This page has not been fully proofread.

निरूपणम् ]]
 
सारविवेचिनोव्याख्या संवलितः
 
मानं स्यात् न तु गुणस्याऽङ्गत्वे । समभिव्याहारात्मकं वाक्यमिति चेत्,
तत्किं स्वतन्त्रमेव मानम् ? उत लिङ्गश्रुती कल्पयित्वा ? । नाऽऽद्यः, (१) चला-
बलाधिकरणविरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मान-
मित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्पने तस्या एव
वा श्रावृत्तिकल्पने ( २ ) व्यर्थः प्रयासः समाश्रितः
श्रितः स्यात् । विशिष्टविधौ चाग-
त्या तदाश्रयणम् ।
 
किंच भवतु श्रुत्यन्तरकल्पनम् । तथापि तत्सहकृतः प्रत्यक्ष एव विधिर्धा-
त्वर्थाङ्गत्वेन गुणं विधचे, ? उत कल्पितं विध्यन्तरम् ? कल्पितमिति चेन्न,
श्रुतविधे(३) र्व्यर्थतापत्तेः । नहि तेन तदा गुणो विधोयते, कल्पितविध्यन्त-
राङ्गकारात्; नापि धात्वर्थः, तस्य वचनान्तरेण विहितत्वात् ।
 
"
 
अथ --श्रयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं
विधत्ते - इति चेत्, तर्हि तत्र कथं धात्वर्थस्यान्वयः ? । करणत्वेनेति चेन्न,
अन्वयानुपपत्तेः । नहि संभवति दध्ना होमेनेति चान्वयः । साध्यत्वेनैवान्वयः-
दध्ना होमं भावयेदिति चेत्, न, तथा सत्यानुवादेऽपि धात्वर्थः करणत्वेनै-
वान्वेतीत्येतदुपेक्षितं स्यात्, विवक्षितवाक्यार्थश्च विनैव मथलक्षणयाङ्गी-
कृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा ।
 

 
;
 
तर्हि वाक्यमित्याह-समभोति । बलाबलेति । श्रुतिलिङ्गादीनां
राधिकरण इत्यर्थः । एतच्चोपरिष्टाद्ग्रन्थकृदेव निरूपयिष्यति ।
दध्नेति तृतीयाविभक्त्यन्तपदान्तरकल्पनमेव बोध्यम् । द्वितीये लिङ्गश्रुतिकल्पन पूर्व-
कमङ्गत्वे मानमिति पक्षे । कल्पनागौरवमभिसन्धायाह - तस्या एवेति । ननु 'अरुणया
पिङ्गादया' इत्यादौ रुण्यादिवि शिष्टक्रयभावनाया एव विधेयत्वाङ्गीकारात् तदन्य-
थानुपपत्तिकल्पित विशेषणविध्यर्थं यथा श्रुत्यावृत्तिराश्रीयते तद्वदनापीत्यत आह - विशि-
ष्टविधाविति । तथा च यत्रोत्पत्तिविध्यन्तरं नास्ति, तत्राऽगत्या विशिष्टविधिमङ्गीकृत्य
तदन्यथानुपपत्त्या अर्थात् विशेषणविधिकल्पनादशायां श्रुत्यन्तकल्पनादिप्रयासाश्रयणेऽपि
सत्यां गतौ गुणविधिस्थलेsपि किमर्थं स ग्राश्रीयत इति भावः ।
 
कल्पितेऽपि श्रुत्यन्तरे-न भवदिष्टं सेत्स्यतीत्याह-किंचेति । अयमभिसन्धिः- "दध्ना
जुहोती" त्यत्र पदद्वयं श्रूयते, यद्यत्रान्यापि श्रुतिः कल्प्येत केवलाया बिभक्तेः कल्पना-
संभवात् दध्नेति तृतीयान्तमन्यत्कल्पनीयम्, कल्पितस्य दध्नेतिपदस्याऽन्वयार्थं जुहोतीति
विधिपदान्तरस्वीकारे तेनैव गुणस्य विहितत्वेन 'अग्निहोत्रं जुहोती त्यनेन धात्वर्थस्य
प्राप्तत्वेनान्यस्य च कस्यचिदपि विधातुमशक्यत्वेन प्रत्यक्षदृष्टस्य वैयर्थ्यम् । श्रुत्यन्तर-
मकल्पयित्वा प्रत्यक्षतः श्रुतस्यैव कल्पितश्रुतिसहकृतस्य गुणविधायकत्वाङ्गीकारे गुणस्यैव
तत्र करणत्वेनाऽन्वयात् धात्वर्थस्य साध्यत्वेनैवाऽन्वयोऽङ्गीकर्त्तव्यः । अङ्गीकृते च तस्मिन्
प्रतिज्ञाव्याकोपोऽस्मदिष्टसिद्धिश्चेति । श्रुतविधेः 'दप्ना जुहोति' इत्यत्र श्रुतस्य जुहो-
तीति विधिभागस्य ।
 
३. वैयर्थ्यापत्तेः
 
१. पू. मी. ३. ३. ७.
 
३ मो० न्या०
 
२. वृथा.
 
प्राबल्यदौर्बल्यविचा
श्रुत्यन्तरकल्पनं