This page has been fully proofread once and needs a second look.

३६
 
मीमांसान्यायप्रकाशः
 
[ [श्राख्यातार्थ -
 
मानाधिकरण्यं न मुख्यम्; तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्तिमात्ररूपक-

र्
तृकारकाभिधानात्, शक्तिम द्द्रव्यस्याकृ
त्यधिकरणन्यायेनानभिधानात्,देवद-

त्तशब्देन च द्रव्यमात्राभिधानात्, अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं

सामानाधिकरराण्यम्, किंतु लाक्षणिकमेवेति न कश्चिद्विशेषः ।
 
त्यधिकरणन्यायेनानभिधानात्,
 

 

 
न च 'लः कर्तरी'ति व्याकरणस्मृतिबलादाख्यातवाच्यः कर्तेति वाच्यम् ।

न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यति-

रेकगम्यत्वात् । भवतु वा स्मृतिगम्यः, तथापि नेयं स्मृतिः कर्तुराख्यातवा
-
च्यत्वे प्रमाणम्, किन्तु कर्तुरेकत्वे एकवचनात्मको लकारः, द्विलेत्वे द्विवचना-

त्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम्, 'द्व्येक योर्द्विवचनै-

कवचने, बहुषु बहुवचनमि'त्यनेनास्याः स्मृतेरेकवाक्यत्वात् ।
 

 
[commentary]
 
ति । तृतीयावदिति । कारकाणामेव क्रियान्वयात् तृतीयायाः कर्तृत्ववाचित्व एव क्रिया.
-
न्वयो घटते, न तु तदाश्रयवाचित्व इत्यर्थः । शक्तिमात्रेति । मात्रपदेन तदाश्रयव्यावृत्तिः।

आकृत्यधिकरण न्यायेनेति । अयं भावः- -द्रव्यकारकवादिनो वैय्याकरणस्य पक्षेऽपि

निश्शक्तिकस्य कारकत्वायोगात्, शक्तिविशिष्टस्य कारकत्वमभ्युपगन्तव्यम् । तथा च

'नागृहीत विशेषणा' न्यायेन शकेक्तेः: पूर्व ज्ञानावश्यम्भावेन तत्रैव शब्दव्यापारोपरमात्

विशिष्टे शक्तिकल्पनायां गौरवापत्तेः न शक्तिमद्द्रव्यस्याभिधानमिति । भिन्नार्थनिष्ठ-

त्वादिति । देवदत्तशब्दस्य द्रव्यमात्रपरत्वस्योभयवादिसिद्धत्वात् आख्यातस्य शक्तिमा
-
त्रपरत्वस्य भवताप्यवश्याभ्युपगमनीयत्वाच्चेति भावः । एवं च भवन्मतेऽपि मुख्यसामा-

नाधिकरण्यासम्भवेऽपि गौणसामानाधिकरण्यमङ्गीकृत्यैव यथा निर्वाहः कथंचित् कार्यः,

एवं ममापि भविष्यतीति नात्र पर्यनुयोगावसर इत्याशयेनाह - --न कश्चिद्विशेष इति ।

 
इदानीं न्यायसिद्धविषये स्मृतिविरोधमुक्तमनूद्य परिहरति--नचेति । तत्रैव स्मृति-

न्याययोः विरोध उद्भावनीयो यत्र स्मृतिन्यायौ समानविषयौ । अत्र तु न्यायस्यान्य एव

विषयः--किं वाच्यं किं वाचकमिति । व्याकरणस्य तु अन्य एव विषयः - --कः साधु-

शब्दः को वाऽपभ्रंश इति । एवं च साध्वसाधुशब्द मात्रविषयकस्य व्याकरणस्य शब्दार्थ-

निर्णायकेन न्यायेन सह विरोध एव नास्तीत्याशयेनाह--न हीति । तर्हि किमधीनः
-
?
अत आह--
तस्येति । न्यायेति । "अनम्न्यलभ्योऽर्थो वाच्यः, अन्यलभ्योऽर्थो
 

भ्म्यः" इति न्यायेत्यर्थः । अत एवोक्तं वार्तिक कृता- -"वाच्यवाचकसम्बन्धो ना-

चार्यैरुपदिश्यते । अन्यथानुपपत्त्या हि व्यवहारात्स गम्यते" इति । अभ्युपेतेऽपि

स्मृतिगम्यत्वे न भवदिष्टसिद्धिरित्याह- -भवतु वेति । स्मृतिगम्य इति । वाच्यवा-

चकभाव इति शेषः । एकवाक्यत्वादिति । श्रयमाशयः- -"सर्वाण्येव हि शास्त्रा.
-
णि स्वप्रदेशान्तरैस्सह । एकवाक्यतया युक्तमुपदेशं वितन्वते" इति न्यायेन

"लः कर्मणि" इत्यस्य "इथेद्व्येकयोरि" त्याद्येकवाक्यतावश्यमङ्गीकार्या, अन्यथा

एकदेशभूतस्याऽस्य अर्थप्रती तिजनकत्वमेव न स्यात् । न च वाच्यमिदमेकवाक्यतानी-
ङ्गी-
करणं व्याकरणे ऽदृष्टचरमिति । व्याकरणे प्रायेण संज्ञापरिभाषादिसूत्रेषु एकवाक्यताया

एवाशीङ्गीकारात् । नचैवं एकवाक्यतामङ्गीकृत्य लकाराणां कर्त्रादिगतसङ्ख्यावा चित्वाङ्गी-
-