This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
-
 
होमस्य करणत्वं श्रूयते, तद्वाचकतृतीयाद्यभावात् । कल्प्यत इतिचेन्न; गुण-
स्य (

स्य [^
)] तत्र विधित्सितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचित -
-
त्वात् दध्ना होमं भावयेदिति । न चाऽयमस्ति नियमो भावनायां धात्वर्थस्य

करणत्वेनैवाऽन्वयो न प्रकारान्तरेणेति; षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाद्ये

हि "यजेत स्वर्गकाम" इत्यादौ ([^)] प्रत्ययवाच्यायां वदयभाक्ष्यमाणार्थ भावनायां

समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्क्याऽपुरुषार्थत्वेन परिहृतम् । यदि च

धात्वर्थस्य करणत्वेनैव भावनायामन्वयः तदा भाव्यत्वशङ्कैव नोदेतीति

व्यर्थं षष्ठाद्यमधिकरणमापद्येत ।
 

 
किं च ([^)] वाजपेयाधिकरणे तन्त्रसम्बन्ध आशङ्क्य परिहृतः । धात्व-

र्थस्य करणत्वेनैवाऽन्वये तन्त्र संबन्धशङ्कैव न स्यात् । तन्त्रसंवन्धशङ्कापरि-

हारौ च तत्र व्याख्यातौ ।
 

 
[commentary]
 
त्वेनाऽन्वये किं मानम् ? नहि तत्रापि तृतीया श्रूयते, अथ तृतीया श्रवणाभावेऽपि अर्था-

पत्या "प्रकृतिप्रत्ययौ प्रत्ययार्थ" मिति स्मृत्या च धातुनैव लक्ष्यत इति कल्प्यत इत्यु-

च्येत, तथैव ममापीऽत्याशङ्कते--कल्प्यत इतीति । उचितत्वादिति । अन्यथा-
अना-
कांक्षितकल्पनारूपो दोष आपद्येतेति भावः । कल्पितमर्थतो ऽनुवदति- -दध्नेति । नन्वेवं

भावार्थाधिकरणविरोधः, तत्र धात्वर्थस्य भावनायां करणत्वेनान्वयस्यैव सिद्धान्तितत्वात्

इत्यत ग्रा--नचाऽयमिति । षष्ठेति । षष्ठाध्यायस्य प्रथमाधिकरणीयपूर्वपक्षेत्यर्थः ।
 

षष्ठाद्य
इति । अधिकरण इति शेषः । वक्ष्यमाणेत्यतः पूर्व भावनानिरूपणावसरे इति

शेषपूरणम् । अपुरुषार्थत्वेनेति । साक्षादिष्टे इष्टसाधन एव वा पुरुषस्य प्रवृत्त्युदयात्

यागादेः द्रव्यव्ययायाससाध्यत्वेन स्वयमनिष्टत्वात् पुत्रपश्वादिवद्वा इष्टसाधनत्वेन प्रमाणा-

न्तरेणाऽज्ञातत्वाच्च । यद्यपि यत्नात्मिकायां भावनायां भाग्व्यो याग एव, न तु स्वर्गादिः,

यत्नेन हि याग एव साध्यते, यागानुकूलत्वात् यत्नस्य । साधिते च यागे स्वर्गो भवति ।

न तत्सिध्यर्थं यत्नान्तरमस्ति । तथापि नासौ यत्नं प्रत्युद्देश्यः पुरुषार्थत्वात् । अतश्च

यागानुकूलयत्नात्मिकायामपि भावनायां उद्देश्यतारूपभाव्यत्वं स्वर्गस्यैव । यथा वेतन-

काम: पचेत् इत्यत्र पाकानुकूलयत्नात्मिकाया

भावनायां वेतनस्यैवोद्देश्यत्वं
 

तद्वत् इति भावः ।
 

 
ननु षष्ठाद्याधिकरणस्य न धात्वर्थगतकरणत्वनिराकरणे तात्पर्यम् । किन्तु

स्वर्गादेः पुरुषार्थस्य भाव्यत्वबोधन एव, अत एव "स्वर्गकामस्य यागकर्मोपदेशः

स्यात् ; अतः स्वर्गः प्रधानतः, कर्म गुणतः"
:"
इति भाष्यम् "पुरुषार्थस्यैव भा.
-
व्यत्वम् विधिश्रुतिलाद्ध्यवसोसीयते" इति शास्त्रदीपिका च संगच्छते । एवञ्च

तावन्मात्रेण चरितार्थस्य न तस्य वैयर्थ्यम्, अत आ--किञ्चेति । वाजपेयाधिकरण

इति । "वाजपेयेन स्वाराज्यकामो यजेते"ति वाक्यमुदाहृत्य यत्र विचारितं, तद -
-
धिकरणे प्रथमचतुर्थषष्ठ इत्यर्थः । तन्त्रसम्बन्धः । धात्वर्थस्य तन्त्रेण फलेन गुणेन च

संबन्धः । तत्र वाजपेयाधिकरणे । ननु मन्दविषन्यायेनोत्थिताया आशङ्काया: स्वल्पाया

 
[^
स्यात्र ] स्यात्र [^] प्रत्ययवाच्यवक्ष्यमाणार्थभावनायां । ३१.४.६.