2023-02-20 11:46:20 by ambuda-bot
This page has not been fully proofread.
२६
मीमांसान्यायप्रकाशः
[ विनियोगविधि-
यागेन इष्टं भावयेत् इत्यन्वयोपपत्तेः । येषामपोष्टसाधनत्वं लिङर्थः, तेषामपि
तृतीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्न एव । न हि संभवति याग इष्ट-
साधनमुद्भिदेति, तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिय
यैवान्वयात् ।
ननु - तवाप्य'ग्निहोत्रं जुहोती' त्यादिषु कर्मोत्पत्तिविधिषु द्वितोयान्तानां
कर्मनामधेयानामन्वयोऽनुपपन्नः, न हि संभवति होमेन भावयेदग्निहोत्र-
मिति । सत्यम्; श्रयमाणा तावद्वितीयाऽर्थाक्षिप्त साध्यत्वानुवादः, होमस्य हि
करणत्वेनान्वयात् साधितस्य च करणत्वानुपपत्तेः तस्याश्चानन्वयोपस्थितो
सा 'सक्तून् जुहोती' तिवत् तृतीयार्थ लक्षयति- अग्निहोत्रेण होमेनेष्टं भावये-
दितीत्युक्तं पार्थसारथिमिश्रैः । अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो
नानुपपन्नः । तत्सिद्धमुत्पत्तिविधौ कर्म करणत्वेनान्वेतोति ।
( विनियोग विधिनिरूपणम् )
अङ्गप्रधान सम्बन्धबोधको विधिर्विनियोगविधिः । यथा- दध्ना जुहोतो.
तेषां मते तृतीयान्तानामन्वयानुपपत्ति दर्शयति- येषामिति । इष्टसाधनत्वस्य लिङ-
र्थत्वे यजेतेत्यस्य याग इष्टसाधनमित्यर्थः पर्यवसितः, तेन सह तृतीयान्तस्यान्वयो न
सम्भवतीत्यर्थः । तत्र हेतुमाह - तृतीयेति । क्रिययैवान्चयादिति । संख्यानन्वयिप-
दोपस्थाप्यार्थप्रकारकशाब्दबोधं प्रति आख्यातपदजन्योपस्थितेः
कारणत्वात् क्रियान्व-
याभावे क्रियान्वयित्वरूपकारकत्वभङ्गापत्तेरिति भावः ।
-
ननु – भवन्मतेऽपि केषाञ्चित् द्वितीयान्तानां नामधेयानामन्वयो ऽनुपपन्न एव ।
सत्येवमुभयोर्दोषसाम्ये कथमहमेव पर्यनुयोगाईः, "यश्चोभयोस्समो दोषः परिहारो-
ऽपि वा समः । नैकः पर्यनुयोक्तव्यः तादृगर्थविचारणे" इति ह्यभियुक्ताः कथ-
यन्ति इत्याशयेन शङ्कते — नन्विति । इत्यादिष्वित्यादिप देन 'आधारमाघारयति
'समिधो यजति' 'श्राज्यभागौ यजती' त्यादिपरिग्रहः । सत्यमन्वयानुपपत्तिरूपो
दोष उभयोरपि समानः, तदर्थं च लक्षणायामाश्रीयमाणायां यथा द्वितीयान्ते तथैव
तृतीयान्त इत्येतदपि तुल्यमेव; तथापि मन्मते द्वितीयया करणत्वे लक्षणीये असाधि-
तस्य धात्वर्थस्य करणत्वानुपपत्या अर्थाक्षिप्तस्य स्वशक्यार्थस्य साध्यत्वस्य "सौयं
चरुं निर्वपेदि" त्यादौ निर्वापादिवत् यथानुवादः, नैवं सम्भवति भवत्पक्षे तृतीयया
साध्यत्वलक्षणायामित्यस्मन्मत एव लाघवमित्याशयवान् परिहरति - सत्यमिति ।
असाधितस्येति । नासाधितं करणमिति न्यायादिति भावः । तस्याः द्वितीयायाः ।
अनन्वयोपस्थितौ अन्वयनुपस्थितौ अन्वयानुपपत्त्येति यावत् । सक्तून् जुहो.
तीतिवदिति । यथा 'सक्तून् जुहोतो'त्यत्र सक्तूनां भूतभाव्युपयोगाभावेन संस्का-
र्यत्वानुपपत्तेः श्रूयमाणापि द्वितीया करणत्वलक्षिकेत्युक्तं तद्वदित्यर्थः । उक्तमिति ।
तत्प्रख्याधिकरण इति शेषः । उत्पत्तिविधिनिरूपणमुपसंहरति - तत्सिद्धमिति ।
क्रमप्राप्तं विनियोगविधिं निरूपयति – श्रङ्ग प्रधानेति ।
-
-
प्रधानस्य च
s