This page has been fully proofread once and needs a second look.

निरूपणम् ]]
 
सारविवेचिनोव्याख्या संवलितः
 
मानं स्यात् न तु गुणस्याऽङ्गत्वे । समभिव्याहारात्मकं वाक्यमिति चेत्,

तत्किं स्वतन्त्रमेव मानम् ? उत लिङ्गश्रुती कल्पयित्वा ? । नाऽऽद्यः, ([^) च] बला-

बलाधिकरणविरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मान-

मित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्पने तस्या एव

वा श्रावृत्तिकल्पने ( [^ )] व्यर्थः प्रयासः समाश्रितः
श्रितः स्यात् । विशिष्टविधौ चाग-

त्या तदाश्रयणम् ।
 

 
किंच भवतु श्रुत्यन्तरकल्पनम् । तथापि तत्सहकृतः प्रत्यक्ष एव विधिर्धा-

त्वर्थाङ्गत्वेन गुणं विधचे, ? उत कल्पितं विध्यन्तरम् ? कल्पितमिति चेन्न,

श्रुतविधे([^) ]र्व्यर्थतापत्तेः । नहि तेन तदा गुणो विधोधीयते, कल्पितविध्यन्त-

राङ्गीकारात्; नापि धात्वर्थः, तस्य वचनान्तरेण विहितत्वात् ।
 
"
 

 
अथ --श्र--श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं

विधत्ते - --इति चेत्, तर्हि तत्र कथं धात्वर्थस्यान्वयः ? । करणत्वेनेति चेन्न,

अन्वयानुपपत्तेः । नहि संभवति दध्ना होमेनेति चान्वयः । साध्यत्वेनैवान्वयः-
-
दध्ना होमं भावयेदिति चेत्, न, तथा सत्यानुवादेऽपि धात्वर्थः करणत्वेनै-

वान्वेतीत्येतदुपेक्षितं स्यात्, विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षणयाङ्गी-

कृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा ।
 

 
;
 

 
[commentary]
 
तर्हि वाक्यमित्याह--समभोति । बलाबलेति । श्रुतिलिङ्गादीनां
प्राबल्यदौर्बल्यविचा-
राधिकरण इत्यर्थः । एतच्चोपरिष्टाद्ग्रन्थकृदेव निरूपयिष्यति ।

दध्नेति तृतीयाविभक्त्यन्तपदान्तरकल्पनमेव बोध्यम् । द्वितीये लिङ्गश्रुतिकल्पन पूर्व-

कमङ्गत्वे मानमिति पक्षे । कल्पनागौरवमभिसन्धायाह - --तस्या एवेति । ननु 'अरुणया

पिङ्गाक्ष्या' इत्यादौ रुण्यादिवि शिष्टक्रयभावनाया एव विधेयत्वाङ्गीकारात् तदन्य-

थानुपपत्तिकल्पित विशेषणविध्यर्थं यथा श्रुत्यावृत्तिराश्रीयते तद्वदनात्रापीत्यत आह - --विशि-

ष्टविधाविति । तथा च यत्रोत्पत्तिविध्यन्तरं नास्ति, तत्राऽगत्या विशिष्टविधिमङ्गीकृत्य

तदन्यथानुपपत्त्या अर्थात् विशेषणविधिकल्पनादशायां श्रुत्यन्तकल्पनादिप्रयासाश्रयणेऽपि

सत्यां गतौ गुणविधिस्थलेsपि किमर्थं स ग्राश्रीयत इति भावः ।
 

 
कल्पितेऽपि श्रुत्यन्तरे-न भवदिष्टं सेत्स्यतीत्याह--किंचेति । अयमभिसन्धिः- -"दध्ना

जुहोती" त्यत्र पदद्वयं श्रूयते, यद्यत्रान्यापि श्रुतिः कल्प्येत केवलाया बिविभक्तेः कल्पना-

संभवात् दध्नेति तृतीयान्तमन्यत्कल्पनीयम्, कल्पितस्य दध्नेतिपदस्याऽन्वयार्थं जुहोतीति

विधिपदान्तरस्वीकारे तेनैव गुणस्य विहितत्वेन 'अग्निहोत्रं जुहोती 'त्यनेन धात्वर्थस्य

प्राप्तत्वेनान्यस्य च कस्यचिदपि विधातुमशक्यत्वेन प्रत्यक्षदृष्टस्य वैयर्थ्यम् । श्रुत्यन्तर-

मकल्पयित्वा प्रत्यक्षतः श्रुतस्यैव कल्पितश्रुतिसहकृतस्य गुणविधायकत्वाङ्गीकारे गुणस्यैव

तत्र करणत्वेनाऽन्वयात् धात्वर्थस्य साध्यत्वेनैवाऽन्वयोऽङ्गीकर्त्तव्यः । अङ्गीकृते च तस्मिन्

प्रतिज्ञाव्याकोपोऽस्मदिष्टसिद्धिश्चेति । श्रुतविधेः 'दप्ना जुहोति' इत्यत्र श्रुतस्य जुहो-

तीति विधिभागस्य ।
 

 
[^१] पू. मी.
३. वैयर्थ्यापत्तेः
 
१. पू. मी.
३. ३. ७.
 
३ मो० न्या०
 
[^.] वृथा.
 
प्राबल्यदौर्बल्यविचा
श्रुत्यन्तरकल्पनं
 
[^३] वैयर्थ्यापत्तेः
 
[^३] मी.न्या,