This page has been fully proofread once and needs a second look.

२६
 
मीमांसान्यायप्रकाशः
 
[ विनियोगविधि-
यागेन इष्टं भावयेत् इत्यन्वयोपपत्तेः । येषामपोपीष्टसाधनत्वं लिङर्थः, तेषामपि

तृतीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्न एव । न हि संभवति याग इष्ट-

साधनमुद्भिदेति, तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिय
-
यैवान्वयात् ।
 
ननु -

 
ननु--
तवाप्य'ग्निहोत्रं जुहोती' त्यादिषु कर्मोत्पत्तिविधिषु द्वितोयान्तानां

कर्मनामधेयानामन्वयोऽनुपपन्नः, न हि संभवति होमेन भावयेदग्निहोत्र-

मिति । सत्यम्; श्रयमाणा ताव<error>द्वि</error><fix>द्द्वि</fix>तीयाऽर्थाक्षिप्त साध्यत्वानुवादः, होमस्य हि

करणत्वेनान्वयात् साधितस्य च करणत्वानुपपत्तेः तस्याश्चानन्वयोपस्थितो
तौ
सा 'सक्तून् जुहोती' तिवत् तृतीयार्थं लक्षयति- -अग्निहोत्रेण होमेनेष्टं भावये-

दितीत्युक्तं पार्थसारथिमिश्रैः । अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो

नानुपपन्नः । तत्सिद्धमुत्पत्तिविधौ कर्म करणत्वेनान्वेतोति ।
 

 
( विनियोग विधिनिरूपणम् )
 

 
अङ्गप्रधान सम्बन्धबोधको विधिर्विनियोगविधिः । यथा- -दध्ना जुहोतो.
 
ती-
 
[commentary]
 
तेषां मते तृतीयान्तानामन्वयानुपपत्तितिं दर्शयति-- येषामिति । इष्टसाधनत्वस्य लिङ-

र्थत्वे यजेतेत्यस्य याग इष्टसाधनमित्यर्थः पर्यवसितः, तेन सह तृतीयान्तस्यान्वयो न

सम्भवतीत्यर्थः । तत्र हेतुमाह - --तृतीयेति । क्रिययैवान्यादिति । संख्यानन्वयिप-

दोपस्थाप्यार्थप्रकारकशाब्दबोधं प्रति आख्यातपदजन्योपस्थितेः

कारणत्वात् क्रियान्व-

याभावे क्रियान्वयित्वरूपकारकत्वभङ्गापत्तेरिति भावः ।
 
-
 
ननु –

 
ननु--
भवन्मतेऽपि केषाञ्चित् द्वितीयान्तानां नामधेयानामन्वयो ऽनुपपन्न एव ।

सत्येवमुभयोर्दोषसाम्ये कथमहमेव पर्यनुयोगाईःर्हः, "यश्चोभयोस्समो दोषः परिहारो-

ऽपि वा समः । नैकः पर्यनुयोक्तव्यः तादृगर्थविचारणे" इति ह्यभियुक्ताः कथ-

यन्ति इत्याशयेन शङ्कते--नन्विति । इत्यादिष्वित्यादिप देन 'आधारमाघारयति
'
'समिधो यजति' 'श्राज्यभागौ यजती' त्यादिपरिग्रहः । सत्यमन्वयानुपपत्तिरूपो

दोष उभयोरपि समानः, तदर्थं च लक्षणायामाश्रीयमाणायां यथा द्वितीयान्ते तथैव

तृतीयान्त इत्येतदपि तुल्यमेव; तथापि मन्मते द्वितीयया करणत्वे लक्षणीये असाधि-

तस्य धात्वर्थस्य करणत्वानुपपत्या अर्थाक्षिप्तस्य स्वशक्यार्थस्य साध्यत्वस्य "सौर्यं

चरुं निर्वपेदि" त्यादौ निर्वापादिवत् यथानुवादः, नैवं सम्भवति भवत्पक्षे तृतीयया

साध्यत्वलक्षणायामित्यस्मन्मत एव लाघवमित्याशयवान् परिहरति - --सत्यमिति ।

असाधितस्येति । नासाधितं करणमिति न्यायादिति भावः । तस्याः द्वितीयायाः ।

अनन्वयोपस्थितौ अन्वयानुपस्थितौ अन्वयानुपपत्त्येति यावत् । सक्तून् जुहो-.

तीतिवदिति । यथा 'सक्तून् जुहोतो'त्यत्र सक्तूनां भूतभाव्युपयोगाभावेन संस्का-

र्यत्वानुपपत्तेः श्रूयमाणापि द्वितीया करणत्वलक्षिकेत्युक्तं तद्वदित्यर्थः । उक्तमिति ।

तत्प्रख्याधिकरण इति शेषः । उत्पत्तिविधिनिरूपणमुपसंहरति - --तत्सिद्धमिति ।

क्रमप्राप्तं विनियोगविधिं निरूपयति – श्र--अङ्ग प्रधानेति ।
 
-
 
-
 
अङ्गस्य प्रधानस्य च
 
s