2023-02-20 11:46:17 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ मत्वर्थलक्षणा-
रणत्वं फलभावनायां करणत्वेन विधीयते, प्रत्ययार्थत्वेन दध्नोऽपि तस्य
प्राधान्यात् । एवंच दधिकरणस्वेनेन्द्रियं भावयेदिति वाक्यार्थः । करणत्वं च
किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संवध्यते । ततश्च
सिद्धो धात्वर्थस्याऽऽश्रयत्वेनान्वयः ।
प्रकृतमनुसरामः । तत्सिद्धं धात्वर्थस्य न करणत्वेनैवान्वय इति । किं
तर्हि क्वचित्करणत्वेन क्वचित्साध्यत्वेन क्वचिदाश्रयत्वेनेति । गुणविधौ
साध्यत्वेनेवान्वयः संभवतोति न मत्वर्थलक्षणायाः प्रयोजनम् ।
किंच गुणविधौ मत्वथंलक्षणायां गुणस्य धात्वर्थाङ्गत्वे कि मानमिति
वक्तव्यम् । न तावच्छुतिः । मत्वर्थलक्षणायां तृतीया श्रुतिर्मत्वर्थस्यैवाङ्गत्वे
दध्न इति पंचमी । तस्य करणत्वस्य । तत्र हेतुमाह-प्रत्ययार्थत्वेनेति । 'प्रत्ययः
प्राधान्येने ति स्मृतेरिति भावः । दधिकरणत्वेन दधिनिष्ठकरणत्वेन । किम्प्रतियो
गिकं किन्निरूपितम् । श्राश्रयत्वेन गुणनिष्ठ करणता निरूपकत्वेन । इदमन्त्राऽवधेयम्-
यत्र हि गुणः फलाय विधीयमानः कारकतामापद्यते स ाश्रयः इति लक्षण माहुः
पार्थसारथिमिश्राः । इदं च लक्षणम् उक्त्थ्यादिसंस्थानां फलाय विधीयमानानामाश्रय-
भूते ज्योतिष्टोमे ऽव्याप्तम्, तत्र ज्योष्टोमे उक्थ्यादीनां स्तोत्रविशेषाणां कारकत्वासंभ-
वात् । "दाक्षायणयज्ञेन स्वर्गकामो यजेते" त्यत्र दाक्षायणपदाभिधेयाया आवृत्तेः
दर्शपूर्णमासयोः कारकत्वासंभवाच्च । अतः फलाय विधीयमानी गुणो यां क्रिया-
मपेक्षते स प्राश्रयः इति शंकरभट्टै परिष्कृतमाश्रयलक्षणम् । तदपि न सुन्दरम् । 'एत-
स्यैव रेवतीषु वारचन्तीय मग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इत्यत्र
वारवन्तीयस्य क्रियापेक्षिणः यागरूपाश्रयलाभात् गुणफलसंबन्धविधानोपपत्ता-
यालाभकृतगुणफल सम्बन्धविध्यभावप्रतिपादनस्याऽसांगत्यापत्तेः । न च साम्नः क्रियात्म-
कत्वेन नाश्रयापेक्षेति वाच्यम् । तस्य स्वरसमाहाररूपत्वेन क्रियानात्मकत्वात् । अतः
ग्रदृष्टाद्वारकसंबन्धेन गुणविशेष विशिष्टत्वमाश्रयत्वम् । प्रकृते चाऽदृष्टरूपं द्वारमन्तरा या-
गस्य वारवन्तीयस्य च सम्बन्धाभावात् नोक्तदोष इति नवीनाः । एतद्दोषपरिजिहीर्षयैव
च सोमनाथसर्वतोमुखयाजिभिरपि "यत्र हीत्यादि" शास्त्र दीपिकावाक्यं-"दं
च यत्र फलाय विधीयमानस्य गुणस्य जातिद्रव्यशुक्लादिगुणरूपत्वं तदभिप्रायम"
तेन दाक्षायणयज्ञेन स्वर्गकामो यजेत, पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः,
शुक्राग्रान् ग्रहान् गतश्रीः प्रतिष्ठाकामः, इत्यादिषु श्रावृत्तिसंस्थाग्रतादीनां गुणानां दर्श-
पूर्णमासादिषु करणत्वाभावेऽपि तेषामाश्रयत्वमुपपद्यते, इति व्याख्यातम् । एवञ्च द्रव्य-
क्रियागुणादिरूपत्वे नाऽऽग्रहः । किन्तु ग्रदृष्टाद्वारकत्वं मुख्यतयाऽऽश्रयलक्षणे योजनीय-
मिति फलितम् ॥
नियमाभावमुपसंहरति-तत्सिमिति । फलितमाह- कवचिदिति । उत्पत्ति-
विधौ करणत्वेन, गुणविधौ साध्यत्वेन, गुणफलसम्बन्धविधावाश्रयत्वेनेत्यर्थः । किं मान-
मिति वक्तव्यमिति । प्रमाणं किंचित् वक्तव्यमित्यर्थः । मत्वर्थलक्षणायामिति ।
तयामिति शेषः । तृतीयाश्रुतिः । दध्नेतितृतीया विभवित्तरूपा श्रुतिः । अस्तु
<