This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनीव्याण्यासंवलितः
 
२३
 
कारस्य क्रियमाणत्वात्, तथापि द्रव्यमुपलभ्यत एव, तेनापि यागस्वरूपं ज्ञातुं

शक्यमेव । 'ज्योतिष्टोमेन स्वर्गकामो यजेते' त्यत्र न द्रव्यं देवता वा श्रूयते ।

अतस्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं यागसामान्यस्याविधेयत्वात् विशेष-

स्यैव विधेयत्वादित्यादिक्लेशेन स्यात् । अतो नायं कर्मोत्पत्तिविधिः ।
 

 
नन्वेवमपि 'अग्निहोत्रं जुहोती' त्ययमपि होमोत्पत्ति विधिनँर्न स्यात् रूपा-

श्रवणात् । तच्छ्रवणाञ्च्च 'दध्ना जुहोतोती' त्ययमेवोत्पत्तिविधिः स्यात् । तथा

चाऽऽघाराग्निहोत्राधिकरण विरोधः । तत्र हि 'अग्निहोत्रं जुहोती' त्यस्योत्प
-
त्तिविधित्वं 'दध्ना जुहोती' त्यादीनां च गुणविधित्वमुक्तमिति चेत् सत्यम्,

'अग्निहोत्रं जुहोती' त्यत्र यद्यपि रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्य-

न्यायेन नामधेयत्वात्, तदेतदग्रे वक्ष्यामः; तथापि तस्योत्पत्तिविधित्वं स्वोवीक्रि-

यते, अन्यथाऽऽनर्थ क्यापत्तेः । 'ध्ना जुहोती'त्यस्य च नाऽऽनर्थक्यं, गुणविधि-

त्वात् । अतः 'अग्निहोत्रं जुहोतोती' त्ययं कर्मोत्पत्ति विधिरिति युक्तम् । 'ज्यो
 
-
 
[commentary]
 
याजे उत्पत्तिवाक्ये देवताभावेऽपि मन्त्रवर्णकल्पितविधिना यागोद्देशेनैव देवताविधानात्

नाऽव्यक्तत्वं ; ततश्च नाऽसंभवो नाऽप्यतिव्याप्तिरिति भावः । केचित्तु न यागोद्देशेनावि-

हितदेवताकत्वं अव्यक्तत्वं, ग्रहणार्थमुपात्तानां देवतानां यागसम्बन्धं विनाऽऽकांक्षानुपरमा-

त्, न हि ग्रहणनिरूपितं देवतात्वं संभवति, त्यज्यमानद्रव्योद्देश्यत्वरूपत्वात् देवतात्वस्य; न

हि ग्रहणकाले द्रव्यं त्यज्यते, अत एव च न प्रसासङ्गादुपकारसिद्धिः । अन्यार्थमुपात्तस्य तत्र

संभवदुपयोगस्य हि अन्येनोपजीवनं प्रसङ्गः । यथा पशुपुरोडाशे प्रयाजादेः, न च ग्रहण-

मात्रे उपयोगस्सम्भवतीत्युक्तं; किञ्च यदि प्रसङ्गादुपकारकत्वं देवतानां तदा अङ्गत्वाभा-

वात् गुणकामवत् विकृतावतिदेशो न स्यात्, तो नेदमव्यक्तलक्षणम्, किन्तु यत्र

तद्धितचतुर्थीमन्त्रवर्णैः प्रथमं यागार्थतयैव देवता विनियुक्ता तत् व्यक्तम्, तद्भिन्नमव्यक्त-

म्, तत्त्वमव्यक्तत्वम् । न 'ह्येन्द्रवायव' मित्यादिभिः प्रथमं यागोद्देशेन देवता विधीयते, तत्र

पश्चात् आर्थिकत्वाद्देवतासंबन्धस्य, अत एव तृतीये भक्षपेटिकायां "स्वाङ्गतयाऽविहित-

देवताकत्वमेवाव्यक्तत्व" मित्युक्तं कौस्तुभे । अतो न दोष इत्याहुः । शक्यमेवेति ।

एकतरसत्त्वेऽपि एकदेशस्य ज्ञातत्वेन तेन समुदायज्ञानं सुकरमेवेत्यर्थः । विशेषज्ञानं क्ले-

शेन स्यादित्यन्वयः । क्लेशप्रकारमाह--यागसामान्यस्येति । विशेषज्ञानमन्तरा सामान्ये

कस्यापि प्रवृत्त्यनुदयादिति भावः । सत्यां गतौ तादृशक्लेशसहनं न युक्तमिति हृदयम् ।
 

 
यत्र रूपोपलब्धिः तत्रैव कर्मविधिरिति स्वीकारे दोषमाशङ्कते- -नन्वेवमिति । त-

च्छ्रवणात् रूपश्रवणात् । अस्तु नाम 'दघ्ध्ना जुहोती'त्यस्योत्पत्तिविधित्वं को दोषः? अत

--तथाचेति । 'आघाराग्निहोत्रमरूपत्वा'दित्यधिकरणे इत्यर्थः । आदिपदेन पयसा

जुहोति, इत्यादिपरिग्रहः । ननु - --कथं न रूपोपलब्धिः ? अग्निहोत्रपदस्यैव रूपोपलम्भक-
त्वात् अता

त्वात् अत आ
श्र--अग्निहोत्रशब्दस्येति । अग्रे नामधेयनिरूपणावसरे । तथापि

रूपोपलम्भाभावेऽपि । नर्थक्यापत्तेरिति । धात्वर्थस्य वाक्यान्तरेण विहितत्वात् ना-

मधेयस्य च वैश्वदेवादिशब्दवत् अनुवादप्रयोजनस्यापि कस्यचिदभावात् नर्थक्या
 
-
 
पत्ते-