This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा-
त्तिः, अदृष्टद्वयापत्तेः । न हि यागस्य सोमार्थत्वं दृष्टद्वारेण सम्भवति,
श्रीहिष्ववधातेनेव यागेन सोमे कस्यचिद् दृष्टस्याऽजननात् । अतस्तेन ताव
त्सोमे किश्चिददृष्टं जननीयम्, प्रोक्षणेनेव व्रीहिषु ।
 
तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनाऽन्चयो वक्तव्यः ।
भावनाकरणत्वं च भावनाभाव्य निर्वर्तकत्वेनेत्युक्तम् । न च सोमोऽदृष्टमन्तरेण
फलं जनयितुं समर्थः, 'ग्रहैर्जुहोति' इति वाक्यविहितहोमेन तस्य
वात् । अतोऽदृष्टद्वयापातान्न यागस्य सोमार्थत्वमिति न 'यागेन सोमं भाव-
येत्' इत्यन्वयः सम्भवति । करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्व-
यानुपपत्तेश्च ।
 
भस्मीभा-

 
सोमेन या भावयेत्' इत्यन्वयः ; तत्र यद्यपि सोमस्य करणत्वेन
यागार्थत्वाद्यागनिर्वृत्तिईष्टमेव प्रयोजनं लभ्यते इति नाऽदृष्टद्वयापत्तिः; नाऽपि
करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वयानुपपत्तिः; करणत्वेनैवान्वयात्,
तथाऽप्यप्राप्तत्वाद्भावनाकरणत्वेनाऽन्वितस्य यागस्य साध्यत्वेनाऽन्वयानु-
पपत्तिस्तदवस्थैव ।
 
त्वेऽपि न क्षतिरित्याशङ्कयाहन चेशपत्तिरिति । अयापतेरिति । यागादेकमदृष्टं,
सोमादेकमदृष्टमित्यदृष्टद्वयाङ्गीकरणमापतेदित्यर्थ: । दृष्टद्वयापत्तिं विशदयति-नहीति ।
भन्वग्निहोत्रहोमस्य दृष्टविधया दधिनिष्टकरणतासम्पादकत्ववत् अत्रापि यागस्य दृष्टविधयैव
सोमनिष्ठकरणतासम्पादकत्वमिति कथमदृष्टद्वयापात: ? ग्राह-व्रीहिष्विति । यथा
व्रीहिष्ववघातेन दृष्टं वितुषीभावरूपं प्रयोजनं सम्पाद्यते, तद्वत् न किंचिदपि दृष्टमत्र
प्रयोजनमित्यर्थः । अत्र च सोमनिष्ठकरणता सम्पादकत्वं यागस्य सोमावान्तरव्यापारत्वेन
वा तज्जन्यत्वेन वा ?, आद्ये यागस्यापि फलजनकत्वावश्यम्भवात् तस्य चाऽपूर्व मन्तरे-
णानुपपत्तेः अपूर्वकल्पनापत्तिः । द्वितीये यागानुष्ठानस्य निष्फलत्वापत्त्या तत्परिहारार्थं फल-
वत्वे कल्पनीये ग्रदृष्टकल्पनाप्रसक्तिः, दृष्टान्ते तु न्यार्थी विहितस्यैव होमस्याऽत्र जन्यत्व-
मात्रं कल्प्यत इति नाऽदृष्टकल्पनापत्तिरिति वैषम्यमिति भावः । अत इति । दृष्टफलाज-
ननाददृष्टस्याऽप्यकल्पने संस्कार्यत्वस्यैवाऽसिद्धेरित्यर्थः । ग्रदृष्टान्तरापातं दर्शयति तथेति ।
यागेन सोमं भावयेदित्यन्वये सोमस्य संस्कार्यत्वावगमात् संस्कृतस्य च उपयोगावश्याम्भाः
वेन फल एव उपयोगो वाच्यः, स च भावनाकरणत्वापर पर्याय इति भावः । ग्रहैर्जुहो-
तीति । अत्र ग्रहशब्दः गृह्यतेऽस्मिन्निति व्युत्पत्या सोमरसाधारभूत उलूखलाकारः पात्रवि-
शेषः इति मिश्राः । राणके तु कर्मव्युत्पत्या ग्रहपदेन तादृशोलूखलाकारेषु पात्रेषु गृहीतो
रस एवाऽभिधीयत इत्युक्तम् । तस्य सोमस्य । भस्मीभावादिति। "यदाहवनीये जुह्वति"
इत्यनारभ्याधीतवाक्येन होंमसामान्यस्याहवनीयाधिकरणत्वविधानेनाग्नौ पतितस्य भस्मीभा-
वावश्यम्भावादिति भावः ॥ करणत्वेनेति । तृतीयान्तपदबोध्यत्वेन करणत्वमेव प्रतीयते, न
साध्यत्वबोधकद्वितीयादिकमस्ति, लक्षणया तु कर्मत्वं वाच्यम्, तच न युक्तमित्याशयः ।
 
वैयधिकरण्येनान्वये पक्षान्तरमाशंकते- अथेति । अस्मिन् पक्षे ऽदृष्टद्वयाभावं दर्श-
यति-तत्र यद्यपीति । यद्यपि दोषद्वयं न संभवति, तथापि सोमेन यजेतेत्यत्र श्रमाया
भावनाया निरवच्छिन्नाया विधेयत्वासंमवात् धात्वर्थविशिष्टत्वेनैव विधेयत्वमङ्गीकर्तव्य-
-