This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
'यदाहवनीये जुहोती त्याहवनीयस्य होमाङ्गत्वं सप्तमोत्या । एवमन्यो-
ऽपि विभक्तिक्षुत्या विनियोगो ज्ञेयः ।
 
पशुना यजेत्यत्रै करखपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम् । यजे-
तेत्याख्याताभिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधानश्रुतेः । एकपदश्रुत्या
च यागाङ्गत्वम् । न चामूर्तायास्तस्याः कथं यागाङ्गत्वमिति वाच्यम्; कर्तृ-
परिच्छेदद्वारा तदुपपत्तेः । कर्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोच्यते ।
 
श्रुतिं कल्पयित्वा रशनामात्रे विनियोगः क्रियते, ततः पूर्वमेव प्रत्यक्षा श्रुतिरश्वाभिधान्यां
मन्त्रं विनियुङ्क्त इति लिङ्गस्य श्रुत्या बाधितत्वात् युज्यतेऽश्वाभिधान्यङ्गत्वं मन्त्र-
स्येति भावः ।
 
-
 
सप्तमीश्रुतेरुदाहरणमाह - यदिति । अन्योऽपोति । सर्वेभ्यः कामेभ्यो दर्श-
पूर्णमासी, मैत्रावरुणाय दण्डं प्रयच्छति, अग्नेः तृणान्यपचिनोति, गोदोहनेन
पशुकामस्य प्रणयेत्, यजमानस्य याज्या इत्यादौ चतुर्थीपञ्चमीषष्ठीविभक्तिभिः,
विनियोगो बोध्य इत्यर्थः ।
 
एवं विनियोक्त्रीं विभक्तिरूपां श्रुतिं निरूप्येदानीं समानाभिधानरूपां तां निरूप-
यति – पशुनेति । 'यो दीक्षितो यदग्नीषोमीयं पशुमालभते' इतीदमेव वाक्यं
तृतीयान्तत्वेन विपरिणतपशुपदं त्यक्तानीषोमीयपदं पशुनायजेते' त्यर्थतः सर्वत्रोदाहि
यते नान्यदतोऽस्ति पशुना यजतेति वाक्यम् । प्रत एव चतुर्थे पश्वेकत्वा-
धिकरणे इदमेव वाक्यमुदाहृतं भाष्यकारैरिति ध्येयम् । वस्तुतस्तु पौर्णमास्य-
धिकरणशास्त्रदीपिकापर्यालोचनया तदधिकरणस्थ 'चोदना वा गुणाना' मिति सू-
कौस्तुभपर्यालोचनया च पशुना यजेतेति अग्नीषोमीयवाक्यतो भिन्नं वाक्या-
न्तरप्राप्तकर्मोद्देशेन जातिसंख्या विशिष्टकारकविधायकं शाखान्तरीयं वाक्यमित्येव युक्तं
प्रतीयते । समानाभिधानश्रुत्येति । त्रयाणामे के नैव प्रत्ययेनभिहितत्वात् एकाभि-
धानरूपया श्रुत्येत्यर्थः । कारकाङ्गत्वं करणत्वसम्बन्धः । यद्यपि लिङ्गसंख्ययोः प्राति-
पदिकार्थनिष्ठत्वेन तदङ्गत्वमेव वक्तुं युक्तम्, तथापि करणत्वस्य एकप्रत्ययगम्यत्वेन
शीघ्रमुपस्थितत्वात् प्रत्ययार्थत्वेन प्राधान्याच्च पूर्वं तत्रैवाऽन्वयः । तत्रैव चान्वितेन
प्रातिपदिकार्थेन पाष्र्ष्टिकसम्बन्ध इति भावः । एवं च पुमानेक एव पशुरालब्धव्य
इति सिद्धम् । तिङन्तस्थलमप्युदाहरति-यजेतेति । एकपदश्रुत्येति ।
पद' मिति व्याकरणस्मृत्यनुरोधेन तिङन्तस्यैव पदत्वाभ्युपगमात् तिङन्तस्यैव पद-
त्वादिति भावः। आाख्याताभिहितसंख्याया इत्यनुषज्यते । ननु मूर्त्तस्यैव द्रव्यस्य
क्रियासाघनत्वं सम्भवति, न स्वमूर्त्तस्य गुणसंख्यादेः, अतः कथमस्य यागाङ्गत्वमिति
शङ्कते-
-न चेति । कत्रिति । सत्यं अमूर्त्ताया न साक्षात् क्रियाजनकत्वं, तथापि
प्रथमतो भावनान्वये पश्चाद्योग्यताजिज्ञासायां प्रख्यातोपात्तकर्तृरूपद्रव्यसम्बन्धद्वारा
 
'सुप्तिङन्तं
 
आरुण्यवत् तदध्यवसीयत इति भावः । नात्र कर्त्तोपलभ्यते, यद्वारा संख्यान्वयः
स्यात् । ग्राह- कर्त्ता चेति । आक्षेपलभ्य इति । अन्यथानुपपत्तिप्रमाणगम्य-