This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
३२
 
सा च कर्तारं विनाऽनुपपन्ना तमाक्षिपति ।
 
[ आाख्यातार्थ -
 

 
(आाख्यातार्थनिरूपणम् )
 

 
ननु - --किमित्येवं वर्ण्यते-आक्षेपलभ्यः कर्तति । श्राख्यातवाच्य एव किं न
स्यात्
तेति । आख्यातवाच्य एव किं न
स्यात् । आख्यात
श्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः । न च भावनयैवाले-
क्षे-
पसंभवे किमिति तद्वाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यात-

वाच्यकर्त्रैव भावनाक्षेपसंभवे तद्वाचक्रत्वमपि न स्यात् ।
 

 
किं च भावनाया न केवलं कर्त्रैव सम्बन्धः, , कारकान्तरेणापि सम्बन्धात् ।

अतः सा न झटिति कर्तारमेवाक्षिपेत्, विशेषाभावात् । कर्ता तु भावनयैव

संबद्धो न कारकान्तरेण, 'गुणानां च परार्थत्वादसंन्धः समत्वात्स्यात्'

इति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यातवाच्यः । भाव-

ना तु आक्षेपलभ्यैव किं न स्यात् ।
 

 
किंचैवं तृतीयादिविभक्तीनामपि करणादिवाचकत्वं न स्यात्, तेषामपि

कर्तृवदाक्षेपलाभसंभवात् ।
 

 
किंच यदि कर्ता न वाच्यः स्यात् कथमेकत्वं तेनान्वियात् ? न हि शा-

ब्दमशाब्दे ([^)] नान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः । किंच देवदत्तः

 
[commentary]
 
इत्यर्थः । य्राक्षेपलभ्यत्वमुपपादयति--आख्यातेन होहीति । अनुपपन्नेति । तस्याः

चेतनव्यापाररूपत्वेनाऽऽश्रयमन्तराऽवस्थानासम्भवादिति भावः ।
 

 
इदानीं कर्तुराख्यातवाच्यत्ववादी वैयाकरणः प्रत्यवतिष्ठते--नन्विति । आाख्या-

तवाच्यत्वमुपयादयति--आख्यातश्रवण इति । यद्यस्मान्नियमेन प्रतीयते तत्तस्य वा.
-
च्यमिति पूर्वमप्युक्तत्वादिति भावः । तद्बाचकत्वं क<flag>र्ताऽऽच</flag>कत्वम् । न स्यादित्य-

नन्तरं इत्यपि वक्तुं शक्यत्वादिति पूरणीयम्, तथा च कर्तुराख्यातवाच्यः तेन

भावनाक्षिप्यते, भावनाया याख्यातवाच्यत्वं, तथाया वा कर्तुराक्षेप इत्यत्र विनिगमनावि-
- किञ्चेति ।
 

रह इत्याशयः ।
 

 
नन्वस्तु विनिगमनाविरहः, न तावता भवदिष्टसिद्धिः
, अत आह--किञ्चेति ।
यदि कर्त्रैव परमसाधारणः सम्बन्ध: स्यात् तर्ह्याक्षिपेत् भावना कर्त्तारं, नैतदस्तीति

भावः । झटिति इतरकारका क्षेपतः पूर्वम् । स्वमत एतद्वैषम्यमाह- -कर्त्ता त्विति ।

कर्तुः कारकत्वेन क्रियान्वयस्यैवोचितत्वादिति भावः । गुणानामिति । गुणानां प्रधा-

नार्थत्वेन समत्वात् परस्परं सम्बन्धो न भवतीति सूत्रार्थः ।
 

 
ननु भावनायाः सर्वकारकसम्बन्धेऽपि प्रथमतः कर्त्रैव सा सम्बध्यते तदधीनत्वा
-
दितरकारकसमवधानस्य, कर्तृव्यापार सामान्यरूपा हि सा तमेव विशेषतः पर्युपस्था-

पयति, कारकान्तराणि तु धात्वर्थसम्बन्धित्वाद्बहिरङ्गाणि भवन्ति । अतः प्रथमोपस्थि-

तत्वात्प्रथमातिक्रमणे कारणाभावाच्च कर्त्ताऽऽक्षिप्यत इत्यस्वरसादाह - --किञ्चेति ।

आक्षेपलामसम्सम्भवादिति । आक्षेपलामात्रेण वाच्यत्वाजीङ्गीकारे तथा कर्तृवदितरेषा-

मप्यात्क्षेपसम्भवाद्वाच्यत्वं न स्यादित्यर्थः ।
 

 
ननु यथा नियमेन कर्त्ताऽऽक्षिप्यते, न तथा कारकान्तराणि । अतस्तेषां व्यभि-

 
[^
.] न्वेति.
 
-