This page has been fully proofread once and needs a second look.

૨૪
 
मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा-
तिष्टोमेने' त्यस्य च नाऽऽनर्थक्यम् । अधिकारविधित्वोपपत्तेः । अतः किमर्थं

संभवति रूपवति वाक्ये कर्मविधाने तद्हिते तत्स्वीकार्यम् ?
 

 
किं च 'दध्ना जुहोती'त्यस्य कर्मोत्पत्तिविधित्वे 'पयसा जुहोती'त्यनेनै-

तत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टद्ध्यवरोधात् । उत्प-

त्तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते, काङ्क्षाया उत्पत्तिशिष्टेनैव

निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधेयम् । तथाचानेकादृष्ट-

कल्पनागौरवम् । 'अग्निहोत्रं जुहोती त्यस्य तु उत्पत्ति विधित्वे एतद्वाक्य-

विहितस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खलेकपोतन्यायेन 'दध्ना जुहो-

ति', 'पयसा जुहोति' इत्यादिवाक्यैर्गुणा विधीयन्त इति नानेकाद्वदृष्टकल्पना-

गौरवम् । अतो'ऽग्निहोत्रं जुहोती 'त्ययमुत्पत्तिविधिः, 'पयसा जुहोती त्याद्-
'त्याद-
यस्तु गुणविधय इति युक्तम् ।
 

 
'सोमेन यजेते'त्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे

न किंचिद्दूषणं, पक्षद्वयेऽप्ये कस्यादृष्टस्य तुल्यत्वात् । तस्माद्युक्तं सोमेन

यजे तेत्ययमेवोत्पत्तिविधिरित्यलमनया विधिनिरूपणानुगतप्रसङ्गचिन्तया ।

प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्तमप्राप्तमर्थं विधत्त इति ॥

 
[commentary]
 
रिति भावः । रूपवति द्रव्यदेवताऽन्यतरबोधके वाक्ये कर्मविधाने
<error>सत</error><fix>सति</fix>-
रूपाभाववति ज्योतिष्टोमवाक्ये किमर्थं कर्मविधानं स्वीक्रियत इत्यर्थः ।
 
संभवति सत
 

 
एतत्कर्मानुवादेन । दधिवाक्यविहितहोममनूद्य । उत्पत्तिशिष्टेति । उत्पत्तिवा-

क्यविहितेत्यर्थः ।विध्यभावे हेतुमाह--आकांक्षाया इति । द्रव्याकांक्षाया इत्यर्थः । तेनापि

पयसा जुहोती 'त्यनेनापि । विशिष्टं पयोरूपगुणविशिष्टम् । अस्तु नाम तत्रापि विशिष्टकर्म-

विधानं, का हानिः ? अ - त आह--अनेकेति । फलोद्देशेन कर्मणो विधेयत्वेन तस्य च काला-

न्तरभाविनः अदृष्टमन्तरेणासंभवात् एकेकैकस्यापि कर्मण एकैकमदृष्टमिति [अनेकादृष्टकल्प-

नाप्रसङ्ग इत्यर्थः । पक्षान्तरे दोषाभावं दर्शयति- -अग्निहोत्रमिति । द्रव्याननुरक्तस्य

शुद्धस्यैव कर्मणोऽग्निहोत्रवाक्येन विहितत्वात् तस्य च द्रव्याकांक्षायां तत्सन्निहितैः दध्या-

दिवाक्यैस्सर्वैरपि विशेषाद्युगपदेव द्रव्ये समर्पिते 'एकार्थास्तु विकल्पेरन्' इति न्या-

येन कर्मणा द्रव्याणां विकल्पेन ग्रहणादेकदा एकस्यैव यागसाधनत्वा देकमेवादृष्टं कल्प-

नीयमिति नानेकादृष्टकल्पनाप्रयुक्तं गौरवम् । युगपदन्वयाच्च नोत्पत्ति शिष्टत्वादि-


कमपीति भावः । सर्वेषामुत्पन्नशिष्टत्वात् युगपदन्वयो युक्त इत्याशयः । खलेकपोतन्या-

येनेति । कणिशानां मर्दनेन धान्यनिष्पादनस्थानं खलम् । तत्र धान्ये प्रसारिते तद्भ-

क्षणार्थं बाला युवानो वृद्धाश्च कपोता ( अन्ये वा पक्षिणः ) युगपदेव पतन्ति । न

क्रमशः । सोऽयं खल्ले कपोतन्यायः ।
 

 
पक्षद्वयेऽपोति--गुणविधिपक्षे विशिष्टविधिपचेक्षे चेत्यर्थः । गुणस्य दृष्टविधयैव

यागस्वरूपनिष्पादकत्वेन नात्रादृष्टकल्पनम् । यागस्य स्वर्गजनकत्वे परं एकमदृष्टं कल्पनी-

यम् । तच्चोभयोस्तुल्यमिति भावः । विधिनिरूपणानुगतप्रसङ्गचिन्तयेति । विधिनिरू-

पणमनुसृत्य तत्प्रसजा<error>ङ्गा</error><fix>ङ्गादाग</fix>ता या चिन्ता तयाऽलमित्यर्थः । विधेः प्रयोजनवदर्थबोधकत्व<error>-नि
</error><fix>नि-</fix>
रूपणमुपसंहरति--तत्सिद्धमिति ।