2023-02-20 11:46:17 by ambuda-bot
This page has not been fully proofread.
रूपणम् ]
सारविवेचिनोव्याख्या संवलितः
प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात्,
न्तरं विधोयते इत्युक्तम् । तस्मात्प्राप्ते होने नोभयविधानं संभवति ।
नाऽपि होमान्तरं विधीयते, (१) गौरवात्,
मत्वर्थलक्षणाप्रसङ्गाञ्च । नाऽपि दध्येव केवलं करणत्वेन विधीयते इति युक्तम् ।
केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः, कर्तृव्यापारव्याप्यत्व नियमा-
करणत्वस्य । कि तर्हि विधीयते इति चेत्, दध्नेति तृतीययोपात्तं दधिक-
१५
यजेत्' इत्यनेन वायुदेवताकर्गधिकरणकैकविंशस्तोमविशिष्टाग्निष्टोमसामसाध्यस्तोत्रवि-
शिष्टः प्रयोगः फलोद्देशेन विधीयते तस्य पूर्वोत्ताग्निष्टुन्नामकस्य यागस्य वायव्यासु वायु-
देवताकासु ऋतु एकविंशस्तोमविशिष्टं अग्निष्टोमाख्यं साम पठित्वा पशुरुपफलार्थं
तेन अग्निष्टुन्नामकेन यजेत इत्यक्षरार्थः । "उपत्वा जामयो गिरः" इत्याद्या वाय-
व्याः । एतस्यैवेत्यादिना यजेतेत्यन्तेन प्रकृतवाक्येन रेवत्यधिकरणकवारवन्तीयनामक
सामसाध्याग्निष्टोमस्तोत्रविशिष्टं यागान्तरं पशुरूपफलोद्देशेन विधीयत इति । अत्र त्रिवृ
दग्निष्टुत् इत्यनेन प्रथमवाक्येन कर्मणो विधानात् न तत्पुनर्विधानमर्हति । द्वितीयवा-
क्येन गुणविशिष्टप्रयोगविधानान्न तस्याऽपि पुनर्विधानं युक्तम् । अतस्तृतीयवाक्येऽने-
कगुणोपादानात् तेषां च पूर्वत्राऽनिवेशात् तद्विशिष्टं कर्मान्तरमेव विधातुं युक्तम् । तच्च
कृत्वाशब्दोक्तभावनाविशेषणकं पूर्वभावनातो भिन्नं विजातीयभावनारूपमिति भावः ।
रेवत्यः रेशब्दघटिताः "रेवतोर्न:" इत्याद्या ऋचः; वारवन्तीयं "अश्वं नत्वा
वारवन्तं" इस्यस्यामृच्युत्पन्नं साम । अग्निष्टोमस म यज्ञायज्ञा वो अग्य इत्यत्र गेयं
साम । न च यागान्तरविधान एतच्छन्दविरोध इति वाच्यम् । एतच्छन्दस्य "अथैष
"ज्योति" रित्यादाविव प्रस्तोष्यमाणकर्मपरतयापि नेयत्वात् । च गुणफलसंबन्ध-
विधिः पूर्वपक्षे, सिद्धन्ते च कर्मान्तरविधानम् । यदि गुणफलसंबन्धविधिः तदा प्राप्तो-
द्दोशेनाऽनेकविधाने वाक्यभेदात् भावनान्तरं विधीयते इत्युक्तम् । यदि वार्त्तिक-
स्याऽस्य यथाश्रुतोऽर्थो गृह्यते, तदा रेवत्यादीनां गुणत्वाभावात् वाक्यभेदापादनमसङ्गत-
मेव स्यादिति भावः ॥
"
ननु माऽस्तु प्रकृते कर्मणि गुणविधानं, किन्तु कर्मान्तरं विधीयताम् अत ग्राह-
नापीति । गौरवादिति । अनेकत्र विशिष्टे वा विधिव्यापारकल्पनारूपगौरवादित्यर्थः ।
मत्वर्थेति । कर्मान्तरविधाने भावनायां धात्वर्थस्य करणत्वेनाऽन्वितत्वेन गुणाऽस्यान्व-
यानुपपत्या लक्षणाऽऽवश्यकीति भावः । केवलं व्यापारासंबद्धं, न हि कुत्राऽपि दृष्टं सिद्धं
व्यापारानाविष्टं कार्य साधयत् साधनमित्याशयः । तृतीययोपात्त मिति । तृतीयया
लक्षितमित्यर्थः ! फलभावनायां फलभाव्यकभावनायाम् । भावनायां निरूपकतासम्ब-
न्धेनाऽन्वययोग्य करणत्व एव तृतीयायाः शक्तत्वेन करणत्वेनाऽन्वययोग्य करणत्वस्य तयाऽ
नभिधानादिति भावः । गुणविधिस्थले करणत्वस्य निरूपकतासम्बन्धेनाऽन्वयः । क्रियाया
गुणजन्यत्वात् । गुणफलसम्बन्धविधिस्थलेषु तु करणत्वेनैव करणत्वस्याऽन्वयः सम्बन्धतया
भासमानं करणत्वं फलनिरूपितम् । प्रकारतया भासमानं तु धात्वर्थनिरूपितम् ।
एवं च धात्वर्थे निष्पादयन्नेव गुणः फलं जनयेदिति । एतच्चाग्रे स्फुटी भविष्यति ।
१ गौरवप्रसङ्गात्,