2023-02-20 11:46:19 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याण्यासंवलितः
२३
कारस्य क्रियमाणत्वात्, तथापि द्रव्यमुपलभ्यत एव, तेनापि यागस्वरूपं ज्ञातुं
शक्यमेव । 'ज्योतिष्टोमेन स्वर्गकामो यजेते' त्यत्र न द्रव्यं देवता वा श्रूयते ।
अतस्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं यागसामान्यस्याविधेयत्वात् विशेष-
स्यैव विधेयत्वादित्यादिशेन स्यात् । अतो नायं कर्मोत्पत्तिविधिः ।
नन्वेवमपि 'अग्निहोत्रं जुहोती' त्ययमपि होमोत्पत्ति विधिनँ स्यात् रूपा-
श्रवणात् । तच्छ्रवणाञ्च 'दध्ना जुहोतो' त्ययमेवोत्पत्तिविधिः स्यात् । तथा
चाऽऽघाराग्निहोत्राधिकरण विरोधः । तत्र हि 'अग्निहोत्रं जुहोती' त्यस्योत्प
त्तिविधित्वं 'दना जुहोती' त्यादीनां च गुणविधित्वमुक्तमिति चेत् सत्यम्,
'अग्निहोत्रं जुहोती' त्यत्र यद्यपि रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्य-
न्यायेन नामधेयत्वात् तदेतदग्रे वक्ष्यामः; तथापि तस्योत्पत्तिविधित्वं स्वोक्रि-
यते, अन्यथाऽऽनर्थ क्यापत्तेः । दना जुहोती'त्यस्य च नाऽऽनर्थक्यं, गुणविधि-
त्वात् । अतः 'अग्निहोत्रं जुहोतो' त्ययं कर्मोत्पत्ति विधिरिति युक्तम् । 'ज्यो
याजे उत्पत्तिवाक्ये देवताभावेऽपि मन्त्रवर्णकल्पितविधिना यागोद्देशेनैव देवताविधानात्
नाऽव्यक्तत्वं ; ततश्च नाऽसंभवो नाऽप्यतिव्याप्तिरिति भावः । केचित्तु न यागोद्देशेनावि-
हितदेवताकत्वं अव्यक्तत्वं, ग्रहणार्थमुपात्तानां देवतानां यागसम्बन्धं विनाऽऽकांक्षानुपरमा-
त्, न हि ग्रहणनिरूपितं देवतात्वं संभवति, त्यज्यमानद्रव्योद्देश्यत्वरूपत्वात् देवतात्वस्य; न
हि ग्रहणकाले द्रव्यं त्यज्यते, अत एव च न प्रसादुपकारसिद्धिः । अन्यार्थमुपात्तस्य तत्र
संभवदुपयोगस्य हि अन्येनोपजीवनं प्रसङ्गः । यथा पशुपुरोडाशे प्रयाजादेः, न च ग्रहण-
मात्रे उपयोगस्सम्भवतीत्युक्तं; किञ्च यदि प्रसङ्गादुपकारकत्वं देवतानां तदा त्वाभा-
वात् गुणकामवत् विकृतावतिदेशो न स्यात्, तो नेदमव्यक्तलक्षणम्, किन्तु यत्र
तद्धितचतुर्थीमन्त्रवर्णैः प्रथमं यागार्थतयैव देवता विनियुक्ता तत् व्यक्तम्, तद्भिन्नमव्यक्त-
म्, तत्त्वमव्यक्तत्वम् । न 'ह्येन्द्रवायव' मित्यादिभिः प्रथमं यागोद्देशेन देवता विधीयते, तत्र
पश्चात् आर्थिकत्वाद्देवतासंबन्धस्य, अत एव तृतीये भक्षपेटिकायां "स्वाङ्गतयाऽविहित-
देवताकत्वमेवाव्यक्तत्व" मित्युक्तं कौस्तुभे । अतो न दोष इत्याहुः । शक्यमेवेति ।
एकतरसत्त्वेऽपि एकदेशस्य ज्ञातत्वेन तेन समुदायज्ञानं सुकरमेवेत्यर्थः । विशेषज्ञानं क्ले-
शेन स्यादित्यन्वयः । क्लेशप्रकारमाह-यागसामान्यस्येति । विशेषज्ञानमन्तरा सामान्ये
कस्यापि प्रवृत्त्यनुदयादिति भावः । सत्यां गतौ तादृशक्लेशसहनं न युक्तमिति हृदयम् ।
यत्र रूपोपलब्धिः तत्रैव कर्मविधिरिति स्वीकारे दोषमाशङ्कते- नन्वेवमिति । त-
च्छवणात् रूपश्रवणात् । अस्तु नाम 'दघ्ना जुहोती'त्यस्योत्पत्तिविधित्वं कोदोषः? अत
ह-तथाचेति । 'आघाराग्निहोत्रमरूपत्वा'दित्यधिकरणे इत्यर्थः । आदिपदेन पयसा
जुहोति, इत्यादिपरिग्रहः । ननु - कथं न रूपोपलब्धिः ? अग्निहोत्रपदस्यैव रूपोपलम्भक-
त्वात् अताह श्रग्निहोत्रशब्दस्येति । अग्रे नामधेयनिरूपणावसरे । तथापि
रूपोपलम्भाभावेऽपि । नर्थक्यापत्तेरिति । धात्वर्थस्य वाक्यान्तरेण विहितत्वात् ना-
मधेयस्य च वैश्वदेवादिशब्दवत् अनुवादप्रयोजनस्यापि कस्यचिदभावात् नर्थक्या
-