2023-02-20 11:46:17 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः
[ मत्वर्थलक्षणा-
←
यत्तु 'विधाने वानुवादे वा' इति वार्तिकं, तत्प्रतीतिमवलम्व्य, न वस्तुग-
तिम् । तथाहि - यावद्धि 'श्रग्निहोत्रं जुहुयादिति वाक्यं नाऽऽलोच्यते, केवलं
'दध्ना जुहोती'ति वाक्यमालोच्यते, तदा षष्टाद्यन्यायेन होमस्या (१) भाव्यतां
जानतां (२) प्रतिपदाधिकरण (३) भावार्थाधिकरणवासनावासितानां (४) भव-
त्येव (५) तादृशी मतिः- यद्दधिमता होमेनेष्टं भावयेदिति ।
प्रतिपदाधिकरणे हि 'सोमेन यजेते' त्यादिषु किं गुणधात्वर्थयोः फलभा-
वनाकरणत्वेनान्वयः, उत एकस्यैवेति संदिय प्रधानसंबन्धलाभात् विनिगम-
नाविरहाञ्च सर्वेषां फलभावना करणत्वेनान्वयमाशङ्कय लाघवादेकस्यैव फल-
भावनाकरणत्वमित्युक्तम् । भावनाकरणत्वंहि भावनाभाव्यनिर्वर्तकतया । भाव्यं
च स्वर्गादि नादृष्टमन्तरेणेति अनेकेषां करणत्वेऽनेकादृष्टकल्पनाप्रसङ्गात् ।
तस्मादेकस्यैव करणत्वम् ।
यदाण्येकस्य, तदापि किं द्रव्यगुणयोः फलभावनाकरणत्वम् ? उत धात्व-
र्थस्य इति भावार्थाधिकरणे संदिह्य द्रव्यगुणयोरेव भावनाकरणत्वम्, 'भूतं
भव्यायोपदिश्यते' इति न्यायादित्याशङ्कय धात्वर्थस्यैव भावनाकरणत्वम्,
पदश्रुतेर्वलोयस्त्वादित्युक्तम् । अतश्च सिद्धमेतद्वाक्यान्तरानालोचनदशायां
गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थलक्षणेति ।
-
-
तर्हि विधानेवेति वात्तिकस्य का गतिः ? ग्राह-तत्प्रतीतिमवलम्ब्येति ।
आपाततः प्रतीतिमवलम्ब्येत्यर्थः । अज्ञाननिवृत्तिमात्रेण संशय विपर्ययसहं ज्ञानमापत-
प्रतीतिः । वस्तुगतिं वस्तुतत्त्वम् । तदेवोपपादयति — तथाहोति । अभाव्यतां भाव्य-
त्वाभावं । क्रियारूपत्वेन कष्टात्मकस्य यागस्य पुरुषार्थत्वेन भाव्यत्वात् प्रच्या-
वितत्वादिति भावः । वाक्योपात्तं प्रतिपदं भावनया सम्बध्यते न वेति विचारो यत्र क्रियते
तत् प्रतिपदाधिकरणम् । धात्वर्थस्य भावार्थस्य यत्र करणत्वेनान्वयो विचार्य निर्णय
तद्भावार्थाधिकरणम् ।
सोमेन यजेत्यादिष्वित्यादिपदेन विशिष्टविधयो गृह्यन्ते । लाघवात् एकादृष्ट-
कल्पनाप्रयुक्तलाघवात् । एकस्यैव गुणधात्वर्थान्यतरस्यैव ।
भावार्थाधिकरणमुपक्षिपति- यदाप्येकस्येति । द्रव्यगुणयोरिति । द्रव्यरूपस्य गुण-
रूपस्य वोपपदार्थस्येत्यर्थः । भूतं भव्यायोपदिश्यत इति । सिद्धं वस्तु साध्यसम्पाद-
कत्वेन विधीयत इत्यर्थः । पदश्रुतेर्बलीयस्त्वादिति । यद्यपि मीमांसकमते सर्वेषामेव
पदार्थानां प्राथमिकशाब्दबोधे भावनान्वयात् न तत्र पदश्रुत्यादीनामुपयोगः, तथापि प्राथ-
मिकभावनान्वये यस्य यत् प्रमाणं, तद्गतप्रावल्यस्य तदानीमकिञ्चित्करत्वेऽपि पार्ष्टिके
फलादिसम्बन्धे तदेव निश्चायक मङ्गीक्रियत इत्याशयेनेदम् । विचारशीलस्य नैवं प्रतीतिः
संभवतीत्याह- यदा विति ।
प्रवर्तनात्मकस्य विधेः प्रवृत्यतिरिक्तविषयत्वासम्भवेन गुणविधिस्थलेऽपि, धात्वर्था-
वच्छिन्नप्रवृत्तिविषयकविधिरेव युक्त इत्याशङ्कय पार्थसारथिमिश्रैरुक्तम्-यद्यपि न क्रियां
२. पू. मी. २. १.१. ३. पू. मी. २.१.२
१. अभाव्यत्वम् भा० यत्वमजानतां
४. वासितान्तःकरणानां ५० भवत्येतादृशी
शीघ