This page has not been fully proofread.

२६
 
निरूपणम् ]
 
सारविवेचिनो
व्याख्या संवलितः
 
डाशादिः, "मध्यात्पूर्वार्धाश्चावती"ति वाक्यात् । हृदयादीनि चावदीयमा-
नानि, न पशुः, 'हृदयस्याग्रेऽवद्यतीति वाक्यात् । अतो हृदयादीन्येव हवषि,
पशुस्तु प्रकृतिद्रव्यम् ।
 
पात्नीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जोवत एव 'पर्यग्निकृतं
पात्नीवतमुत्सृजति" इत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृति-
द्रव्यमित्येव सिद्धम् । एवं ब्रोहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतीयाश्रुत्येति ।
आरुण्यस्यापि क्रयाङ्गत्वं तृतीयाश्रुत्या । न चामूर्तस्य तस्य कथं क्रयाङ्ग-
त्वमिति वाच्यम् । एकहायनीरूपद्रव्यपरिच्छेदद्वारा तदुपपत्तेः ॥
 
'त्रीहीन प्रोक्षतो'त्यत्र प्रोक्षणस्य वोह्यङ्गत्वं द्वितीया श्रुत्या तच्च प्रोक्ष-
णं न व्रीहिस्वरूपार्थम्, स्वरूपे आनर्थक्यात्, ब्रोहिस्वरूपस्य प्रोक्षणं वि-
विषोऽवद्यती"ति हविष एवावदानश्रवणादिति भावः । मध्यादिति । मध्यात्प्रथममव-
द्यति, पूर्वार्धाद्वितीयमवद्यतीत्यर्थः । यद्यपीदं श्रवदानप्रदेशमात्रविधायकं नावदानवि-
धायकं, तथापि हविस्सम्बन्धिमध्यादिदेशविधायकत्वेनास्यापि हविस्सम्बन्धोऽस्तीत्या-
शयेनो॒ददा॑हृतम् । हृदयस्याग्रेऽवद्यतीति वाक्यादिति । अनेन न प्राकृतमवदान-
मतिदेशतस्तथैव प्राप्नोति हृदयादिषु । किन्तु अनेनैव वाक्येन प्राकृतमेवावदानं अव-
दानान्तरं वा प्राकृतकार्यापन्नं हृदयादिसंस्कारत्वेन विधीयत इति सूचितम् । हृदया-
दीनामेव हविष्ठमिति सिद्धे सिद्धं प्रकृतिद्रव्यत्वं पशोरित्याशयेनाह- पशुस्त्विति ।
एवञ्च यत्र विशसनाद्याम्नातं तत्रैव पशोः प्रकृतिद्रव्यत्वं, यत्र तु तन्नास्ति तत्र सा-
क्षादेवानतेत्याह- पात्नीचतेति 'खाष्ट्र पानोवतमालभेते' त्यनेन विहित इत्यर्थः ।
साक्षादेवेत्यन्वयः । उत्सर्गविधानादिति । पर्यग्निकृतमिति वाक्येन क्लृप्तोपकारप्रा-
कृतपर्यग्निकरणान्ताङ्गरीतिविधानेन भावनाया नैराकाङ्क्षयात् उत्तराङ्गानामर्थादेव नि
वृत्तत्वेन जीवत एव पशोः देवतोद्देशेन (यागस्यावश्यम्भावादिति भावः ॥
 
एवं द्रव्यस्य श्रुत्याङ्गत्वमुपपाद्य गुणस्येदानीं तया तदुपपादयति- आरुण्यस्येति ।
'या पिङ्गायैक हायन्या सोमं क्रोणाति' इति वाक्यविहितक्रयाङ्गत्वमित्वर्थः ।
द्रव्यपरिच्छेद इति । प्राथमिकबोधे क्रयभावनायां साक्षात्करणत्वेन आरुण्यस्या-
न्वयेऽपि अनन्तरं योग्यतागवेषणादशायां स्ववाक्योपात्तद्रव्यद्वारकं तदित्यध्यवसी-
यत इति भावः ।
 
द्वितीया श्रुतेरुदाहरणमाह-व्रीहीन् प्रोक्षतीति । अत्र द्वितीया ब्रीहीणामुद्देश्यत्वं
बोधयन्ती प्रोक्षणादेरङ्गत्वे हेतुरिति ध्येयम् । ननु प्रोक्षणस्य व्रीह्यङ्गत्वे आरुण्येन
क्रथ इव प्रोक्षणेनापि व्रीयो जननीयाः । तच्च न सम्भवति । प्रोक्षणात् पूर्वमेव व्रीहि-
स्वरूपस्य सिद्धत्वात् । अतः कथं प्रोक्षणस्य व्रीह्यङ्गत्वमित्यत आह - तच्चेति ।
ननु प्रधानस्याहवनीयादिस्वरूपार्थत्वेऽपि यथा नानर्थक्यं तद्वदत्राप्यस्तु, अत
आह — व्रोहिस्वरूपस्येति - ग्राहवनीयादेरपूर्वरूपत्वेन तत्स्वरूपस्यान्यथोपपत्तौ प्रमा•