This page has not been fully proofread.

निरूपणम् ] ] सारववेचिनीव्याख्या संचलितः
 
१६
 
यदा तु "अग्निहोत्रं जुहोती" ति होमविधायकं वाक्यान्तरमालोच्यते तदा

होमस्य वाक्यान्तरेणैव विहितत्वात्तदुद्देशेन गुणमात्रं विधीयते इत्यालोचना-

न्न मत्वर्थलक्षणेति । अतएवोक्तं पार्थसारथिमि (१) राधाराग्निहोत्राधिकरणे-

फलतो गुणविधिरयं न प्रतीतितः - इति ।
 

 
यद्वा एतद्वार्तिकमधिकारविष्यभिप्रायम् । 'उद्भिदा यजेते' त्यादीनामधि-

कारविधित्वात् । तत्र हि यागो विधीयताम् उत्पत्तिवाक्यसिद्धो वानूद्यताम्,

उभयथापि धात्वर्थस्य करणत्वेनान्वयात् तृतीयान्तस्य तद्वाचित्वम्, अन्य-

थान्वयानुपपत्तेरिति । तस्माद् गुणविधौ विनापि लक्षणामन्वयोपपत्तेर्न मत्व-

र्थलक्षणेति । अतश्च 'सोसेन यजेते' त्यत्र न विशिष्टविधानम्, किंतु गुणमात्र

विधानम्, यागस्तु 'ज्योतिष्टोमेन स्वर्गकामो यजेते' त्यस्मिन्वाक्ये विधीयते

इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणापतेरिति ।
 

 
मन्त्रोच्यते यद्यपि यागोद्देशेन सोमविधौ न मत्वर्थलक्षणा, तथापि याग-

स्याप्राप्तत्वात् 'सोमेन यजेते' त्यत्र न यागोद्देशेन सोमविधानं संभवति । न

च 'ज्योतिष्टोमेने' त्यादिना यागस्य प्राप्तत्वात्तदुद्देशेन गुणमात्रं विधीयत

इति वाच्यम् । तस्याधिकार

विधित्वेनोत्पत्तिविधित्वानुपपत्तेः । कर्मस्वरूपमा

त्रबोधको विधिरुत्पत्तिविधिः । तेन च विहितस्य कर्मणः फलविशेष संबन्ध-

मात्रमधिकार विधिना क्रियते। फलविशेषसंबन्धबोधकस्याधिकारविधित्वात् ।

विहाय द्रव्ये विधिः प्रतीयते । तस्यामेव विशिष्टायां प्रतीयमानो विधिः स्वरूपेण तस्याः

प्राप्तत्वात् श्रप्राप्तगुणमात्रपरतामवलम्बमानः फलतो गुणविधिरित्युच्यते न प्रतीतित"

इति । एवं चानुवादस्थले विशिष्टविध्यङ्गीकारेऽपि विधिर्विशेषणमात्रे पर्यवस्यन्

फलतो गुणविधिरेवायमिति वक्तव्यमिति ।
 

 
9
 

 

 

 
ननु नेदं युक्तमापातप्रतीतिमवलम्ब्य वार्तिकं प्रवृत्तमिति; यद्येवं सर्वाणि वाक्या

नि विप्लवेरन् । नाप्ययसर्थो मिश्रवाक्यस्य वस्तुगत्या गुणविधिरापात प्रतीत्या तु धात्वर्थ-

विधिरिति भ्रम इति; किन्तु चेतनप्रवर्तनात्मकस्य विधेः स्वव्यापारादन्यत्र प्रवृत्त्यनुपपत्तेः

गुणविधिस्थलेऽपि गुणविशिष्टस्य व्यापारस्यैव विधावङ्गीकृते पश्चात्प्राप्ताप्राप्त विवेकन्याये-

न विधिर्गुणमात्रे पर्यवस्यतीति फलतो गुणविधिरित्युच्यते इत्येवार्थः । अतो नेयं गतिर्वा -

तिंकस्येत्यस्वरसादाह-यद्वेति । अधिकारविष्यभिप्रायमिति । यत्र धात्वर्थस्य फलस-

म्बन्धो बोध्यते तद्विषयकमित्यर्थः । एवं च उद्भिद धिकरण स्थस्याऽस्य वार्तिकस्य तद्वाक्यम-

धिकृत्यैव प्रवृत्तत्वेन तस्य चाधिकारविधित्वात् तत्सदृशेष्वेवाऽस्य प्रवृत्तिर्युक्ता नाऽन्यत्रे ति

भावः । करणत्वेनेति । फलस्याऽनुपादेयत्वेनाऽविधेयत्वस्य स्थापितत्वात् अधिकारविधि-

स्थलेऽपि फलविशेषोद्देशेन धात्वर्थस्यैव विधेयत्वात् करणत्वेनैवाऽन्वयो वक्तव्य इति

भावः । उक्तार्थमुपसंहरति - तस्मादिति । पूर्वपक्षमुपसंहरति - अतश्चेति ।
 
-
 
-
 

 
-
 
-
 
एवं 'सोमेन यजेत' इत्यत्र गुणमात्रविधानेन विशिष्टविधेरभावान्न मत्वर्थलक्षणा-

या प्रकाशलेशोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तमुपक्रमते त्रोच्यत इति । स्यादेवं यदि

गुणमात्रं 'सोमेन यजेते' त्यनेन विधियेत, नैतत्संभवतीत्याह-यद्यपोत्यादिना ।

१. पू. मी. २.२.५.