2023-03-04 17:39:37 by dmraviteja
This page has been fully proofread once and needs a second look.
सारविवेचिनोव्याख्या संवलितः
प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात्,
नाऽपि होमान्तरं विधीयते,
मत्वर्थलक्षणाप्रसङ्गा
केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः, कर्तृव्यापारव्याप्यत्व
त्करणत्वस्य । कि तर्हि विधीयते इति चेत्, दध्नेति तृतीययोपात्तं दधिक-
१५
[commentary]
यजेत्' इत्यनेन वायुदेवताकर्गधिकरणकैकविंशस्तोमविशिष्टाग्निष्टोमसामसाध्यस्तोत्रवि-
शिष्टः प्रयोगः फलोद्देशेन विधीयते तस्य पूर्वो
देवताकासु ऋ
तेन अग्निष्टुन्नामकेन यजेत इत्यक्षरार्थः । "उपत्वा जामयो गिरः" इत्याद्या वाय-
व्याः । एतस्यैवेत्यादिना यजेतेत्यन्तेन प्रकृतवाक्येन रेवत्यधिकरणकवारवन्तीयनामक
सामसाध्याग्निष्टोमस्तोत्रविशिष्टं यागान्तरं पशुरूपफलोद्देशेन विधीयत इति । अत्र त्रिवृ
दग्निष्टुत् इत्यनेन प्रथमवाक्येन कर्मणो विधानात् न तत्पुनर्विधानमर्हति । द्वितीयवा-
क्येन गुणविशिष्टप्रयोगविधानान्न तस्याऽपि पुनर्विधानं युक्तम् । अतस्तृतीयवाक्येऽने-
कगुणोपादानात् तेषां च पूर्वत्राऽनिवेशात् तद्विशिष्टं कर्मान्तरमेव विधातुं युक्तम् । तच्च
कृत्वाशब्दोक्तभावनाविशेषणकं पूर्वभावनातो भिन्नं विजातीयभावनारूपमिति भावः ।
रेवत्यः रेशब्दघटिताः "रेवतोर्न:" इत्याद्या ऋचः; वारवन्तीयं "अश्वं न
वारवन्तं" इस्यस्यामृच्युत्पन्नं साम । अग्निष्टोम
साम । न च यागान्तरविधान एतच्छन्दविरोध इति वाच्यम् । एतच्छ
"ज्योति" रित्यादाविव प्रस्तोष्यमाणकर्मपरतयापि नेयत्वात् । अत्र च गुणफलसंबन्ध-
विधिः पूर्वपक्षे, सिद्
द्दोशेनाऽनेकविधाने वाक्यभेदात् भावनान्तरं विधीयते इत्युक्तम् । यदि वार्त्तिक-
स्याऽस्य यथाश्रुतोऽर्थो गृह्यते, तदा रेवत्यादीनां गुणत्वाभावात् वाक्यभेदापादनमसङ्गत-
मेव स्यादिति भावः ॥
"
ननु माऽस्तु प्रकृते कर्मणि गुणविधानं, किन्तु कर्मान्तरं विधीयताम् अत
नापीति । गौरवादिति । अनेकत्र विशिष्टे वा विधिव्यापारकल्पनारूपगौरवादित्यर्थः ।
मत्वर्थेति । कर्मान्तरविधाने भावनायां धात्वर्थस्य करणत्वेनाऽन्वितत्वेन गुणाऽस्यान्व-
यानुपपत्या लक्षणाऽऽवश्यकीति भावः । केवलं व्यापारासंबद्धं, न हि कुत्राऽपि दृष्टं सिद्धं
व्यापारानाविष्टं कार्
लक्षितमित्यर्थः ! फलभावनायां फलभाव्यकभावनायाम् । भावनायां निरूपकतासम्ब-
न्धेनाऽन्वययोग्य
नभिधानादिति भावः । गुणविधिस्थले करणत्वस्य निरूपकतासम्बन्धेनाऽन्वयः । क्रियाया
गुणजन्यत्वात् । गुणफलसम्बन्धविधिस्थलेषु तु करणत्वेनैव करणत्वस्याऽन्वयः सम्बन्धतया
भासमानं करणत्वं फलनिरूपितम् । प्रकारतया भासमानं तु धात्वर्थनिरूपितम् ।
एवं च धात्वर्
[^१] गौरवप्रसङ्गात्,