This page has been fully proofread once and needs a second look.

वान्वयोऽस्तु [^
 
मीमांसान्यायप्रकाशः
 
[
] कृतं मत्वर्थलक्षणा-
वान्वयोऽस्तु (१) कृतं मत्वर्थलक्ष
णया इति चेत् --न, सोमेनेति तृतीयया कर-

णत्ववाचिन्या सोमस्येतिकर्तव्यतात्वानभिधानात् । तत्र यदीतिकर्तव्यतात्वं

लक्षणयोच्येत, ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा । ([^)] गुणे

त्वन्याय्यकल्पने'ति न्यायात् ।
 

 
अथ ([^)] 'वेदो वा प्रायदर्शनात्' इत्यधिकरणोक्ता संजात विरोधित्वन्याये-

 
[commentary]
 
नेति । करणत्ववाचिन्येति । 'कर्तृकरणयोस्तृतीया' इति सूत्रेण तथैवानुशासनात्

व्यवहाराच्चेति भावः । मास्तु शक्तिः, लक्षणा स्वीक्रियते, अत आ--तत्रेति । तृती-

यायामित्यर्थः । गुणे त्वन्याय्येति । सूत्रस्यैकदेशोऽयं नवमतृतीयपञ्चमस्थस्य 'विप्र-

तिपत्तौ विकल्पः स्यात् गुणे त्वन्याय्यकल्पनैकदेशत्वात्" इति सूत्रम् । तत्र हि

पशावग्नीषोमीये श्रुतयोः पशुकण्ठगतपाशविमोचनार्थयोः 'अदितिः पाशं प्रमुमोक्तु

"अदितिः पाशान् प्रमुमोक्तु" इत्येकवचनबहुवचनान्तमन्त्रयोः मध्ये बहुवचनान्त-

मन्त्रस्य प्रकरण एव निवेश: ? उत यत्राऽनेकपशुकरणकयागस्थले पाशानेकत्वं तत्र

मन्त्रोऽयमुत्कृष्यतामिति सन्दिह्य प्रकृते पाशबहुत्वाभावात् बहुवचनान्तमन्त्रस्य एकस्मि·
-
न्
नसमवायादुत्कर्षं पूर्वपक्षयित्वा - --"सत्वप्रधानानि नामीनी"ति निरुक्तस्मृत्या लिंलिङ्ग-

संख्याद्यपेक्षया प्रातिपदिकार्थस्य प्राधान्यावगतेः न गुणभूतसंख्यानुरोधेन प्रधानस्यो-

त्कर्षो युक्तः; किन्तु बहुवचनस्यैवैकत्वे लक्षणामङ्गीकृत्य प्रकृत एव निवेश इति सिद्धा-

न्तितम् । तथा च सूत्रस्याऽयमर्थः- -विमोचनीयपाशस्यैकत्वात् मन्त्रस्य पाशबहुत्वाभिधा
-
यित्वाच्च विप्रतिपत्तौ विरोधे सति न मन्त्र उत्क्रष्टव्यः; किन्तु एकवचनान्तमन्त्रेणाऽस्य

विकल्पः स्यात् उभयोरपि पाशविशिष्ट कर्मप्रतिपादकत्वेन समत्वात्, गुणे तु बहुव
-
चने तु अन्याय्यकल्पना एकत्वे लक्षणाकल्पना एकदेशत्वात् बहुवचनस्यैकदेश-

त्वात् ततश्च एकदेशबहुवचनानुरोधेन नोत्कर्ष इति । एवं च तन्न्यायेनाऽत्र "प्रकृति-

प्रत्यया" विति स्मृत्या प्रातिपदिकार्थापेक्षया विभक्त्यर्थस्य प्राधान्यावगमात् न विभक्तौ

प्रधानभूतायामितिकर्त्तव्यतात्वलक्षणा; किन्तु गुणभूतप्रातिपदिक एव मत्वर्थलक्षणा

युक्तेत्याशयः । उभयोः प्रत्ययार्थत्वाविशेषेऽपि दृष्टान्ते संख्यायाः प्रातिपदिकार्थापेक्षया

गुणत्वं, दार्ष्टान्तिके कारकस्य प्रातिपदिकार्थापेक्षया प्राधान्यमिति विवेक्तव्यम् ।
 
'
 
2
 
-
 

 
पुनः न्यायान्तरावलम्वेन पूर्वपक्षी प्रत्यवतिष्ठते - --अथेति । 'वेदो वा प्रायद-

शना' दिति तृतीयाध्यायतृतीयपादीयप्रथमाधिकरणस्थसिद्धान्तसूत्रमिदम् । "प्रजापति -
-
रकामयत प्रजायेयेति स तपोऽतप्यत । तस्मात्तेपानात्त्रयो देवा श्रजायन्त-

अग्निर्वायुरादित्यः । ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्त-

अग्नेॠग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदः । तस्माद्यत्किश्ञ्चिदृचा क्रि-

यते तदुच्चैः, यद्यजुषा, तदुपांशु, यत्साम्ना तदुच्चैः", इति श्रुतम् । तत्रोपक्रमे

ऋग्वेदादय उपसंहारे ऋगादयश्च श्रूयन्ते । तदत्र विधीयमान उच्चैस्त्वादिः ऋगादि-

धर्मः, उत तत्तद्वेदधर्म इति सन्दिह्य, विध्युद्देशे ऋगादिपदानामेव श्रवणात् तदनुरो-

धेनैवाऽर्थवादस्थो वेदशब्दो नेय इति अर्थवादस्थे वेदपदे ॠङ्मात्रलक्षणामङ्गीकृत्य
 

 
[^
] किंम
 
. २९-३-५ ३३-३-१