This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[[ख्यतार्थ-
त्वाद्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावैयर्थ्यम् । लिङ्गसङ्ख्या-

प्रतिपत्त्यर्थं तस्या आवश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च ।

ततश्च यदि कर्ता न वाच्यस्स्यात् देवदत्तेन पचतीति प्रयोगस्स्यात् । तस्मा
-
दाख्यातवाच्यः कर्तेति सिद्धमिति पूर्वपक्षसङ्क्षेपः ।
 

 
अत्राहुः - --स ए हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, 'डानन्य-
अनन्य-
लभ्यश्शब्दार्थ' इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव

प्रतिपत्तिसम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभा-

वना कर्तारं विनानुपपन्ना तमाक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे कि-

मिति तद्वाचकत्वमाख्यातस्य कल्पनीयम् ।
 

 
[commentary]
 
अभिहितं यत्कर्तृकारकं कर्मकारकं वा तद्द्बोधकविभक्तित्वादित्यर्थः । ननु - --न प्रथमायाः

अभिहितकारकवाचित्वं सम्भवति 'प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा' इति

प्रातिपदिकाद्यर्थमात्रे प्रथमाविधानात् अत - --प्रातिपदिकेति ।
 
2
 

 
नु सर्वत्र विभक्त्या लिङ्गसङ्गयाप्रत्तिपतिस्सम्भवति । अलिङ्गनियतलिङ्गेषु

प्रातिपदिकार्थमात्रप्रतीतेः इत्यस्वरसादाह--केवलेति । 'न केवला प्रकृतिः प्रयोक्त-

व्या' इति न्यायादिति भावः । आख्यातस्य कर्तृवाचकत्वमुपसंहरति--तस्मादिति ।
 

 
सिद्धान्तयति--अत्राहुरिति । अयं भावः--सर्वत्रैव तावत् उच्चरितात् शब्दात्

अनेकेऽर्थाः प्रतीयन्ते । न चैतावता सर्वेषां शब्दाभिधेयत्वं सम्भवति । 'अन्याय्यं चाने-

कार्थत्व' मिति न्यायात् । अतः क्वचिदेव शक्तिः ; इतरेषां तु लक्षणादिना प्रतीतिरित्ये-

वाभ्युपगन्तव्यम् । तद्यत्र शक्तिकल्पनामन्तरा प्रतीतिप्रयोगौ नावकल्पेते तत्रैव शक्तिः,
यत्र त्वन्य

यत्र त्वन्य
विषयिण्यैव शक्त्या प्रतीतिप्रयोगौ अन्येषामुपपद्येते तत्र न कल्प्यते शक्तिः । यथा

गङ्गापदस्य न तीरे शक्तिः, यथा वा सिंहपदस्य न माणवके शक्तिः । तदिह ख्यात
-
श्रवणात् भावनाकर्तृतत्संख्या पुरुषोपग्रहकाल विशेषाः प्रतीयन्ते । नैतेष्वेकेनापि भावना

क्षिप्यते । तथाहि - --न तावत् कालसङ्ख्या दीनां तदाक्षेपकत्वम् । विनापि भावनां काल.
-
संख्यादीनां सत्वात् । न च सङ्ख्यादीनां व्यभिचारेऽपि कर्तुरव्यभिचारात् तेन तदाक्षेपोऽ-

स्त्विति वाच्यम्, कर्तुरप्रयतमानस्य पाकादौ कर्तृत्वस्यैवाऽसिद्धेः । तत्सिद्ध्यर्थं गम्यमा-

नायाः प्रयत्नरूपाया भावनायाः तदपेक्षया प्राधान्यायोगात् । न चेष्टापत्तिः । 'भावप्रधा-

नमाख्यातम्' इति स्मृतिविरोधापत्ते:, विशिष्टे शक्तिकल्पनारूपगौरवप्रसङ्गाच्च । अतो

लाघवात् भावना यामेव कृत्यपर पर्यायायां शक्ताववधारितायां तथाया कर्तुराक्षेप इत्यन्यलभ्य

त्वान्नाख्यातस्य कर्तृवाचकत्वमिति ।
 
J
 

 
न च कर्तुरिव कालादीनामपि तयैवाक्षेपसम्भवात् तेषामप्याख्यातवाच्यत्वाना-

पत्तिरिति वाच्यम् । भावनया नियमेन कालसंख्यादिविशेषाणामनाक्षेपात् । दृश्यते हि

भावना कालान्तरपुरुषान्तरोपग्रहान्तरेष्वपीति । तीरमर्थः इति । गङ्गायां घोषः इत्य.
-
त्रेत्यर्थः । प्रतिपत्तिः ज्ञानम् । अत एव अनन्यलभ्यस्यैव शब्दार्थत्वादेव । प्रत्येकं

पदैः पदार्थोपस्थितौ समभिव्याहारादेव परस्परसम्बन्धरूपस्य वाक्यार्थस्य प्रतिपत्ति-

सम्भवेन न वाक्यस्य वाक्यार्थे शक्तिकल्पनमावश्यकमिति भावः । एतेन वाक्यस्य वा
 
·
 
P
 
-