियोगः ॥
 

 
( श्रुतेलिंर्लिङ्गादितः प्राल्यनिरूपणम् )
 

 
सेयं श्रुतिलिंङ्गादिभ्यः प्रलं प्रमाणम्। लिङ्गादिषु हि न प्रत्यक्षो विनि-

योजकश्शब्दोऽस्ति, किं तु कल्प्यः । यावच्च तैर्विनियोजकश्शब्दः कल्प्यते

 
[commentary]
 
करणं मुनित्रयोक्तिविरुद्धमिति शङ्नीयम् । "कत्वादयो विभक्त्यर्थाः, कर्मादयोपि

विशेषणत्वेन" इति "बहुषु बहुवचनम्" इति सूत्रव्याख्यानावसरे वाक्यभाष्यका.
-
राभ्यामुक्तत्वात् । न च कर्मादिगतसङ्ख्यावाचित्वेऽपि विशेषणीभूतकर्मादिवाचित्वमपि

सिध्यतीति वाच्यम्, भावनया क्षिप्तस्यानभिधेयस्यापि कर्तुः संख्योपलक्षणमात्रत्वात् ।

पूर्वोक्तवाक्यस्यापि तत्रैव तात्पर्यात् । एवं च श्राख्यातस्य कर्तृवाचित्वस्यैवासिद्धेः न

तदादाय स्मृतिविरोधोद्भावनं युक्तमिति भावः । तृतीयेति । देवदत्तेनेति याऽऽपाद्यते

तृतीया सेत्यर्थः । भावनाक्षेपात् भावनया आक्षेपात् । सङ्ख्यायामिति । कर्त्रधिकरण -
-
स्थवार्तिकमिदम् । भावनातिङ्विभक्तित इति । तृतीया हि संख्याविषयकं करणत्व-

विषयकं च ज्ञानं सम्मापादयेत् । उभयमप्यत्र प्रमाणान्तरेण सिध्यति । भावनया कर्तुः
ति

तिङ्
विभक्त्या संख्यायाश्च सिद्धत्वादित्यर्थः । अलमतिविस्तरेणेति । अधिकमवजिग-

मिषुभिः वार्तिकन्यायसुधादितोऽवगन्तव्यम् विस्तरभयात्तु नेह प्रपञ्च्यत इति भावः ।

प्रसङ्गागतत्वमाख्यातस्य कर्तृवाचकत्वाभाव निरूपणस्य ध्वनयति- -प्रकृतमिति ।
 

 
( श्रुतेः लिङ्गादितः प्राबल्य निरूपणम् )
 
-
 

 
एवं श्रुतिं निरूप्य तद्गतं लिज्ञाङ्गाद्यपेक्षया प्राबल्यं निरूपयति--सेयमिति । यद्यपि

मूले श्रुत्यादिप्रमाणषट्कनिरूपणं परिसमाप्यैव तद्गतप्राबल्यदौर्बल्यनिरूपणं कृतं, तथा-

प्यत्र श्रुतौ निरूपितायां तद्गतप्राबल्यदौर्बल्यशङ्काया उत्थितत्वात्तस्याश्चोपेक्षा नर्हत्वादत्रैव

तन्निरूपणमिति ध्येयम् । प्राल्ये हेतुमाह - --लिङ्गादिष्विति । श्रुतिव्यतिरिके लिङ्गादि-

प्रमाणपञ्चके इत्यर्थः । अयमाशयः - --न केवलं सामर्थ्यं समभिव्याहारादिकं वा दृष्ट्वा
श्र

ङ्गताबुद्धिरुत्पद्यते, किं तु या द्वितीयातृतीयादिः साध्यत्वकरणत्वादिबोधिका तयैव सेति

अवश्यं लिङ्गादिभिः स्वान्यथानुपपत्या श्रुतिः कल्पनीया, तदपि पूर्वपूर्वप्रमाण कल्पनद्वा-

रैवेति तत्तन्निरूपणावसरे वक्ष्यते । तद्यत्र लिङ्गादिविरुद्धा श्रुतिः तत्र यावत् लिङ्गेन श्रुतिं,

वाक्येन लिङ्गश्रुती प्रकरणादिमिश्रभिश्च स्वस्वपूर्वप्रमाणानि कल्पयित्वा विनियोगः क्रियते,

ततः पूर्वमेव प्रत्यक्षया श्रुत्या प्रमाणान्तरनिरपेक्षया अन्यत्र विनियोगः कृत इति तावतैव
 
2