This page has been fully proofread once and needs a second look.

२८
 
मोमांसान्यायप्रकाशः
 
[ श्रुति-
योक्त्री चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्रो ब्री व्रीह्यादिश्रुतिः ।

यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोकीक्त्री । सा च

त्रिधा--विभक्तिरूपा, समानाभिधानरूपा, एकपद्रूपा चेति । तत्र विभक्ति-

श्रुत्याङ्गत्वं यथा- -'व्रीहिभिर्यजेते'ति तृतीयाश्रुत्या वोहव्रीहीणां यागाङ्गत्वम् ।
 

 
न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं ब्रोव्रीहीणामङ्गत्वमिति वाच्यम् ।

पुरोडाशप्रकृतितयोपपत्तेः, पशोरि हृदयादिरूपहविष्प्रकृतितया यागाङ्ग-

त्वम् । न च साक्षात्पशोरेवाङ्गत्वं किं न स्यादिति वाच्यम्, तस्य विशस-

नात् अवदीयमानत्वाच्च हृदयादीनाम् । श्रवदीयमानं हि हविः, यथा पुरो-
?
 

 
[commentary]
 
त्रिधा भिन्ना तुल्य शब्दादिभेदतः ॥ इति । तत्र श्रुतित्रयमध्ये । लिङाद्यात्मि-

केति । यः प्रत्ययो विधायको लिालिङादिः स एव विधात्री श्रुतिरित्यभिधीयते इत्यर्थः ।

श्रवणादेवेति । शब्दान्तरापेक्षां विनैवेत्यर्थः । सा विनियोक्त्री । एवं श्रुतिं विभज्य

विधात्र्याः अभिधात्र्याश्च साक्षाद्विनियोजकत्वस्याभावेन ते उपेक्ष्य विनियोक्त्र्याः विनि-

योजकत्वमुपपादयति--तत्रेति । विनियोक्त्रीत्रयमध्य इत्यर्थः ।
 

 

 
ननु - --'यदाग्नेयोऽष्टाकपालीलोऽमावास्यायां च पौर्णमास्याञ्चाच्युतो भवति,

ताभ्यामेतमझोग्नीषोमीय मेकादशकपालं पूर्णमासे प्रायच्छत्' इत्यादिभिः द्रव्यविशि-

ष्टस्यैव यागस्य विधानादुत्पत्तिशिष्टद्रव्यावरोधे वाजिनन्यायेन द्रव्यान्तरनिवेशस्यासम्भवात्

कथं ब्व्रीहीणां यागाङ्गत्वेन विधानं इति शङ्कते - --न चेति । पुरोडाशप्रकृतितयेति ।

पुरोडाशस्य पिष्टपिण्डरूपत्वेन पिष्टानां प्रकृतिद्रव्यापेक्षायां तत्वेन व्रीहीणां विधानमित्यर्थः ।

दृष्टान्तमाह - --पशोरिवेति । '"अग्नोषोमोयं पशुमालभेत" इत्यनेन वाक्ये
न यथा
हृदयादिहविःप्रकृतित्वेनैव पशोविंर्विधानं तद्वदत्रापीत्यर्थ: । ननु उत्पत्तिवाक्ये पुरोडा-

शस्य साक्षाद्देवतासम्बन्धबोनेन यागसानत्वावगमात् न तेन विकल्पः समुच्चयो वा

सम्भवतीति युक्तं तत्प्रकृतित्वेन व्रीहीणां विधानं, पशोस्तु साक्षादेवोत्पत्तिवाक्ये देवता-

सम्बन्धोऽवगम्यत इति साक्षादेव यागसाधनत्वमस्तु, किमर्थं हविःप्रकृतित्वेन विधानम-

ङ्गीकियत इति शङ्कते - --न चेति । विशसनादिति । 'पशुं विशास्ति' इत्यनेन

विशसनस्य विहितत्वात् साक्षादेवाज्ञङ्गत्वे तथैव त्यागस्यापि कर्तव्यतया तदाम्नानं व्यर्थं

स्यादिति भावः । विशसनं छेदनम् । ननु न केवलं विशसनाम्नानमात्रेण प्रकृतित्वं

वक्तुं शक्यते, विशस्थायावदायापि पुरोडाशवत् त्यागहोमयोः कर्तुं शक्यत्वादित्यत

आह - --अवदीयमानत्वाच्च हृदयादीनामिति । एकादशानामिति शेषः । एवञ्च

पशोः यागसाधनत्वान्यथानुपपत्या यद्यपि प्रत्येकं द्व्यवदानं प्राकृतं निखिलाङ्गेषु प्रा
-
प्नोति, तथापि तस्यैवातिदेशेनोपस्थापितस्यावदानान्तरस्य वा तत्स्थानापन्नस्य हृदया-

दिवाक्यैः हृदयादिसंस्कारकत्वेन विधानात् तेन च हृदयादीनां एकादशानामेवामाङ्गानां

हविष्ट्वसिद्धेः इतरेषां हविष्ट्वपरिसंख्यानाच्च सिद्धं पशोः प्रकृतिद्रव्यत्वमिति भावः ।

हृदयादोदीनामित्यादिपदेन जिह्वा, वक्षः, यकृत्, वृक्यौ, सव्यं दोः, उभे पावें,
र्श्वे,
दक्षिणा श्रोणिः, गुदतृतीयं, इत्येतानि गृह्यन्ते । अवदीयमानं हि हविरिति । द्वि-
र्ह-