2023-02-20 11:46:23 by ambuda-bot
This page has not been fully proofread.
नरूपणम् ]
सारविवेचिनोव्याख्या संवलितः
पचतोति सामानाधिकरण्यं न स्यात् । न हि केवलं भावनावाचकस्याख्या-
तस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृ-
वाचकत्वे तूपपद्यत एव । 'लः कर्तरीति व्याकरणस्मृतिविरोधस्तु कर्तुरन-
भिधेयत्वे स्पष्ट एव ।
३३
किं च कर्तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः । तृतीया हि
अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन कर्ता (१) नाभिहित इति
कर्तृवाचिनी तृतीया स्यादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न
प्राप्नोति, तस्या अनभिहिताधिकारस्थत्वात् । देवदत्तः पचतीति प्रथमा तु
प्राप्नोत्येव, प्रथमाया अभिहितकारक विभक्तित्वात् प्रातिपदिकार्थमात्र वाचि-
-
चारदर्शनादव्यभिचाराच्च कर्त्तुराक्षेप इत्यरुचेराह – किञ्चेति । ऊहादिलोपप्रसङ्गा-
दिति । प्राकृतस्य मन्त्रस्य विकृतौ कार्यमुखेनागतस्य विकृतिसम्बन्धिपदार्थ प्रकाशनार्थं
प्राकृतपदत्यागेन पदान्तरप्रक्षेपोऽत्र ऊहः । तत्र यद्यशाब्दस्यापि शाब्देनान्वयोऽङ्गी-
क्रियेत तदा सौर्यादौ सूर्यपदप्रक्षेपमन्तराऽपि स्मृतथा सूर्यदेवतया सह शाब्दस्य निर्वापादे-
रन्वय सम्भवादूहलोपः प्रसज्येतेत्यर्थः । दिपदेन अतिदेशानुषाध्याहाराणां परिग्रहः ।
बिकृतिभावनाया इतिकर्त्तव्यताकाङ्क्षायामुपमितिप्रमाणेनोपस्थितप्राकृतपदार्थान्वयमात्रेणा-
काङ्क्षाशान्तेः प्रकृतिवच्छन्दकल्पनं न स्यात् इषे त्वेत्यादौ "छिनझि" इत्यध्याहारो
न स्यात् ; "या ते अग्ने रजाशये" त्यादौ तनूरित्या देरनुषङ्गश्च न स्यात् इति भावः ।
सामानाधिकरण्यं एकार्थविषयकबुद्धिजनकत्वम् । केवलं भावनावाचकस्येति ।
एतेन नाख्यातस्य कर्तृलक्षकत्वमपि सम्भवति; गोवा रु॑ण्यादीनि साक्षात् व्यक्त्याश्रितत्वेन
स्वानुरक्तां व्यक्तिविषयिणीं बुद्धिमुत्पादयन्तीति युक्तं गवादिशब्दानामाकृत्यधिकरणन्या-
येन जातिगुणवाचित्वे सिद्धे भेदोपचारात् व्यक्तिलक्षकत्वम्, भावनायास्तु व्यापाररू-
पत्वेन देहसमवायात् देहदेहिनोरमेदोपचारेण देह्यात्मसमवेतत्वव्यपदेशेऽपि साक्षादात्मस-
मवेतत्वाभावात् देहस्य चाचेतनत्वेनास्वातन्त्र्यात् कर्तृत्वानुपपत्तेः चेतनस्यैव कर्तृत्वस्य
न्याय्यत्वात् तस्य च विशेष्यस्य कर्तृत्वेनाभिमतस्याधिश्रयणाद्यनुरक्तत्वावगतेः अभेदोप-
चारासम्भवात्, यथा "दण्डो देवदत्तः" इति न सामानाधिकरण्यं, न वा दण्डशब्दस्य
पुरुषलक्षकत्वं, एवमाख्यातस्यापि न पुरुषलक्षकत्वमिति ध्वनितम् । लः कर्तरीति ।
'लः कर्मणो त्यस्यानुषक्तकर्तृपदस्यार्थतोऽनुवादोऽयम् । तेन सूत्रेण सकर्मकेभ्यो
धातुभ्यो लकाराः कर्मवाचकाः कर्तृवाचकाच; अकर्मकेभ्यस्ते भाववाचकाः कर्तृवाच-
काश्चेत्यर्थकेन लकारस्य कर्त्रादिवाचकत्वानुशासनादिति भावः । स्पष्ट एवेति । 'कर्त-
रिकृ' दितिसूत्रस्थस्य कर्तुः कृदभिषेयत्वबोधकस्यात्रानुषतस्य कर्तरीति पदस्यात्रापि कर्तुः
तिङभिघेयत्वबोधकत्वमेव युक्तम्, अन्यथा स्मृतिविरोधस्स्पष्ट एवेत्यर्थः ।
अनभिहिताधिकारस्थत्वादिति । 'अनभिहिते' इत्यधिकृत्य 'कर्तृकरणयो-
तृतीया' इति कर्तरि करणे च तृतीयाया विहितत्वादित्यर्थः । अभिहितकारकेति ।
१. र्तानभि.
५ मो० न्या०