This page has been fully proofread once and needs a second look.

निरूपणम् ] ] सारववेचिनी व्याख्यासंवलितः
 
२१
 
Osma
 
विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषण विधिरार्थिकः ।

'ज्योतिष्टोमेने' त्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसंबन्धश्चेत्युभयं श्रूय-

माणेनैव विधिना विधातव्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यदाहुः-
-
 
श्रौतव्यापारनानात्वे शब्दानामतिगौरवम्


एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति ।

 
न च 'सोमेन यजेते' त्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः, तथापि

मत्वर्थलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो

वाक्यमेदस्य जघन्यत्वात् । लक्षणा हि पददोषः, वाक्यमेदस्तु वाक्यदोषः,

पदवाक्ययोर्मध्ये पदे एव दोषकल्पनाया उचितत्वात् । ([^)] 'गुणे त्वन्याय्य-

कल्पना' इति न्यायात् ।
 
श्र

 
त एव 'जातपुत्रः कृष्णकेशोऽग्नीनाधीत' इत्यत्राधानानुवादेन जात-

पुत्रत्वकृष्ण केशत्व विधाने वाक्यभेदात् पदद्वयेनावस्थाविशेषो लक्ष्यत इत्युक्तम् ।

तस्माद्वाक्यभेदप्रसक्तौ लक्षणैव स्वीकार्या । तस्मात् 'सोमेन यजेते' त्ययमेवो-

 
[commentary]
 
ग्विधिः कल्प्यते, विशिष्टस्य चैकत्वेन तन्त्रैव विधिव्यापाराङ्गीकरणात् नानेकविधानकृतो

वाक्यभेद इति भावः। ज्योतिष्टोमवाक्ये तु श्रूयमाणो विधि: उभयमपि संस्पृशतीि
तीति
अस्त्येव वाक्यभेदः इत्याह - --ज्योतिष्टोमैमेनेति । अत्र वार्त्तिकं प्रमाणयति --यदाहुरिति ।

श्रौतेति । श्रुत्यैवानेकार्थविधायकत्वे शब्दानां विधिशब्दानां, एकमुक्त्वा एकं विधाय

तावता निवृत्तव्यापाराणां अर्थाक्षेपः विशिष्टविध्यन्यथानुपपत्त्या विशेषण विधिकल्पनमित्य-

र्थः। अतश्च सोमेन यजेतेत्यत्र विशिष्टस्यैकत्वेन तन्मात्रविधानेन विधिव्यापारे उपरते

अर्थात् विशेषणविधिकल्पनेऽपि न दोष इति भावः । सकृच्छ्रुतस्य अत
अतएवैकमेवा
र्थं
विधातुं स्वरसतः प्रवृत्तस्य बलादने कविषयकत्वकल्पनं न युक्तम् । अतो विशिष्टमेकं

विधाय तावतैव चरितार्थे तस्मिन् वैशिष्ट्यनिर्वाहाय पश्चादनेक विशेषणकल्पनेऽपि न दोष

इति हृदयम् ।
 

 
जघन्यत्वात् निकृष्टत्वात् । जघन्यतामुपपादयति--लक्षणा हीति । उचितत्वादिति ।

पदसमूहात्मकत्वात् वाक्यस्याने कपदात्मके वाक्ये लक्षणाकल्पनापेक्षया एकस्मिन् पदे

तत्कल्पनमेव न्याय्यमिति भावः । गुणेति व्याख्यातपूर्वम् । अतएव लक्षणातो वाक्य-

भेदस्य जघन्यत्वादेव । श्राधानानुवादेन 'वसन्ते ब्राह्मणोऽग्नीनादधीत' इति वा-

क्यप्राप्तेत्यादि । पदद्वयेनेति । जातपुत्रः, कृष्णकेशः इति पदद्वयेनेत्यर्थः । यद्यप्यत्र

पदद्वयाभ्यामवस्थाविशेषो लक्ष्यते इति क्वचिदुपलभ्यते पाठः । व्याख्यातं च भाट्टालं
-
कारका रैरमुमेव पाठमङ्गीकृत्य "द्वयाभ्यामिति जातपुत्रकृष्णकेशपदयोः प्रत्येकमनेकपदा-

त्मकताशय" मिति । तथापि पदद्वयेनेति पाठस्य बहुत्रोपलम्भात् तत्रैव स्वरसतां मन्वा-

नैरस्माभिरयमेव पाठः स्वीकृतः । अवस्थाविशेषः वयोविशेषः । यदा जातपुत्रत्वं

कृष्णकेशत्वं च सम्भाव्यते तादृशे वयसीत्यर्थः । अतः सोमेन यजेतेत्यत्रैव

त्व उत्पत्तिविधि-

त्वमङ्गीकार्यं इत्यमुमर्थमुपसंहरति--तस्मादिति ।
 
,

 
[^१]
जै.
 
१.
 
-
 
सू. ९. ३.१५