2023-02-20 11:46:15 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्या संवलितः
नाऽन्त्ये प्रत्यय एव लक्षणेति चेत् (१), तथाऽपि सोमस्येतिकर्तव्यतात्वेनाऽन्व-
यानुपपत्तिः । सिद्धस्य वस्तुन इतिकर्तव्यतात्वाभावात्, क्रियाया एवेतिकर्त
व्यतात्वात्, द्रव्यस्य केवलमङ्गत्वात् । अत एवेतिकर्तव्यतात्वाभावात्
द्रव्यस्य प्रकरणा ( २ ) ग्रहणम् । यथाऽऽहु:-
नाऽवान्तरक्रियायोगाइते वाक्योपकल्पितात् ।
गुणद्रव्ये कथंभावैगृहन्ति प्रकृताः कियाः ॥ इति ।
तदेतदमे वक्ष्यामः ।
किंच 'सोमेन यजेते ति हि यागस्योत्पत्तिवाक्यं, नाऽधिकारवाक्य-
म् । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्याऽधिकारवाक्यत्वात् । उत्पत्ति
वाक्ये च नैतिकर्तव्यताकाङ्क्षा, इष्टविशेषाकाङ्क्षा कलुषितत्वेने तिकर्तव्यता-
काङ्क्षाया विस्पष्टमनुत्थानात् । तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भाव-
नायामन्वयः । तस्माद्विशिष्ट विधावन्वयानुपपत्त्याऽवश्यं मत्वर्थलक्षणा
वाच्येति ।
नन्वेवमपि 'सोमेन यजेते त्यत्र न विशिष्टविधानम्, गौरवात्, मत्वर्थल-
क्षणा (३) पाताच्च; किंतु "दध्ना जुहोती" तिवद्गुणमात्रविधानमस्तु, विधिश-
ऋगाद्युद्देशेनैव उच्चैस्त्वादयो विधीयन्त इति पूर्वपक्षयित्वा-वास्थस्याऽपि उप-
क्रमस्थत्वेन असञ्जातविरोधित्वेन च वेदशब्दस्यैव प्राबल्यं; विध्युद्देशगता अपि जघ-
न्यत्वेन सञ्जात विरोधित्वेन च ऋगादिशब्दा दुर्बला इति उपक्रमानुरोधेनैवोपसंहारस्या-
न्यथानयनमङ्गीकृत्य ऋग्वेदाद्युद्देशेन धर्मा विधीयन्ते इति सिद्धान्तितम् । तन्न्याय-
मत्राऽतिदिशति—असञ्जातविरोधित्वन्यायेनेति । सञ्जतः विरोधी यस्य सोऽस•
आतविरोधी, तत्त्वमसञ्जातविरोधित्वम्, तन्न्यायेनेत्यर्थः । लक्षणेति । इतिकर्त्तव्यतात्व
इति शेषः । क्रियाया एवेतिकर्तव्यतात्वादिति । कर्तव्यनिष्ठप्रकारविशेषस्यैवेति-
कर्तव्यतापदार्थत्वेन कर्तव्यत्वस्य च क्रियानिष्ठत्वेन तस्या एव तत्त्वौचित्यादिति
भावः । नावेति । द्रव्य क्रिययोरेकवाक्योपादानरूप समभिव्याहारान्यथानुपपत्या कल्पि
तात् अवान्तरव्यापाराद्विना गुणद्रव्ययोः प्रकृताभिः क्रियाभिः इतिकर्त्तव्यतात्वेन
ग्रहणं न सम्भवतीत्यर्थः । अग्रे प्रकरण निरूपणावसरे ।
-
-
-
ननु सिद्धस्य सोमस्य साक्षादितिकर्तव्यतात्वाभावेऽपि तत्साध्यव्यापारद्वाराऽस्तु
तत् अत एव द्रव्यस्याऽपि क्वचिदितिकर्तव्यतात्वाभिधानं सङ्गच्छते,
क
,
ञ्चेति । उत्पत्यधिकारवाक्ययोः स्वरूपं विवेचयिष्यति ग्रन्थकृदेव । यद्यपि विधेः प्रव-
र्त्तकत्वान्यथानुपपत्या प्रवृत्तिविषयीभूतयागादेरिष्टसाधनत्वमाक्षिप्तमेवेति सामान्यतो ज्ञात-
मेव यत्किञ्चिदिष्टम्, तथाऽप्याकांक्षायाः स्वर्गादिरूपेष्टविशेषान्वयं यावदनुवृत्तेः सत्यां च
तस्यामाकांक्षान्तरानुदयान्न सोमादेरितिकर्तव्यतात्वेनाऽन्वय इत्यभिसन्धिमानाह-
इष्टवि-
शेषेति । अयमेवाऽर्थः विस्पष्टपदेनाऽपि स्फोरितः । उपसंहरति - तत्सि इमिति ।
इदानीं सोमेन यजेतेत्यस्य गुणविधित्वमाशंकते - नन्विति । गोरवादिति ।
१ चेत् न,
२ अग्रहः ३ लक्षणदोषाच्च