This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ श्रुति-

 
नाऽनुपपत्त्यभावात् किं त्वपूर्वसाधनत्वप्रयुक्तम् । यदि वीहिषु प्रोक्षणं क्रियते
तदा तैर्यागेऽनुष्ठितेऽपूर्व भवति नान्यथेति । अतः
याश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं
इति । एवं सर्वेष्वव्यङ्गेषु अपूर्वप्रयुक्तत्वं वेदितव्यम् ।
 
प्रकरणसहकृतया द्विती-
तदङ्गत्वं प्रोक्षणस्योच्यत
 
एवं 'इमामगृभ्णन् रशनामृतस्येत्यश्चाभिधानीमादत्त' इत्यत्रापि द्विती
याश्रुत्या मन्त्रस्याश्वाभिधान्य
न्यङ्गत्वम् । यत्तु वाक्योयीऽयं विनियोग इति,
तन्न, तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभिधान्यङ्गं (१)
भवति तावल्लिङ्गादशनामात्राङ्गत्वमेव स्यात्, 'स्योनं ते सदनं कृणोमो'
त्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपक्षे तु यावल्लिङ्गादशनामात्राङ्गत्वं
(२) सम्भवति तावत् श्रुत्या 'ऐन्या गार्हपत्यमुपतिष्ठते' इत्यत्र तृतीयाश्रुत्या
ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववदश्वामिधान्यां विनियोगः क्रियते इति
युक्तं मन्त्रस्याश्वाभिधान्यङ्गत्वम् । तस्माच्छ्रोत एवायं विनियोगः ।
 
३०
 
णाभावादित्याशयः । अपूर्वसाधनत्वप्रयुक्तमिति । ब्रीहिनिष्ठं यत्प्रकृतापूर्वसाधनत्वं
तन्निष्ठप्रयोजकतानिरूपितप्रयोज्यताशालीत्यर्थः । अत्र प्रयोज्यत्वं न परम्पराजन्यत्वरू-
पम् । प्रोक्षणादेरपूर्वजन्यत्वाभावात्, किन्तु अनुष्ठाप्यरूपम्पूर्व हि स्वसिद्धयर्थं
व्रीहिषु प्रोक्षण मनुष्ठापयतीत्याशयेनाह - यदीति । प्रकरणसहकृतयेति । अपूर्वस-
म्बन्धित्वबोधकप्रकरणमन्तरां श्रुत्यादेः स्वतो विनियोजकत्वासम्भवादिदमुक्तम् । तराडु-
लनिर्वृत्तिप्रणाडयेति । श्राज्यादेरप्यपूर्वसाधनत्वाविशेषात् तत्र प्रोक्षण प्राप्तौ तद्व्या.
वृत्त्यर्थमिदं विशेषणम् । यदपूर्वसाधनमिति । एवं च अपूर्वसाधनत्वस्यैवोद्देश्यता-
वच्छेदकत्वात् वीहित्वादेरुद्देश्यतावच्छेदककोटावप्रवेशात् सिद्धयति यवेष्वपि प्रोक्षणम् ।
तण्डुलनिष्पत्तिप्रणाड्येतिविशेषणाच्च नाज्यादिषु प्रोक्षणप्रसक्तिरित्याशयः । सर्वेष्व.
पोति । यत्र दृष्टार्थता न सम्भवति, तादृशाङ्गेषु केवलापूर्वप्रयुक्तत्वम्, यत्र तु दृष्टार्थता,
तत्र नियमापूर्वप्रयुक्तत्वमित्यर्थः ।
 
द्वितीया श्रुतेरुदाहरणान्तरमाह-एवमिति । इमामगृभ्णन्निति । अस्ति महानिचय-
कप्रकरणे उख्याग्निर्मुञ्जमये शिक्येऽवधाय संवत्सरं यावत् यजमानेन भरणीयः । तादृशा-
ग्न्याधारपात्रमुखा। सा च मृदा निर्मातव्या तत्र मृदाहरणार्थ मरण्यं गच्छन्नध्वर्युरश्वमेकं
गर्दंभमेकं च नयेत् । क्रमादिना मृत्संस्कारार्थ: । गभस्तु मृदाहरणार्थः ।
तत्राश्वगले वा रज्जुरश्वाभिधानी तद्ग्रहणे मन्त्रोऽयं विनियुज्यते । श्रश्चा-
भिधानीं अश्वरशनाम् । अनेन मन्त्रेणाश्वरशनां गृह्णीयादित वाक्यार्थः । द्वितीया-
श्रुत्येति मध्यमपदलोपिसमासः । अत्र मन्त्रस्य इतिकरण विनियुक्तत्वेन वाक्यादेवा-
श्वाभिधान्यङ्गत्वं इति वदतां पार्थसारथिमिश्राणां मतमनूद्य दूषयति -- यश्चिति ।
• बलीयस्त्वेनेति । एतचोपरिष्टान्निरूपयिष्यते। रशनामात्रेति । रशनाद्वयेत्यर्थः ।
 

 
स्योनं त इति । एतद परिष्टान्निरूपयिष्यते । यावल्लिङ्गादिति । लिङ्गस्य स्वतो
विनियोजकत्वाभावेन श्रुतिं कल्पयित्वैव विनियोजकत्वं वाच्यम् । अतश्च यदा लिङ्गेन
 
१. ङ्गत्वं सम्भ. २. भवति