This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
स च विधिश्चतुर्विधः - उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः,
अधिकार विधिश्चेति ।
 
२५
 
(उत्पत्ति विधिनिरूपणम् )
 
तत्र कर्म स्वरूपमात्रबोधको विधिरुत्पत्तिविधिः, यथा – अग्निहोत्रं जुहो.
तोति । उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः- होमेनेष्टं भावयेदिति । न
तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगे-
नाधिकारवाक्यावगत फलसंबन्धो न स्यात् । करणत्वेन त्वन्वये होमेनेष्टं भाव-
येत्' किं तदिष्टमित्याकांक्षायां फलविशेषसंवन्धो घटते ।
 
न च उत्पत्तिविधाविष्टवाचकपदाभावेन कर्मणा इष्टं भावयेदिति कथ
वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टवोधकत्वात् । सा हि (१) पुरुषार्थे पु-
रुषं प्रवर्तयन्ती कर्मणः फलसंबन्धमात्रं बोधयति । तस्मादयुक्तमुत्पत्तिविधौ
कर्म करणत्वेनान्वेतीति ।
 
अत एवोद्भिदा यजेते त्यादौ तृतीयान्त उद्भिचन्द उपपद्यते - उद्भिदा
 
एवं विधेः प्रयोजनववं निरूप्य इदानीं तं चतुर्धा विभजते - स चेति । प्रथमं
कर्मस्वरूपज्ञानमन्तरा तदनुष्ठानासंभवात् गुणादिविधेरसंभवाच्च सर्वोपजीव्यत्वेन प्रथममुत्प-
त्तिविधिः, अनन्तरमुत्पन्नस्य प्रयोजनाकांक्षायां विनियोगविधिः, विनियुक्तस्य चानुष्ठाना-
पेक्षायां अनुष्ठान विशेषबोधकः प्रयोगविधिः, एतावत्यनुष्ठेयपदार्थकलापे कोऽधिकरोती-
त्यधिकारिविशेषापेक्षायां 'भारो यो येन वोद्रव्यः स प्रागातोलितो यदि । तदा
कस्तस्य वोढेति युक्तं कर्तृनिरूपणम्" इति न्यायेनाधिकारप्रतिपादकोऽधिकारवि
धिश्च निरूपणीयः । अत एव सूत्रकारेणापि प्रथमद्वितीययोरध्याययोः प्रमाणभेदनिरू-
पणद्वारा उत्पत्तिविधिनिरूपणं, तृतीये ऽङ्गत्वनिरूपणद्वारा विनियोगविधिनिरूपणं, चतु-
र्थपञ्चमयोः प्रयोगविधिनिरूपणं, षष्ठेऽधिकारविधिनिरूपणञ्च कृतं इत्यभिसन्धाय तेनैव
क्रमेण विधिं विभजते—उत्पत्तोति । तत्र विधिचतुष्टयमध्ये । कर्मस्वरूपमात्रेति ।
मात्रपदेन गुणफलादयो व्यावर्त्यन्ते । एवं च यत्रोत्पत्तिवाक्य एव गुणफलादयः श्रूयन्ते
तत्रैकस्यैव वाक्यस्य कर्मस्वरूपांशमादायोलत्तिविधित्वं गुणाद्यंशमादाय विनियोगवि
धित्वं, अधिकारविधित्वमित्यादि बोध्यम् । कर्मणः धात्वर्थस्य । करणत्वेनेति । भाव-
नायामिति शेषः । भावनायां धात्वर्थस्य साध्यत्वेनान्वयवादिनो बादरेस्तदनुयायिनां च
मतं खण्डयति — न त्विति । तथान्वये दोषमाह - तथा सतीति । इष्टं भावयेदित्य-
नन्तरं इति बोधे जाते इति पूरणीयम् ।
 

 
विधिश्रुतेरिति । एतच पूर्वमेवास्माभिरुपपादितम् । अत एव कर्मणः करणत्वे-
नान्वयाभ्युपगमादेव । उपपद्यत इति । धात्वर्थस्य भावनायां करणत्वेनान्वयाभ्युपग-
मादेवोद्भिदादिपदानां तन्नामत्वस्य वक्ष्यमाणत्वेन तत्सामानाधिकरण्यात् तन्निष्ठ-
करणत्वानुवादकस्सन् उपपद्यत इत्यर्थः । तदेवाभिलपति - उद्भिदा यागेनेति । केचित्तु
मण्डनमिश्रप्रभृतयो मीमांसका वैयाकरणाश्च इष्टसाधनत्वमेव लिबर्थमभ्युपगच्छन्ति ।
 
१ पुरुषार्थं प्रति
४ मी० न्या०