This page has been fully proofread once and needs a second look.

नरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
पचतोतीति सामानाधिकरण्यं न स्यात् । न हि केवलं भावनावाचकस्याख्या-

तस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृ-

वाचकत्वे तूपपद्यत एव । 'लः कर्तरी'ति व्याकरणस्मृतिविरोधस्तु कर्तुरन-

भिधेयत्वे स्पष्ट एव ।
 
३३
 

 
किं च कर्तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः । तृतीया हि

अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन कर्ता ([^)] नाभिहित इति

कर्तृवाचिनी तृतीया स्यादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न

प्राप्नोति, तस्या अनभिहिताधिकारस्थत्वात् । देवदत्तः पचतीति प्रथमा तु

प्राप्नोत्येव, प्रथमाया अभिहितकारक विभक्तित्वात् प्रातिपदिकार्थमात्र वाचि-
-
 

 
[commentary]
 
चारदर्शनादव्यभिचाराच्च कर्त्तुराक्षेप इत्यरुचेराह--किञ्चेति । ऊहादिलोपप्रसङ्गा-

दिति । प्राकृतस्य मन्त्रस्य विकृतौ कार्यमुखेनागतस्य विकृतिसम्बन्धिपदार्थ प्रकाशनार्थं

प्राकृतपदत्यागेन पदान्तरप्रक्षेपोऽत्र ऊहः । तत्र यद्यशाब्दस्यापि शाब्देनान्वयोऽङ्गी-

क्रियेत तदा सौर्यादौ सूर्यपदप्रक्षेपमन्तराऽपि स्मृतथाया सूर्यदेवतया सह शाब्दस्य निर्वापादे-

रन्वय सम्भवादूहलोपः प्रसज्येतेत्यर्थः । दिपदेन अतिदेशानुषाषङ्गाध्याहाराणां परिग्रहः ।
बि

वि
कृतिभावनाया इतिकर्त्तव्यताकाङ्क्षायामुपमितिप्रमाणेनोपस्थितप्राकृतपदार्थान्वयमात्रेणा-

काङ्क्षाशान्तेः प्रकृतिवच्छन्दकल्पनं न स्यात्; इषे त्वेत्यादौ "छिनझिद्मि " इत्यध्याहारो

न स्यात् ; "या ते अग्ने रजाशये" त्यादौ तनूरित्या देरनुषङ्गश्च न स्यात् इति भावः ।
 

 
सामानाधिकरण्यं एकार्थविषयकबुद्धिजनकत्वम् । केवलं भावनावाचकस्येति ।

एतेन नाख्यातस्य कर्तृलक्षकत्वमपि सम्भवति; गोवा रु॑त्वारुण्यादीनि साक्षात् व्यक्त्याश्रितत्वेन

स्वानुरक्तां व्यक्तिविषयिणीं बुद्धिमुत्पादयन्तीति युक्तं गवादिशब्दानामाकृत्यधिकरणन्या-

येन जातिगुणवाचित्वे सिद्धे भेदोपचारात् व्यक्तिलक्षकत्वम्, भावनायास्तु व्यापाररू-

पत्वेन देहसमवायात् देहदेहिनोरमेभेदोपचारेण देह्यात्मसमवेतत्वव्यपदेशेऽपि साक्षादात्मस-

मवेतत्वाभावात् देहस्य चाचेतनत्वेनास्वातन्त्र्यात् कर्तृत्वानुपपत्तेः चेतनस्यैव कर्तृत्वस्य

न्याय्यत्वात् तस्य च विशेष्यस्य कर्तृत्वेनाभिमतस्याधिश्रयणाद्यनुरक्तत्वावगतेः अभेदोप-

चारासम्भवात्, यथा "दण्डो देवदत्तः" इति न सामानाधिकरण्यं, न वा दण्डशब्दस्य

पुरुषलक्षकत्वं, एवमाख्यातस्यापि न पुरुषलक्षकत्वमिति ध्वनितम् । लः कर्तरीति ।

'लः कर्मणो णी'त्यस्यानुषक्तकर्तृपदस्यार्थतोऽनुवादोऽयम् । तेन सूत्रेण सकर्मकेभ्यो

धातुभ्यो लकाराः कर्मवाचकाः कर्तृवाचकाश्च; अकर्मकेभ्यस्ते भाववाचकाः कर्तृवाच-

काश्चेत्यर्थकेन लकारस्य कर्त्रादिवाचकत्वानुशासनादिति भावः । स्पष्ट एवेति । 'कर्त-

रिकृ' दितिसूत्रस्थस्य कर्तुः कृदभिषेधेयत्वबोधकस्यात्रानुषक्तस्य कर्तरीति पदस्यात्रापि कर्तुः

तिङभिघेयत्वबोधकत्वमेव युक्तम्, अन्यथा स्मृतिविरोधस्स्पष्ट एवेत्यर्थः ।
 

 
अनभिहिताधिकारस्थत्वादिति । 'अनभिहिते' इत्यधिकृत्य 'कर्तृकरणयोयोः-

तृतीया' इति कर्तरि करणे च तृतीयाया विहितत्वादित्यर्थः । अभिहितकारकेति ।
 

 
[^
.] र्तानभि.
५ मो० न्या०