This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः-
[ मत्वर्थलक्षणा-

 
किंच धात्वर्थस्य न करणत्वेनैवाऽन्वयः ([^) ]गुणकामाधिकरणे आश्रयत्वेन

धात्वर्थान्वयस्योक्तत्वात् । तथाहि 'दोदध्नेन्द्रियकामस्य जुहुयादि'त्यत्र न ताव-

द्धोमो विधीयते, तस्य वचनान्तरेण विहित्वात् । नापि होमस्य फल-

सम्बन्धः, गुणपदानर्थक्यापत्तेः । नापि ( [^)] गुणसम्बन्धः फलपदानर्थ-

क्यापत्तेः । ([^)] नाऽप्युभयसम्बन्धं विधत्ते । प्राप्ते कर्मण्यनेकविधाने वाक्य-

भेदापत्तेः । यदाहुः -
 
--
 
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
 

प्राप्ते तु विधीयन्ते बहवोऽध्प्ये कयत्नतः ॥ इति ।

 
अत्र च कर्मपदवत् गुणेत्युपलक्षणम् । एकोद्देशेनानेकविधाने वाक्य-

भेदात् । अतएव ( [^ )] ग्रहैकत्वाधिकरणे "ग्रहं संमार्ष्टी"त्यत्र ग्रहोद्देशेन
(

[^
) ]एकत्वसंमार्गयोर्विधाने वाक्य मेभेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् ।
 
(

 
[^
)] रेवत्यधिकरणे च 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा

पशुकामो ह्येतेन यजेत', इत्यत्र वारवन्तीयस्य रेवतीसंन्धे अग्निष्टोम-

सामसम्बन्धे फलसम्बन्धे च विधोयमाने वाक्यभेदाद्भावनोपसर्जनं भावना-

 
[commentary]
 
अपि निराकरणेन तदप्यधिकरणं प्रयोजनवत् भविष्यति, इत्यता- त आह--किञ्चेति ।

वचनान्तरेण अग्निहोत्रं जुहुयादित्यनेन । प्राप्ते कर्मणीति । अयमत्र वार्त्तिका-

शयः - --भावनैव सर्वत्र प्रधानभूता, तत्रैव च सर्वकारकाणामन्वयः इत्युक्तम्-
-
 
"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया ।
 

अनेक गुणजात्यादिकारकार्थानुरञ्जिता" ॥
 

 
इत्यादिना । सा यत्राऽप्राप्ता तत्र तस्या एव विधेयत्वेन तत्र च सर्वेषां कारकाणां वैशि-

ष्ट्यसंभवेन अनेककारकविशिष्टा एका भावना विनैव वाक्यमेदादिकमेकेन विधिव्यापारेण

विधातुं शक्यते । यत्र च सा प्राप्ता तत्र पुनः तस्या विधेयत्वासंभवात्कारकाणामेव च

विधेयत्वात्तेषां परस्परं वैशिष्ट्याभावात् पृथक् पृथक् विधिव्यापारस्याऽभ्युपगमनीयत्वेन

विध्यात्रृत्तिलक्षणो वाक्यभेदः प्रसज्यत इति नाऽनेकगुणविधानं संभवतीति । एकयत्नतः

एकेन विधिव्यापारेण । कर्मपदवदिति । यथा कर्मपदं प्राप्तमात्रोपलक्षकं एवं गुणपद-

मपि विधेयमात्रोपलक्षकमित्यर्थः । फलितमाह - --एकेति । अत एव कर्मपदस्योपलक्ष-

णत्वादेव । ग्रहं सम्मार्ष्टृटीति । सोमावसिक्तं पात्रं दशापवित्रा ख्येन वासः खण्डेन शोधय
-
तीत्यर्थो मिश्रमते । राणकमते तु--धारातः पात्रे सोमरसस्य ग्रहणकाले पात्रस्य बहि-

र्
लग्नानां विप्रषां प्रोञ्छनं कुर्यादित्यर्थः । पात्रवाचकत्वमेव युक्ततरं मन्यामहे । ग्रहो-

देशेन ग्रहेहैर्जुहोतीतिवाक्यप्राप्तग्रहोद्देशेन । ग्रहैकत्वं ग्रहगत मेकत्वम् ।
 
·
 
-
 

 
गुणपदस्योपलक्षणत्वे फलमाह - --एतस्यैवेति । इयमत्र स्थितिः । "त्रिवृदग्निष्टु.
-
दग्निष्टोमः' इत्यनेन प्रथमं त्रिवृत्स्तोमयुक्तः अग्निष्टोमसंस्थाक: अग्निष्टुन्नामको यागो

विहितः । तस्य "तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो
 
३ नाऽप्युभय

 
[^१] २.२. ११. [^२] गुण
सम्बन्धं विधत्ते । [^३] नाऽप्युभयसम्बन्धः,

[^४] ३.१.७ [^५] एकत्वसम्मार्गविधौ.
६२.२.१२.
 
१ २.२. ११.
४३.१.७
 
२ गुणसम्बन्धं विधत्ते ।
५ एकत्वसम्मार्गविधौ.
 
·