This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा-
'ज्योति
 
क्तेर्गुणे संक्रमात् । यथाऽऽहु:-
-
 
सर्वत्राऽऽख्यातसंद्धे धूश्रूयमाणे पदान्तरे ।

विधिशक्त्युपसंक्रान्तेः स्याद्धातोरनुवादता ॥ इति ।

 
न च यागस्याऽप्राप्तत्वान्न तदुद्देशेन सोमविधानमिति वाच्यम् ।
'ज्योति-
ष्टोमेन स्वर्गकामो यजेत' इत्यनेन यागस्य प्राप्तत्वात् । न चास्याऽधिकारवि-

धित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । 'उद्भिदा यजेत पशुकामः' इतिवदे
-
कस्यैवोभयविधित्वोपपत्तेः । एवं च 'सोमेन यजेते 'त्यत्र न मत्वर्थलक्षगा ।

यदि ह्यत्र विशिष्टविधानं स्यात् तदाऽन्वयानुपपत्या मत्वर्थलक्षणा स्यात् ।

'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र तु यागविधाने क्वचिन्न मत्वर्थलक्षणा ।

न तावदेतस्मिन् वाक्ये । ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति, सामानाधि-

करण्येनैव ([^)] नामपदस्यान्वयात् । नापि 'सोमेन यजेते 'त्यत्र, यागोद्देशेन

सोमविधानात्- -सोमेन यागं भावयेदिति ।
 
-
 

 
ननु अनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम्-
-
 
विधाने वानुवादे वा यागः करणमिष्यते ।

तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति ॥ इति ।

 
अतश्च विशिष्टविधाविव गुणविधावण्प्यस्त्येव मत्वर्थलक्षणेति ([^)] चेत्-
-
 
( गुणविधौ मत्वर्थलक्षणाभावनिरूपणम् )
 

 
मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽङ्गीकियते । यदा तु भावनायां

धात्वर्थस्य करणत्वेनाऽन्वयः तदाऽन्वयानुपपत्त्या <error></error><fix>सा</fix>ङ्गीकर्तव्या । गुणविधौ च

न धात्वर्थस्य करणत्वेनाऽन्वयः, मानाभावात् । न हि "दध्ना जुहोती त्यत्र
 

 
[commentary]
 
केवलगुणमात्रविधानापेक्षया विशिष्टविधाने विशिष्टे विधिव्यापारकल्पनरूपं गौरवं वैशि-

ष्ट्यस्याऽव्युत्पन्नत्वेन तदर्थं मत्वर्थलक्षणा पद्येतेत्यर्थः । सर्वत्रेति । प्रख्यातपदे-

नाऽत्राऽऽख्यातान्तं गृह्यते । तेन संबद्धे तेन सह एकवाक्योपात्ते पदान्तरे दध्यादि-

रूपे विधिशक्तेः विधायकत्वरूपायाः संक्रान्तत्वात् धातोरनुवादकत्वमेवेत्यर्थः । याग-

स्याऽप्राप्तत्वेन गुणविधानासंभवमाशंकते--न चेति । गुणमात्रविधाने पूर्वोक्तदोषद्व-

याभावं प्रतिपादयति – एवञ्चेति । श्रन्वयानुपपत्तिरिति । सोमस्येति शेषः ।

एतस्मिन् वाक्ये ज्योतिष्टोमवाक्ये ।
 
-
 
a
 

 
ननु 'सोमेन यजेते' त्यस्य गुणविधित्स्वामीवाङ्गीकारेऽपि न मत्वर्थलक्षणादोषान्मु-

च्यामह इति यदा भक्षितेऽपि लशुने न रोगशान्तिः, तदा विशिष्टविध्यङ्गीकरणमेव वरमि-

त्याशयवानाशङ्कते--नन्विति । उक्तमिति । उद्भिदधिकरणवार्त्तिक इति शेषः । कारिका

गतार्था । लक्षणायां तात्पर्यानुपपत्तिरन्वयानुपपत्तिर्वा बीजम् । नाऽत्र तात्पर्य्यग्राहकं प्र
-
माणमस्ति । नाऽप्यन्वयानुपपत्तिः । गुणस्य करणत्वेनैवान्वयसंभवादित्याह--गुणान्वये

ति । प्रमाणभावमुपपादयति नहो--नहीति । ननु तवाऽप्युत्पत्तिवाक्यादौ धात्वर्थस्य करण-

 
[^
] ज्योतिष्टोमपदस्य
 
[^] चेद्, न,