This page has not been fully proofread.

मीमांसान्यायप्रकाशः-
[ मत्वर्थलक्षणा-

 
किंच धात्वर्थस्य न करणत्वेनैवाऽन्वयः (१) गुणकामाधिकरणे आश्रयत्वेन
धात्वर्थान्वयस्योक्तत्वात् । तथाहि 'दोन्द्रियकामस्य जुहुयादित्यत्र न ताव-
द्धोमो विधीयते, तस्य वचनान्तरेण विहित्वात् । नापि होमस्य फल-
सम्बन्धः, गुणपदानर्थक्यापत्तेः । नापि (२) गुणसम्बन्धः फलपदानर्थ-
क्यापत्तेः । (३) नाऽप्युभयसम्बन्धं विधत्ते । प्राप्ते कर्मण्यनेकविधाने वाक्य-
भेदापत्तेः । यदाहुः -
 
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
 
प्राप्ते तु विधीयन्ते बहवोऽध्येकयत्नतः ॥ इति ।
अत्र च कर्मपदवत् गुणेत्युपलक्षणम् । एकोद्देशेनानेकविधाने वाक्य-
भेदात् । अतएव ( ४ ) ग्रहैकत्वाधिकरणे "ग्रहं संमा"त्यत्र ग्रहोद्देशेन
(५) एकत्वसंमार्गयोर्विधाने वाक्य मेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् ।
 
(६) रेवत्यधिकरणे च 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा
पशुकामो ह्येतेन यजेत', इत्यत्र वारवन्तीयस्य रेवतीसंवन्धे अग्निष्टोम-
सामसम्बन्धे फलसम्बन्धे च विधोयमाने वाक्यभेदाद्भावनोपसर्जनं भावना-
अपि निराकरणेन तदप्यधिकरणं प्रयोजनवत् भविष्यति, इत्यता- किञ्चेति ।
वचनान्तरेण अग्निहोत्रं जुहुयादित्यनेन । प्राप्ते कर्मणीति । अयमत्र वार्त्तिका-
शयः - भावनैव सर्वत्र प्रधानभूता, तत्रैव च सर्वकारकाणामन्वयः इत्युक्तम्-
"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया ।
 
अनेक गुणजात्यादिकारकार्थानुरञ्जिता" ॥
 
इत्यादिना । सा यत्राऽप्राप्ता तत्र तस्या एव विधेयत्वेन तत्र च सर्वेषां कारकाणां वैशि-
ष्ट्यसंभवेन अनेककारकविशिष्टा एका भावना विनैव वाक्यमेदादिकमेकेन विधिव्यापारेण
विधातुं शक्यते । यत्र च सा प्राप्ता तत्र पुनः तस्या विधेयत्वासंभवात्कारकाणामेव च
विधेयत्वात्तेषां परस्परं वैशिष्ट्याभावात् पृथक् पृथक् विधिव्यापारस्याऽभ्युपगमनीयत्वेन
विध्यात्रृत्तिलक्षणो वाक्यभेदः प्रसज्यत इति नाऽनेकगुणविधानं संभवतीति । एकयत्नतः
एकेन विधिव्यापारेण । कर्मपदवदिति । यथा कर्मपदं प्राप्तमात्रोपलक्षकं एवं गुणपद-
मपि विधेयमात्रोपलक्षकमित्यर्थः । फलितमाह - एकेति । अत एव कर्मपदस्योपलक्ष-
णत्वादेव । ग्रहं सम्माष्टृति । सोमावसिक्तं पात्रं दशापवित्रा ख्येन वासः खण्डेन शोधय
तीत्यर्थो मिश्रमते । राणकमते तु-धारातः पात्रे सोमरसस्य ग्रहणकाले पात्रस्य बहि-
लग्नानां विप्रषां प्रोनं कुर्यादित्यर्थः । पात्रवाचकत्वमेव युक्ततरं मन्यामहे । ग्रहो-
देशेन ग्रहेर्जुहोतीतिवाक्यप्राप्तग्रहोद्देशेन । ग्रहकत्वं ग्रहगत मेकत्वम् ।
 
·
 
-
 
गुणपदस्योपलक्षणत्वे फलमाह - एतस्यैवेति । इयमत्र स्थितिः । "त्रिवृदग्निष्टु.
दग्निष्टोमः' इत्यनेन प्रथमं त्रिवृत्स्तोमयुक्तः अग्निष्टोमसंस्थाक: अग्निष्टुन्नामको यागो
विहितः । तस्य "तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो
 
३ नाऽप्युभयसम्बन्धः,
६२.२.१२.
 
१ २.२. ११.
४३.१.७
 
२ गुणसम्बन्धं विधत्ते ।
५ एकत्वसम्मार्गविधौ.
 
·