This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचनो व्याख्या संवलितः
 
तिति । स हि तृतीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते--घ्ध्ना

होमं भावयेदिति ।
 

 
तस्य च विधेः सहकारिभूतानि षट् प्रमाणानि--श्रुतिलिङ्गवाक्यप्रकर-

णस्थानसमाख्यारूपाणि । एतत्सहकृतेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृति-

व्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते ।
 
२७
 

 
(श्रुतिनिरूपणम् )
 

 
तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा--विधात्रो, अभिधात्री, विनि-

 
[commentary]
 
यः सम्बन्धः साध्यसाधनभावः तद्बोधक इत्यर्थः । तृतीयाप्रतिपन्नेति । तृतीयया

ज्ञातेत्यर्थः । एवञ्च दध्नेति तृतीया करणत्वापरपर्यायं साधनत्वं बोधयति, तच्च जुहो-

तीति विधिप्रत्ययो विदधातीत्यर्थः । तत्र च भावनायां होमस्य भाव्यत्वेनान्वयः, तदे-

वाभिलपति--दध्ना होममिति । एवं विनियोगविधिस्स्व<error>स्स्व</error><fix>स्व</fix>रूपं निरूप्य तदुपकारकारिण
णि
श्रुत्यादीनि षट् प्रमाणानि निरूपयितुमुपक्रमते- -एतस्येति । षडित्यधिकसंख्याव्यव-

च्छेदार्थम् । एतेन उपादानाख्यं सप्तमं प्रमाणं विनियोग कारणमभ्युपगम्य तेन प्रोक्ष-

णादेः क्रत्वर्थत्वं बोध्यते । अत एव तस्य चतुर्थाध्यायनिरूपणीयत्वमिति चतुर्थाध्याये

उपादानाख्यं प्रमाणमेव निरूप्यते इति वदन्तः प्राभाकरा निरस्ताः । नह्युपादानाख्य-

प्रमाणाभ्युपगमे प्रमाणमस्ति । प्रोक्षणादीनां क्रत्वर्थत्वस्या पूर्वार्थत्वस्य वा श्रुत्यैवावग-

मात् । प्रोक्षणादीनां श्रुत्या बोधितमङ्गत्वं बीव्रीह्यादिस्वरूपे अनर्थकं सत् पूर्वसाध
-
नत्व एव पर्यवस्तीति तावत्पर्यन्तं श्रुतिव्यापाराभ्युपगमावश्यंभावात् । विस्तरेणायमर्थो

न्यायरत्नमालायामङ्गनिर्णये निरूपित इति तत एवावगन्तव्यम् इत्यभिसन्धिमान्

प्रमाणानि परिगणयति--श्रुतीति । एतत्सहकृतेन प्रमाणषट्कसहकृतेन । ननु किं

नामाङ्गत्वम्, नोपकारकत्वमङ्गत्वम् गोदोहनादेरपि प्रणयनाद्युपकारकत्वेन तदङ्गता-

पत्तेः; जामात्रर्थेथं कृतस्य दीपस्य शिष्योपकारकत्वेऽपि तदनङ्गत्वाच्च; नाप्यविनाभावः,

आग्नेयादीनां परस्पराङ्गत्वापत्तेः; नापि प्रयोज्यत्वं तत्, 'पुरोडाशकपालेन तुषानु-

पवपती' त्यत्र पुरोडाशकपालस्य तुषोपवापप्रयोज्यत्वाभावेऽपि अङ्गत्वसत्वात्, अत

--परोद्देशेति । अन्योद्देशेन प्रवृत्तस्य पुरुषस्य या कृतिः तद्व्याप्यत्वं कारक-

त्वेन तत्सम्बन्धित्वमित्यर्थः । अतः कालादेः कृतिसाध्यत्वाभावेऽपि नाङ्गत्वव्याघातः,

फलस्यापि कारकत्वेन तत्सम्बन्धित्वात् स्वस्यैव स्वाङ्गत्ववारणाय--परेति । किमिदं

जैमिनीयात् पारार्थ्यरूपादङ्गत्वात् भिन्नम् ? नेत्याह- -पारार्थ्येति । पारार्थ्यमित्यपरः

पर्यायो वाचकशब्दो यस्य तदित्यर्थः । एवंच विधिरेवाङ्गत्वं विदधाति । विधेयसमर्पकं

श्रुत्यादिकं तत्सहकारि भवतीति भावः ।
 

 
तत्र प्रमाणषट्कमध्ये । निरपेक्ष इति । अङ्गत्वबोधने लिङ्गादिवत् प्रमाणान्त-

रमनपेक्षमाण इत्यर्थः । श्रुतिं विभजते - --सा चेति । यद्यप्यत्र विनियोगप्रस्तावे विधा-

त्र्यभिधात्र्योः निरूपणं नातीव सङ्गतम्, तथापि श्रुतिप्रसङ्गात् तयोः विधिसहकारित्वात्

ग्रन्थकर्तृभिरुक्त्वाच्च तन्निरूपणमिति बोध्यम् । उक्तं हि न्यायरत्नमालायां पार्थ-

सारथिमिश्रः-
रैः--तत्र श्रुतिस्त्रिधा भिन्ना विध्युक्तिविनियोगकृत् । विनियोक्त्रो-
,
 
री-