This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा-
त्तिः, अदृष्टद्वयापत्तेः । न हि यागस्य सोमार्थत्वं दृष्टद्वारेण सम्भवति,
श्

व्
रीहिष्ववधाघातेनेव यागेन सोमे कस्यचिद् दृष्टस्याऽजननात् । अतस्तेन ताव
-
त्सोमे किश्ञ्चिददृष्टं जननीयम्, प्रोक्षणेनेव व्रीहिषु ।
 

 
तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनाऽन्यो वक्तव्यः ।

भावनाकरणत्वं च भावनाभाव्य निर्वर्तकत्वेनेत्युक्तम् । न च सोमोऽदृष्टमन्तरेण

फलं जनयितुं समर्थः, 'ग्रहैर्जुहोति' इति वाक्यविहितहोमेन तस्य
भस्मीभा-
वात् । अतोऽदृष्टद्वयापातान्न यागस्य सोमार्थत्वमिति न 'यागेन सोमं भाव-

येत्' इत्यन्वयः सम्भवति । करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्व-

यानुपपत्तेश्च ।
 
भस्मीभा-

 

 
सोमेन यागं भावयेत्' इत्यन्वयः ; तत्र यद्यपि सोमस्य करणत्वेन

यागार्थत्वाद्यागनिर्वृत्तिर्दृष्टमेव प्रयोजनं लभ्यते इति नाऽदृष्टद्वयापत्तिः; नाऽपि

करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वयानुपपत्तिः; करणत्वेनैवान्वयात्,

तथाऽप्यप्राप्तत्वाद्भावनाकरणत्वेनाऽन्वितस्य यागस्य साध्यत्वेनाऽन्वयानु-

पपत्तिस्तदवस्थैव ।
 

 
[commentary]
 
त्वेऽपि न क्षतिरित्याशङ्कयाह--न चेष्टापत्तिरिति । अयापदृष्टद्वयापत्तेरिति । यागादेकमदृष्टं,

सोमादेकमदृष्टमित्यदृष्टद्वयाङ्गीकरणमापतेदित्यर्थ: । दृष्टद्वयापत्तिं विशदयति--नहीति ।

न्वग्निहोत्रहोमस्य दृष्टविधया दधिनिष्करणतासम्पादकत्ववत् अत्रापि यागस्य दृष्टविधयैव

सोमनिष्ठकरणतासम्पादकत्वमिति कथमदृष्टद्वयापात: ? ग्राह-व्रीहिष्विति । यथा

व्रीहिष्ववघातेन दृष्टं वितुषीभावरूपं प्रयोजनं सम्पाद्यते, तद्वत् न किंचिदपि दृष्टमत्र

प्रयोजनमित्यर्थः । अत्र च सोमनिष्ठकरणता सम्पादकत्वं यागस्य सोमावान्तरव्यापारत्वेन

वा तज्जन्यत्वेन वा ?, आद्ये यागस्यापि फलजनकत्वावश्यम्भवात् तस्य चाऽपूर्व मन्तरे-

णानुपपत्तेः अपूर्वकल्पनापत्तिः । द्वितीये यागानुष्ठानस्य निष्फलत्वापत्त्या तत्परिहारार्थं फल-

वत्वे कल्पनीये ग्रदृष्टकल्पनाप्रसक्तिः, दृष्टान्ते तु न्यार्थीअन्यार्थं विहितस्यैव होमस्याऽत्र जन्यत्व-

मात्रं कल्प्यत इति नाऽदृष्टकल्पनापत्तिरिति वैषम्यमिति भावः । अत इति । दृष्टफलाज-

ननाददृष्टस्याऽप्यकल्पने संस्कार्यत्वस्यैवाऽसिद्धेरित्यर्थः । ग्रदृष्टान्तरापातं दर्शयति तथेति ।

यागेन सोमं भावयेदित्यन्वये सोमस्य संस्कार्यत्वावगमात् संस्कृतस्य च उपयोगावश्याम्भाः
भा-
वेन फल एव उपयोगो वाच्यः, स च भावनाकरणत्वापर पर्याय इति भावः । ग्रहैर्जुहो-

तीति । अत्र ग्रहशब्दः गृह्यतेऽस्मिन्निति व्युत्पत्या सोमरसाधारभूत उलूखलाकारः पात्रवि-

शेषः इति मिश्राः । राणके तु कर्मव्युत्पत्या ग्रहपदेन तादृशोलूखलाकारेषु पात्रेषु गृहीतो

रस एवाऽभिधीयत इत्युक्तम् । तस्य सोमस्य । भस्मीभावादिति। "यदाहवनीये जुह्वति"

इत्यनारभ्याधीतवाक्येन होंहोमसामान्यस्याहवनीयाधिकरणत्वविधानेनाग्नौ पतितस्य भस्मीभा-

वावश्यम्भावादिति भावः ॥ करणत्वेनेति । तृतीयान्तपदबोध्यत्वेन करणत्वमेव प्रतीयते, न

साध्यत्वबोधकद्वितीयादिकमस्ति, लक्षणया तु कर्मत्वं वाच्यम्, तच्च न युक्तमित्याशयः ।
 

 
वैयधिकरण्येनान्वये पक्षान्तरमाशंकते- -अथेति । अस्मिन् पक्षे ऽदृष्टद्वयाभावं दर्श-
यति

यति-
-तत्र यद्यपीति । यद्यपि दोषद्वयं न संभवति, तथापि सोमेन यजेतेत्यत्र श्रूयमाया
णाया
भावनाया निरवच्छिन्नाया विधेयत्वासंमवात् धात्वर्थविशिष्टत्वेनैव विधेयत्वमङ्गीकर्तव्य-
-