This page has not been fully proofread.

२२
 
मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षण -
डी
 
त्पत्तिविधिर्न 'ज्योतिष्टोमेने' त्ययम्; गौरवलक्षणवाक्य भेदापत्तेः ।
किंच 'सोमेन यजेते' त्यत्र यागविधाने श्रुत्यर्थविधानं (१) स्यात्, गुणवि
धाने तु वाक्यार्थविधानम्, तच्च श्रुत्यर्थवि (२) धानसंभवेऽयुक्तम् । यथाहु:-
वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । इति ।
 
वाक्यार्थः पदान्तरार्थ इत्यर्थः । 'ज्योतिष्टोमेने त्यत्रापि फलोद्देशेन याग-
स्यैव विधानान वाक्यार्थविधानम्, तदुत्पत्तिविधित्ववादिनापि तदङ्गीकारा-
च्च । तस्मात् 'ज्योतिष्टोमेने' त्ययमधिकार विधिरेव ।
 
अपि च कर्मस्वरूपविधिस्तत्र स्वीकार्यो यत्र कर्मणो रूपमुपलभ्यते ।
यागस्य हि द्वे रूपे, द्रव्यं देवता चेति । सोमेन यजेते त्यत्र यद्यपि देवता
नोपलभ्यते सोमयागस्या व्यक्तत्वात्; अव्यक्तत्वं च स्वार्थचोदितदेवता-
राहित्यम्, न तु देवताराहित्यमात्रम् ; 'ऐन्द्रवायवं गृह्णाती' त्यादिवाक्यवि.
हित (३) ग्रहणदेवतानां सत्त्वात्, ग्रहणार्थाभिरपि देवताभिः प्रसङ्गतो यागोप-
नन्विदमनुपपन्नम् । कर्मस्वरूपमात्रबोधक उत्पत्तिविधावपि फलसम्बन्धबोधनस्याऽ
वर्जनीयत्वात् । अन्यथा पुरुषप्रवृत्तेरेवानुदयात् । उत्पत्तिवाक्ये विधेरिष्टसामान्यविष-
यता । अधिकारविधौ तु तद्विशेषविषयतेत्येतावानेव विशेषः । नैतावता फलसम्बन्धस्य
विध्यविषयता, येन तज्जन्यं गौरवं परिहियेत । तोमय दोषसाम्यान्मत्वर्थलक्षणा-
परिहाराय ज्योतिष्टोमवाक्यस्यैवोत्पत्तिविधित्वाङ्गीकरणं युक्तमित्यत ग्राह– किञ्चेति ।
 
श्रुत्यर्थेति । अत्र श्रुतिपदेन समानपदश्रुतिर्गृह्यते । वाक्यपदेन च पदद्वयसमभिव्या-
हारः । अन्याय्य इति । भावनायाः करणाकांक्षायां समानपदोपात्तधात्वर्थस्यैव शीघ्रोप-
स्थितत्वेन तत्त्वेनान्वयो युक्तः, न तु पदान्तरोपात्तस्य विलम्बोपस्थितस्य गुणस्येति भावः ।
यागस्यैव विधानादिति । फलस्याविधेयत्वेनोत्पत्तिवाक्यविहितस्यापि यागस्याधिकार-
वाक्ये पुनर्विधानादिति भावः । उभयवादिसम्मतोऽयं पक्ष इत्याह - तदुत्पत्तोति ।
 
YS
 
सोमेन यजेतेत्यत्रैवोत्पत्तिविधित्वमङ्गीकार्यमित्याह - श्रपिचेति । कर्मस्वरूपविधिः
कर्मस्वरूपबोधको विधिः । यागस्य देवतोद्देश्यकद्रव्यत्यागरूपत्वेन तत्स्वरूपनिष्पादकत्वात्
यागरूपत्वं द्रव्यदेवतयोः। ननु सोमेन यजेतेत्यत्र द्रव्यश्रवणेऽपि देवताया भावात्
कथं तस्योत्पत्तिविधित्वमकर्तुं शक्यते ? ग्राह- सोमेनेति । उपलब्ध्यभावे
हेतुमाह - अव्यक्तत्वादिति । ननु व्यक्तत्वं यागस्य द्रव्यदेवताभ्यां भवति । अव्य-
तत्वं द्रव्यदेवताभावरूपं वाच्यं, न च तत्सोमयागे संभवति, द्रव्यस्य सोमरूपस्य देवता-
नामिन्द्रवाय्वादीनां सत्त्वात् । नचोत्पत्तिवाक्ये देवताभाव एवाव्यक्तत्वं तच्च सोमयागे
ऽप्यस्तीति वाच्यं, उपांशुयाजे उत्पत्तिवाक्ये देवताभावेन तस्याऽप्यव्यक्तत्वापत्ते रित्यत
ग्रह - अव्यक्तत्वं चेति । यागोद्देशेन विहितदेवताभाववत्वम्, न तु सर्वथा देवता.
भावः, नाप्युत्पत्तिवाक्ये देवताभावमात्रमित्यर्थः । कुतो न सर्वथा देवताभावः ?
ग्राह-ऐन्द्रवायवमिति । गृह्णातीत्यादिपदेन "मैत्रावरुणं गृह्णाति" "आश्विनं गृ.
ह्याति", इत्यादयो गृह्यन्ते । ग्रहणदेवतासत्त्वे यागस्य किमायातम् ? इत्यत ग्राह-ग्रह-
गार्थाभिरिति । प्रसङ्गत इति । अन्यार्थमुपात्तस्याङ्गस्यान्येनोपजीवनं प्रसङ्गः । उपांशु-
66
 
१. स्यात् इति नास्ति क. पु. २. विधाने सम्भवति ३. ग्रह.