This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
स च विधिश्चतुर्विधः - --उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः,

अधिकार विधिश्चेति ।
 
२५
 

 
(उत्पत्ति विधिनिरूपणम् )
 
तत्र कर्म

 
तत्र कर्म
स्वरूपमात्रबोधको विधिरुत्पत्तिविधिः, यथा--अग्निहोत्रं जुहो.
तो
-
ती
ति । उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः- -होमेनेष्टं भावयेदिति । न

तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगे-

नाधिकारवाक्यावगत फलसंबन्धो न स्यात् । करणत्वेन त्वन्वये होमेनेष्टं भाव-

येत्' किं तदिष्टमित्याकांक्षायां फलविशेषसंन्धो घटते ।
 

 
न च उत्पत्तिविधाविष्टवाचकपदाभावेन कर्मणा इष्टं भावयेदिति क
थं
वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टवोधकत्वात् । सा हि ([^)] पुरुषार्थे पु-

रुषं प्रवर्तयन्ती कर्मणः फलसंबन्धमात्रं बोधयति । तस्माद्युक्तमुत्पत्तिविधौ

कर्म करणत्वेनान्वेतीति ।
 

 
अत एवो'द्भिदा यजेते 'त्यादौ तृतीयान्त उद्भिचन्च्छब्द उपपद्यते - --उद्भिदा
 

 
[commentary]
 
एवं विधेः प्रयोजनवत्वं निरूप्य इदानीं तं चतुर्धा विभजते - --स चेति । प्रथमं

कर्मस्वरूपज्ञानमन्तरा तदनुष्ठानासंभवात् गुणादिविधेरसंभवाच्च सर्वोपजीव्यत्वेन प्रथममुत्प-

त्तिविधिः, अनन्तरमुत्पन्नस्य प्रयोजनाकांक्षायां विनियोगविधिः, विनियुक्तस्य चानुष्ठाना-

पेक्षायां अनुष्ठान विशेषबोधकः प्रयोगविधिः, एतावत्यनुष्ठेयपदार्थकलापे कोऽधिकरोती-

त्यधिकारिविशेषापेक्षायां 'भारो यो येन वोद्रव्यः स प्रागातोलितो यदि । तदा

कस्तस्य वोढेति युक्तं कर्तृनिरूपणम्"' इति न्यायेनाधिकारप्रतिपादकोऽधिकारवि
-
धिश्च निरूपणीयः । अत एव सूत्रकारेणापि प्रथमद्वितीययोरध्याययोः प्रमाणभेदनिरू-

पणद्वारा उत्पत्तिविधिनिरूपणं, तृतीये ऽङ्गत्वनिरूपणद्वारा विनियोगविधिनिरूपणं, चतु-

र्थपञ्चमयोः प्रयोगविधिनिरूपणं, षष्ठेऽधिकारविधिनिरूपणञ्च कृतं इत्यभिसन्धाय तेनैव

क्रमेण विधिं विभजते--उत्पत्तोतीति । तत्र विधिचतुष्टयमध्ये । कर्मस्वरूपमात्रेति ।

मात्रपदेन गुणफलादयो व्यावर्त्यन्ते । एवं च यत्रोत्पत्तिवाक्य एव गुणफलादयः श्रूयन्ते

तत्रैकस्यैव वाक्यस्य कर्मस्वरूपांशमादायोत्पत्तिविधित्वं गुणाद्यंशमादाय विनियोगवि
-
धित्वं, अधिकारविधित्वमित्यादि बोध्यम् । कर्मणः धात्वर्थस्य । करणत्वेनेति । भाव-

नायामिति शेषः । भावनायां धात्वर्थस्य साध्यत्वेनान्वयवादिनो बादरेस्तदनुयायिनां च

मतं खण्डयति--न त्विति । तथान्वये दोषमाह - --तथा सतीति । इष्टं भावयेदित्य-

नन्तरं इति बोधे जाते इति पूरणीयम् ।
 

 

 
विधिश्रुतेरिति । एतच्च पूर्वमेवास्माभिरुपपादितम् । अत एव कर्मणः करणत्वे-

नान्वयाभ्युपगमादेव । उपपद्यत इति । धात्वर्थस्य भावनायां करणत्वेनान्वयाभ्युपग-

मादेवोद्भिदादिपदानां तन्नामत्वस्य वक्ष्यमाणत्वेन तत्सामानाधिकरण्यात् तन्निष्ठ-

करणत्वानुवादकस्सन् उपपद्यत इत्यर्थः । तदेवाभिलपति - --उद्भिदा यागेनेति । केचित्तु

मण्डनमिश्रप्रभृतयो मीमांसका वैयाकरणाश्च इष्टसाधनत्वमेव लिर्थमभ्युपगच्छन्ति ।
 

 
[^
] पुरुषार्थं प्रति

<flag>
४ मी० न्या०
 
. न्या.</flag>