This page has been fully proofread once and needs a second look.

२०
 
मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा-
यथा 'यदाग्नेयोऽष्टाकपालो भवती' त्येतद्विहितस्य कर्मणः फलविशेषसंव-
ब-
न्धमात्रं 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति वाक्यं विधत्त इति तस्याऽधि-

कारविधित्वं, नोत्पत्तिविधित्वम् ।
 

 

 
स्यादेतत् 'दर्शपूर्णमासाभ्या' मित्येतस्य नोत्पत्तिविधित्वं संभवति,

"यदाग्नेयोऽष्टाकपाल' इत्यादिवाक्यानर्थक्यापत्तेः । न हि तदा तेन कर्म

विधोयते, तस्य 'दर्शपूर्णमासाभ्या' मित्यनेन विहितत्वात्; नापि गुणविधानं

संभवति, प्राप्ते कर्मणि अनेकविधाने वाक्यभेदापत्तेः । अतः 'आग्नेयोऽ
-
ष्टा
कपाल' इत्यस्योत्पत्ति विधित्वं दर्शपूर्णमासाभ्यामित्यस्य चाधिकार विधित्वं

युक्तम् । 'ज्योतिष्टोमेने' त्यस्य तु अधिकारविधे 'रुद्भिदा यजेत पशुकाम
'
इत्यादिव दुत्पत्तिविधित्वेऽपि स्वीक्रियमाणे न कस्यचिदानर्थक्यम् । 'सोमेन

यजेते' त्यस्य गुणविधित्वाद्यागोद्देशेन सोममात्रविधानाश्च्च न वाक्यभेद इति

चेत्
 
YA
 
--
 
मैवम् । यद्यपि 'सोमेन यजेते' त्यत्र न वाक्यभेदः, तथापि 'ज्योतिष्टो-

मेने' त्यस्मिन्वाक्ये कर्मस्वरूपे तस्य च फलसंबन्धे विधीयमाने गौरवलक्षणो

वाक्यमेदोऽस्त्येव । 'सोमेन यजेते' त्येतद्वाक्यविहितकर्मणः फलसंबन्धमा-

त्रविधाने ([^) तद्] तदभावात् । 'उद्भिदा यजेते' त्यत्र तु वचनान्तराभ वभावेनागत्या

तदाश्रयणम् । नच 'सोमेन यजेते' त्यत्रापि कर्मणः स्वरूपे गुणे च विधीयमाने

वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुण ([^) ]स्याविधेयत्वात्,

 
[commentary]
 
यथेति । यदाग्नेयादिवाक्यविहितकर्मणां दर्शपूर्णमासवाक्येन फलसम्बन्धीधो बोध्यत

इति दर्शपूर्णमासवाक्यस्याधिकारविधित्वमेव नोत्पत्तिविधित्वं यथा, तथा ज्योतिष्टोमवा-

क्यस्यापि अधिकारविधित्वमेव नोत्पत्तिविधित्वमित्याशयः । उत्पत्तिरत्र ज्ञापनम् । कर्मस्व-

रूपविषयकाज्ञातज्ञापनं येन विधिना क्रियते स कर्मोत्पत्तिविधिरित्यर्थः ।
 

 
दृष्टान्तदार्ष्टान्तिकयोः वैषम्यं प्रतिपादयितुमारभते - --स्यादेतदिति । 'यदाग्नेयोऽ-

ष्
टाकपालोऽमावास्यायां च पौर्णमास्यां चाऽच्युतो भवति' इति समग्रं वाक्यम् ।

तदा दर्शपूर्णमासवाक्यस्योत्पत्तिविधित्वाङ्गीकारे । अनेकेति । अग्निरूपदेवता, कपाल-

गतसंख्या, पुरोडाशः, अमावास्यादिकालः इत्यनेकार्थेत्यर्थः । एवं च दार्ष्टान्तिके आ-

ग्नेयवाक्यानर्थक्यभिया दर्शपूर्णमासवाक्ये उत्पत्तिविधित्वानङ्गीकरणं युक्तम् दृष्टान्ते तु

न तथेत्याह--ज्योतिष्टोमेत्यादि ।
 
,
 

 
ज्योतिष्टोमवाक्यस्योत्पत्तिविधित्वाशीङ्गीकारे तत्र सकलगुण विशिष्टभावनाविधिसंभवात्

न विध्यावृत्तिलक्षणो वाक्यभेदः, नापि सोमेन यजेतेत्यत्र लक्षणा; तथापि गौरवलक्ष-

णो वाक्यभेदः समस्त्येवेत्याह- -गौरवलक्षण इति । अप्रवृत्तप्रवर्तनरूपस्य विधिव्यापा-
रस्वा

रस्या
ऽनेक विषयत्वाभावेऽपि ज्ञातज्ञापनरूपस्य तस्य तथात्वान्न तद्दोषान्मुक्तिरित्याशयः ।
.

सोमेन यजेतेत्यत्र वाक्यभेदमाशंकते--नचेति । विशिष्टविधिस्थले सर्वत्र विशिष्ट एव

विधिः प्रवर्त्तते; विशिष्टं विधाय विश्रान्ते विधौ तदन्यथानुपपत्त्या विशेषणानामपि पृथ-

 
[^
.] लाघवात्.
 
[^] स्याविहितत्वात्. स्थाविहितत्वात्.