2023-02-20 11:46:14 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्या संवलितः
( भावनायां यागस्य सन्बन्धमात्रनिरूपणं, तत्खण्डञ्च )
ननु यजेतेत्यत्र यागस्य न करणत्वेन नाऽपि साध्यत्वेनोपस्थितिः, तद्वा-
चकतृतीयाद्यभावात्, किन्तु भावनायां यागसम्बन्धमात्रं प्रतीयते । यागस्य
च भावनासम्बन्धः करणत्वेन साध्यत्वेन च सम्भवति । तत्र करणत्वांशमा-
दाय फलसम्बन्धः साध्यत्वांशमादाय गुणसम्बन्धश्च स्यात्, इति चेत् -मैव-
म् । यद्यपि (१) भावनायां यागस्य सम्बन्धमात्रं प्रतीयते तथाऽपि करणत्वेनो.
पस्थितिदशायां न साध्यत्वेनोपस्थितिः (२) सम्भवति,
विरोधात् (३) (विरुद्ध-
त्रिकद्वयापचेश्च ।) तदवश्यं 'यागेन स्वर्गं भावयेत्' इति करणत्वेनान्वये सति
पश्चात् 'सोमेन यागं भावयेत्' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्य-
भेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्र मन्वेतीति वक्तुं
युक्तम् कारकाणामेव क्रियान्वयात् । तत्सिद्धं सोमस्य न सामानाधिकरण्येन
वैयधिकरण्येन वाऽन्वयः सम्भवतीति ।
>
( सोमस्येतिकर्तव्यतात्वेनाऽन्वयनिरूपणम्, तत्खण्डनञ्च )
ननु - यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाङ्क्षायां यथा यागः कर-
णत्वेनान्वेति तथेतिकर्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्यतात्वेन भावनायामे-
मिति तत्र करणत्वेनान्वितस्य पुनः सोमकर्मकभावनायां न्यानुपपत्तिस्तदवस्थैवे
त्याह-तथापीति ।
इदानीं धात्वर्थस्य भावनायां तन्त्रसम्बन्धमङ्गीकृत्य पूर्वपक्षी स्वाभीष्टं साधयितुमुपक्र-
मते -- नन्वित्यादिना । दिपदेन द्वितीया ग्राह्या । यागसम्बन्धमात्रमिति । पद-
श्रुत्येति शेषः । विरोधादिति । साध्यस्य फलादेः प्रयोजनरूपत्वात् प्राधान्यम् । प्राधा-
न्यस्य कृत्युद्देश्यत्वं विनाऽनुपपत्तेः उद्देश्यत्वापादकत्वम् । प्राप्तस्य चोदेष्टुमश-
क्यत्वात् प्राप्तकथनरूपानुवादापादकता । साधनस्य तु साध्यार्थत्वेन परार्थत्वात् शेष-
त्वापरपर्यायं गुणत्वम् । गुणत्वस्य शेषिपारतन्त्र्यलक्षणोपादेयत्वापादकत्वम् । उपादेय-
त्वस्य च विध्यधीनत्वात् विधेयतापादकतेति प्राधान्यादित्रिकं गुणत्वादित्रिकेण विरुद्धम् ।
तदेकत्र न समावेशमर्हतीति भावः । साध्यत्वस्य प्रमाणान्तरज्ञातत्वव्याप्यत्वेन विधे-
यत्वस्य च प्रमाणान्तराज्ञातत्वव्याप्यत्वेन एकस्मिन् युगपत् ज्ञातत्वमज्ञातत्वं च न संभ-
वतीत्यर्थः । विरुद्वत्रिकद्वयापत्तेश्चेति । उद्देश्यत्वं, अनुवाद्यत्वं, प्रधानत्वं चेति त्रिकं
साध्यनिष्ठम्; उपादेयत्वं, विधेयत्वम्, गुणत्वं चेति त्रिकं साधननिष्ठम् ; यदि यागस्य
युगपत् करणत्वं साध्यत्वं चोच्यते, तदा परस्परविरुद्धमिदं त्रिकद्वयमेकस्मिन् यागे आप -
द्येतेत्यर्थः । वाक्यभेद इति । यागेनेष्टं भावयेत्, सोमेन यागं भावयेदित्येवं विध्या-
वृत्तिलक्षण इत्यर्थः । स्वरूपान्वयोऽपि न सम्भवतीत्याह - न चेति ।
१
ननु माऽस्तु भावनायां साध्यत्वेन साधनत्वेन वाऽन्वयः सोमस्य; इतिकर्त्तव्यता-
त्वेन तु भवत्वन्वयः, तदानीं नैवोक्तदोषापत्तिः इत्याशंकते - नन्विति । निराकरोति
१ भावनाया ।
२ सम्बन्धद्वयविरोधात् ।
३ एतच्चिह्नान्तर्गतो भागः ग. पुस्तके नास्ति ।
२ मी० न्या०